सदस्यः:Pujitha123/प्रयोगपृष्ठम्
अन्तर्विषयाः [गोप्यताम्] अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम् । यस्यायम् आदिमः श्लोकः वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥१.१॥ तद् यथानुश्रूयते। अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव। तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना। तत् प्रभूतेऽपि वित्तेर्थोपायाश्चिन्तनीयाः
कर्तव्याश्चेति। यत उक्तं च..
नहि तद्विद्यते किञ्चिद्यदर्थेन न सि ध्यति। यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२॥ यस्यार्यस्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। यस्यार्थाः स पुमान्लोके यस्यार्थाः स च पण्डितः॥ १.३॥ न सा विद्या न तद्दानं न तच्छिल्पं न सा कला। न तत् स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥१.४॥ इह लोके हि धनिनां परोऽपि स्वजनायते । स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते॥१.५॥ अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्येतस्ततस्ततः । प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः॥१.६॥ पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च॥ १.७॥ अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि । एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥१.८॥ अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते। त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः॥१.९॥ गतवयसामपि पुंसाम्येषामर्था भवन्ति ते तरुणाः। अर्थो तु ये हीना वृथास्ते यौवनेपि स्युः ॥१.१०॥ स चार्थः पुरुषाणां षड्भिरुपायैर्भवति भिक्षया अंड़्पसॆवया क्ड़्षिकर्मणाविद्यॊपार्जनॆन व्यवहारॆण वणिक्कर्मणा वा। सर्वॆषाम् अपि तॆषाम् वाणिज्यॆनातिरस्क्ड़्तॊ र्थलाभःस्यात्। उक्तम् च यतः क्ड़्ता भिक्षानॆकैर् वितरति अंड़्पॊ नोचितम् अहो क्ड़्षिः क्लिष्टा विद्या गुरुविनयव्ड़्त्त्यातिविषमा। कुसीदाद् दारिद्र्यम्परकरगतग्रंथिशमनान् न मंयॆ वाणिज्यात् किम् अपि परमम्वर्तनम् इह॥पञ्च_१.११॥ उपायानाम् च सर्वॆषाम् उपायः पण्यसम्ग्रहः। धनार्थम् शस्यतॆहॆ ऎकस् तद्अंयः सम्शयात्मकः॥पञ्च_१.१२॥