सदस्यः:Raghunaathan.S1810379/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Raghunaathan.S1810379/प्रयोगपृष्ठम्
भारते निर्मीयन्ताम् इत्यस्य प्रकल्पस्य प्रतीकः गीर अभयारण्यम्
दिनाङ्कः २५/०९/२०१४
स्थलम् नवदेहली, भारतम्
अनुष्ठातारः नरेन्द्र मोदी]]
भारतसर्वकारः
जालस्थानम् www.makeinindia.com
क्रयणशक्तेः बाहुल्यम् अर्थात् अधिकाजीविका....

भारते निर्मीयन्ताम्[सम्पादयतु]

भारते निर्मीयन्ताम् उत मेक् इन् इण्डिया इति कश्चन प्रकल्पः वर्तते । भारतसर्वकारस्य सुतरां महत्त्वपूर्णस्य प्रकल्पस्यास्य आरम्भः २०१४ तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे (२५/०९/२०१४) दिनाङ्के अभवत्  । समग्राभियानस्य मूलप्रेरणास्रोतः पण्डितः दीनदलायः उपाध्यायः अस्ति । भारते निर्मीयन्ताम् इत्याकारकस्य प्रकल्पस्य आरम्भं कुर्वन् श्रीनरेन्द्रः अवदत्,

जनसामान्यस्य क्रयणशक्तौ वृद्धिः आवश्यकी । यतः तेन अभ्यर्थनायां वृद्धिः भविष्यति । अभ्यर्थनायां वृद्धौ सत्यां विकासः वेगवान् भविष्यति । निर्धनाः जनाः यावच्छीघ्रं मध्यमवर्गे अन्तर्भविष्यन्ति, तावच्छीघ्रं वैश्विकव्यवसायस्य नवीनाः अवसराः समुत्पत्स्यन्ते । सर्वेषाम् आवश्यकता अल्पमूल्यस्य निर्माणस्य, मनसेप्सितक्रयणस्य च अस्ति । क्रयणशक्तेः बाहुल्यम् अर्थात् अधिकाजीविका इति ।

इतिहासः[सम्पादयतु]

२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८२०१४) दिनाङ्के (स्वातन्त्र्योत्सवपर्वणि) स्वस्य भाषणे श्रीनरेन्द्रः अघोषयत्, शीघ्रं हि वयं मेक् इन् इण्डिया इत्याकारकस्य प्रकल्पस्य आरम्भं करिष्यामः इति । तस्याः घोषणायाः एकमासानन्तरमेव २०१४ तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे (२५/९/२०१४) दिनाङ्के देहली-महानगरस्थिते विज्ञानभवने श्रीनरेन्द्रेण प्रकल्पस्यास्य घोषणा कृता । २०१४ तमस्य वर्षस्य दिसम्बर-मासस्य एकोनत्रिंशत्तमे (२९/१२/२०१४) दिनाङ्के प्रकल्पसम्बद्धायाः कार्यशालायाः आयोजनम् अभवत् । तस्याः कार्यशालायाः आयोजनं भारतसर्वकारस्य "औद्योगिकी नीतिः संवर्धनं च" इत्याख्यः विभागः अकरोत् । तस्यां कार्यशालायां श्रीनरेन्द्रस्य आध्वर्यवे केन्द्रियमन्त्रिमण्डलं, सर्वेषां राज्यानां मुख्यमन्त्रिणः, अनेके उद्योगपतयः च भागं निरवहन्

प्रोत्साहनात्मकम्[सम्पादयतु]

भारते निर्मीयन्ताम् इत्यस्मिन् प्रकल्पे सर्वे सुलभरीत्या निवेशं कर्तुं प्रभवेयुः इत्युद्देशेन भारतसर्वकारेण अनेके नवीननियमाः उद्घोषिताः । अधिकारपत्रस्य निर्माणम् अन्तर्जालमाध्येन आरब्धम् । अधिकारपत्रस्य वैधतायाः समयसीमां वर्धयित्वा वर्षत्रयं निर्धारितम् । अनेके अन्ये नियमाः अपि निवेशकेभ्यः अनुकूलिताः भारतसर्वकारेण ।

२०१४ तमस्य वर्षस्य अगस्त-मासे भारतीयमन्त्रिपरिषदा प्रत्यक्षविदेशिनिवेशस्य नियमेषु अनेकानि परिवर्तनानि कृतानि । रक्षाक्षेत्रे ४९ प्रतिशतं, रेल-मार्गक्षेत्रे १०० प्रतिशतं च प्रत्यक्षविदेशिनिवेशाय अनुमतिः प्रदत्ता ।

प्रतिक्रियाः[सम्पादयतु]

२०१५ तमस्य वर्षस्य जनवरी-मासे स्पाइस् इत्याख्या संस्था अकथयत्, सा स्वजङ्गमदूरभाषयन्त्रस्य निर्माणकार्याय एकस्याः कार्यशालायाः आरम्भम् उत्तरप्रदेशराज्येषु करिष्यति इति । तस्यै कार्यशालायै ५०० कोटिरूप्यकाणां निवेशं करिष्यति सा संस्था । सहमतिज्ञापकपत्रे हस्ताक्षरं कृत्वा पक्षद्वयेन अर्थात् स्पाइस्-संस्थया, उत्तरप्रदेशस्य सर्वकारेण च कार्यशालायाः निर्माणप्रक्रियायै कटिबद्धता प्रदर्शिता ।

