सामग्री पर जाएँ

सदस्यः:Rashni Nath/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तेजपुरनगरे स्थित: अग्निगडशैल:

      भारतवर्षस्य वहुराज्येषु प्रकृतिपरिपूर्णं मनोरमं चिरश्यामली देवतानां पादस्पर्शमयं वहुराज्ञां राजत्वस्थानम् इदम् असमराज्यम् | असमप्रदेशस्य प्राणकेन्द्रं भवति तेजपुरनगरम् | तेजपुरनगरस्य मध्यभागे महाभैरवमन्दिरात् किंचित् निलगे अवस्थित: अस्ति अग्निगडशैल: | अयम् अग्निगड: प्रकृते: असीमोदारताभि: लौहित्यस्य तरान्वितजलप्रवाहस्य सुरध्वनिभि: सदाश्यामलसुन्दरै: आवृत:|  यथा प्रकामकामरूपे आचार्यमनोरंजनशास्त्रीणा एवं कथ्यते - ''ब्रह्मात्मजजलकणैरग्निशैलावृतंच'' इति | वाणराज्ञ: सेनानां सहस्रस्कन्धानां स्कन्धवलै: निर्मितोऽयम् अग्निगडशैल: | उषाचित्रलेखयो: मनोरमलीलाभूमिरयं यत्र अस्त्रबलस्य वाहुबलस्य अतिरिच्यापि प्रेम्न: जयम् अभवत् | तेजपुरं शत्रुपक्षत: सुरक्षितार्थं पुराकाले वाणासुर: समग्रनगरम् अग्निना आवृतं कृतवान् इति कालिकापुराणे उल्लेखयति | तदुपरि अनिरुद्धंम् उद्धारकर्तुं श्रीकृष्ण: सैन्यै: सह युद्धयात्रां कृत्वा शोणितपुरे प्रवेशति स्म | वाणनगरस्य चतुर्दिक्षु अग्निं दृष्ट्वा विस्मयो जात: | तस्मिन् नगरे प्रवेशयितुं छिद्रमपि न प्राप्य शेषे गडुरपक्षीसहायेन अग्निनिर्वापनं कृत्वा नगरे प्रवेशयति स्म इति महाभारतस्य हरिवंशस्य विष्णुपर्वे उल्लेखमस्ति | एभि: तथ्यै: प्रमाणकर्तुं शक्यते यत् वाणराज्ञ: नगरमिदम् अग्निगडनाम्ना आख्यायते स्म |

1924 तमे वर्षे ब्रह्मपुत्रस्य तटे स्थितायां टिलायाम् एकम् उद्यानं निर्माणं कारयति, परवर्तिकाले इदमुद्यानमेव अग्निगड: नाम्ना परिचितम् | बृटीशशासने अस्य नामासीत् 'Observatory Hill' इति | एकस्मिन् समये अत्र दूरवीक्षण इति यन्त्रेन समग्रनगरं निरीक्षणमभवत् अत: अस्य नाम 'Observatory Hill' इति आसीत् | 2009 तमे वर्षे जानुवारीमासे इदमुद्यानम् 'अग्निगड:' रूपेण स्वीकृति: प्रदीयते | अस्मिन् अग्निगडे एव वैशाखमासस्य शुक्लाद्वादशीतिथौ रात्रौ रूपवती उषा रूपवान अनिरुद्धं स्वप्ने दृष्टवती | जैष्टमासस्य तृतीयदिवसस्य कृष्ण चतु्र्दशीतिथौ चित्रलेखा अग्निगडत: द्वारकापर्यन्तं वायुमार्गेण गच्छति स्म अनिरुद्धम् अपहृतुम् | अनन्तरं तयो: मेलनं विवाह: च अभवत् | अयमेव हरिहरयो: मिलनभूमि: अग्निगड: |