सदस्यः:Raodiv/प्रयोगपृष्ठम्9

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुक्कुटः
खगानाम् एकम् भेदम्
खगानाम् एकम् भेदम्

कुक्कुटस्य शिरसि ताम्रा चूडा वर्तते । कुक्कुट्या शिरसि ताम्रा चूडा न विद्यते ।

कुक्कुटाः प्राधान्येन धान्यकणान् भक्षयन्ति । ते पादाभ्यां अवकरान् विकिरन्तो भक्ष्यम् अन्विष्यन्ति चञ्च्वा चोद्धरन्ति।।

कुक्कुटाः प्रत्यहं प्रातस्तरां प्रबुध्यन्ते । उच्चैः क्रोशन्तः ते प्रत्यूषे सर्वान् प्राणिनः प्रबोधयन्ति । उत्तिष्ठत जनाः, अलं निद्रया, प्रभाता रजनिः, चक्षुरुन्मीलयत, कवाटमुद्धाटयत, सूर्योदयात् पूर्वं शय्यां त्यजत इति वदन्त इव तारं रटन्ति।।

कुक्कुटानां शब्दं श्रुत्वा केचिज्जनाः शयनादुत्थाय स्वीयेषु कर्मसु प्रवर्तन्ते । कुक्कुटा रात्रौ यामे यामे विरुवन्तो वेलां बोधयन्ति ।।

can't use in sandboxविभिन्नलेखेभ्यः स्टब्स्]] can't use in sandboxपक्षिणः]] can't use in sandboxचित्रं योजनीयम्]] https://sa.wikipedia.org/w/index.php?title=%E0%A4%95%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%95%E0%A5%81%E0%A4%9F%E0%A4%83&action=edit#


फलकम्:Infobox animal