२०१५ तमस्य वर्षस्य जनवरी-मासे सैम्सङ्ग-संस्थायाः प्रशासकः ह्युंगचिंग होंग कालराज मिश्र-महोदयश्च एम् एस् एम् ए इत्यस्य सहभागित्वं स्वीकृत्य १०-शालानां भारते आरम्भविषयिणीं मीमांसां कर्तुम् अमिलताम्  । फरवरी-मासे सैमसङ्ग-संस्थायाः प्रतिनिधिः अवदत्, उत्तरप्रदेशराज्यस्य नोयडा-महानगरे वयं 'सैमसङ्ग झेड् १'-जङ्गमदूरवाण्याः निर्माणाय कार्यशालायाः आरम्भं करिष्यामः इति  ।

उद्देश्यानि[सम्पादयतु]

१. आर्थिकवृद्धिः २. विदेशिनिवेशकानां भारते निर्माणकार्यारम्भः ३. भारतीयनिवेशक्षेत्रे वृद्धिः ४. नूतनप्रौद्योगिकीनाम् आगमनम् ५. कौशलविकासस्य अवसराः ६. मध्यमावधेः तुलनायां विनिर्माणस्य क्षेत्रे १२-१४ प्रतिशतं वृद्धिः ७. भारते स्वदेशीयनिर्माणस्य सहभागिता २०२२ पर्यन्तं १६ तः २५ प्रतिशतं भवेत् ८. २०२२ पर्यन्तं भारते विनिम्राणक्षेत्रेण दशकोटिः नूतनाजीविकानां निर्माणम्

प्रोत्साहनात्मकम्[सम्पादयतु]


भारते निर्मीयन्ताम् इत्यस्मिन् प्रकल्पे सर्वे सुलभरीत्या निवेशं कर्तुं प्रभवेयुः इत्युद्देशेन भारतसर्वकारेण अनेके नवीननियमाः उद्घोषिताः । अधिकारपत्रस्य निर्माणम् अन्तर्जालमाध्येन आरब्धम् । अधिकारपत्रस्य वैधतायाः समयसीमां वर्धयित्वा वर्षत्रयं निर्धारितम् । अनेके अन्ये नियमाः अपि निवेशकेभ्यः अनुकूलिताः भारतसर्वकारेण । २०१४ तमस्य वर्षस्य अगस्त-मासे भारतीयमन्त्रिपरिषदा प्रत्यक्षविदेशिनिवेशस्य नियमेषु अनेकानि परिवर्तनानि कृतानि । रक्षाक्षेत्रे ४९ प्रतिशतं, रेल-मार्गक्षेत्रे १०० प्रतिशतं च प्रत्यक्षविदेशिनिवेशाय अनुमतिः प्रदत्ता ।

प्रतिक्रियाः[सम्पादयतु]


२०१५ तमस्य वर्षस्य जनवरी-मासे स्पाइस् इत्याख्या संस्था अकथयत्, सा स्वजङ्गमदूरभाषयन्त्रस्य निर्माणकार्याय एकस्याः कार्यशालायाः आरम्भम् उत्तरप्रदेशराज्येषु करिष्यति इति । तस्यै कार्यशालायै ५०० कोटिरूप्यकाणां निवेशं करिष्यति सा संस्था । सहमतिज्ञापकपत्रे हस्ताक्षरं कृत्वा पक्षद्वयेन अर्थात् स्पाइस्-संस्थया, उत्तरप्रदेशस्य सर्वकारेण च कार्यशालायाः निर्माणप्रक्रियायै कटिबद्धता प्रदर्शिता ।
२०१५ तमस्य वर्षस्य जनवरी-मासे सैम्सङ्ग-संस्थायाः प्रशासकः ह्युंगचिंग होंग कालराज मिश्र-महोदयश्च एम् एस् एम् ए इत्यस्य सहभागित्वं स्वीकृत्य १० शालानां भारते आरम्भविषयिणीं मीमांसां कर्तुम् अमिलताम् । फरवरी-मासे सैमसङ्ग-संस्थायाः प्रतिनिधिः अवदत्, उत्तरप्रदेशराज्यस्य नोयडा-महानगरे वयं 'सैमसङ्ग झेड् १'-जङ्गमदूरवाण्याः निर्माणाय कार्यशालायाः आरम्भं करिष्यामः इति ।
२०१५ तमस्य वर्षस्य फरवरी-मासे हिटाचि-आख्या संस्था प्रत्यजानात्(प्रतिज्ञाम् अकरोत्), अस्माकं संस्था भारते १०,००० तः १३,००० सङ्ख्याकान् वृत्त्यवसरान् उद्भाविष्यति । २०१३ तमे वर्षे भारतात् अस्माकं संस्थायाः आयः १०० अर्बुदम् (बिलयन्) आसीत्, तस्मिन् वृद्धिं कृत्वा वयं २१० अर्बुदं (बिलयन्) करिष्यामः । २०१६ तमे वर्षे ओटो-कोम्पोनट्स्-कार्यशाला अस्माभिः चेन्नै-महानगरे आरप्स्यते ।