सदस्यः:ROSALIN PRADHAN.121/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सम्प्रेषणम्



       सामाजिक सांस्कृतिकदायित्वनिर्वहणार्थं शिक्षा युवकान् प्रेष्यति। तेषां मस्तिष्क प्रशिक्षितं कारयित्वा तेषु ज्ञानं विकास्य आत्मविश्वासं च संवर्धयति।तेषां मस्तिष्कं स्वतन्त्रं विधाय ईर्ष्या-घृणा-भयादिभ्यः अवगुणेभ्यः दुर्गे संस्थाप्य तेषां व्यक्तित्वस्य सर्वाङ्गीणविकासं साधयति । शिक्षायाः एतेषां प्रयोजनानां प्राप्तिः सम्प्रेषणेन जायते। अतः शिक्षायां शिक्षणाधिगम प्रक्रिययाञ्च सम्प्रेषणस्य महन्महत्वं वर्तन्ते। शिक्षोद्देशस्य पूर्तये सम्प्रेषणं माध्यमरूपेण कार्यं निर्वहति। शिक्षायां शिक्षणाधिगमक्रियायां च सम्प्रेषणं, छात्रशिक्षकयो अन्योन्याश्रितान्तः क्रियात्वेन समूविष्टं भवति । एषा अन्तः क्रिया शिक्षोद्देश्यपूर्तये माध्यमरुपेण भवति।एवं रीत्या अन्यैः सह सम्प्रेषणेन सामान्यानुभवः प्राप्यते।

             सम्प्रेषणं विना शिक्षायाः शिक्षणस्य च कल्पना कर्तुं न शक्यते । सम्प्रेषणम् इति पदं आङ्ग्लभाषायाः communication इत्यस्य पर्यायपदम् लैटिन् भाषायाः communise इति पदम् निष्पन्नोऽयं communication इति शब्दः। Common सामिन्यं communise इति पदस्यार्थः।अतः उच्यते सम्प्रेषणम् एका तादृशी प्रक्रिया यत्र व्यक्तिः परस्परं सामान्याववोधमाध्यमेन आदानप्रदानार्थं प्रयतते।

सम्प्रेषणस्यार्थः

                  सम्प्रेषणकौशलस्य पञ्चप्रमुखाङ्गानि भवन्ति :-

1. भाषणम्

2. श्रवणम्

3. लेखनम्

4. पठनम्

5. अशाब्दिकसंकेतः

  सम्प्रति औपचारिक शिक्षायां प्रत्यक्षतया एतानि सर्वाव्यपि अङ्गानि पूर्णतः अपेक्षितानि सन्ति। अतः अध्यापकेन बालकाः कस्याञ्चित् एकस्यां भाषायाम स्वीयविचारान् प्रकटयितुं लेखितुं ,भाषितुम् च शक्नुयुः।

सम्प्रेषणस्य परिभाषा

• उदगर डेले महोदयानुसारं  -“ सम्प्रेषणं विचारविनिमयस्य मनोभावे विचारान् भावनाश्च परस्परं ज्ञातुम् अवगन्तुं च काश्चित् प्रक्रिया” ।

• लेलेडे व्राउन् महाभागा मूलाग्रे – “ सम्प्रेषणं तथ्यानां,विचाराणां कार्यपद्धतेः वा अन्तः परिवर्तनं प्रसारणं च भवति”।

सम्प्रेषणस्व‌रुपम्

1. सम्प्रेषणं पारस्पारिक सम्बन्ध स्थापनस्य काचित् प्रक्रिया।

2. सम्प्रेषणं काचन उद्दिश्यपूर्णा प्रक्रिया था।

3. प्रभावि सम्प्रेषणम् उत्तम शिक्षाणार्थम् एकं मूलतत्वम्।

सम्प्रेषणस्य प्रकाराः

1. शाब्दिक सम्प्रेषणम्

• मैक्षिक सम्प्रेषणम्

• लिक्षित सम्प्रेषणम्

2. अशाव्दिक सम्प्रेषणम्

• वाकस‌ंकेतः

• चक्ष्वादिमुखमुद्राः

• स्पर्शसम्पर्कः

सम्प्रेषणस्योद्देश्यानि

• अभिप्रेरणम् – अभिप्रेरणम एतादृशी काचित् प्रक्रिया। यत्र कार्यं तर्केण सन्तोषयितुं, प्रेरयतुं च व्यवस्था भवति।

• मुक्तविनिमय -  सम्प्रेषणस्य द्यिपाक्षिकसूचनाः विचारश्च मुक्ततया परस्परादानेन प्रोत्साह्वन्ते।

निष्कर्षः

अधुना शिक्षाक्षेत्रे समुचितसम्प्रेषणस्य महति आवश्यकता वर्तते। मानवीयभावः सम्प्रेषणमाध्यमेन व्यक्तयन्तरं प्रापयितुं शक्यते। एतस्य प्रयोगः रोचकतया तथ्यानां, भावानां, विचाराणाम्,आदानप्रदानेन सृष्टजायते। सम्प्रति विद्यालयेषु आगान्तारः छात्राः व्यापकतया विभिन्नक्षमतावन्तः अभिरुचिवन्तश्च भवति। आधुनिक प्रविधिना चलचित्रं, आकाशवाणी,दुरदर्शनं इत्यादि सम्प्रेषणस्य अनेके विधयः वर्तते। येषां सम्पेषणे व्यापकोपयोगः जायते।

                       सम्प्रेषणम् अनेकैः प्रकारः माध्यमैः च कर्तुं शक्यते। येन संग्राहकपर्यन्तं स्वविचारान् भावान् च सम्पेष्य। तेषु प्रभावः उत्पदयितुं शक्यते।‌