सदस्यः:Ramakanta MIshra

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीयशास्त्रपरम्परायां रामायणं खलु राजतेतमाम् । तत्र रामरावणयोर्युद्धानन्तरं दशाननः आसन्नमरणः आसीत् । रघुवंशनाथः स्वानुजं लक्ष्मणं रावणसकाशात् अन्तिमोपदेशं प्राप्तुं तत्समीपं प्रैषयत् । अनिच्छायां सत्यामपि सः रावणमाजगाम । रावणः स्वजीवनस्य रहस्यद्वयम् अवोचत् । एकन्तु सम्पूर्णक्षाराब्धिं मधुरं कुर्याम् । अपरञ्च स्वर्गं प्रति सुवर्णसोपानानि स्थापयेयम् । किन्तु उत्तमकार्यसम्पादने अहं विलम्बमकर्वम् । किन्तु सीताहरणात्मकाधमकार्यसम्पादने शीघ्रतां कृतवान् । अतः अद्य मम ईदृशी दशा वर्तते ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ramakanta_MIshra&oldid=289334" इत्यस्माद् प्रतिप्राप्तम्