सदस्यः:RaviTeja DS/चन्देलमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                  चन्देलमण्डलम्

चन्देल-नगरं मणिपुर-राज्यस्य चन्देल-मण्डलस्य केन्द्रं विद्यते । इदं नगरं भारत-म्यानमार-देशयोः सीमायां स्थितम् अस्ति । नगरमिदम् म्यान्मार-देशाय प्रवेशद्वारम् अस्ति । ई. स. १९७४ तमे वर्षे चन्देल-मण्डलस्य निर्माणम् अभवत् । तदा अस्य नाम “तेङ्ग्नौपल” इति नाम आसीत् । किन्तु ई. स. १९८३ तमे वर्षे अस्य नाम “चन्देल” इति कृतम् । चन्देल-मण्डले मणिपुर-राज्यस्य न्यूनतमा जनसङ्ख्या अस्ति । अतः प्रतिवर्षं सर्वकारेण आर्थिकसाहाय्यं दीयते । केन्द्रियसर्वकारेण “ट्रान्स् एशियन् सुपर् हाईवे प्रोजेक्ट्” एका परियोजना आरब्धा । तया परियोजनया चन्देल-नगरं महत्त्वपूर्णं नगरं भवितुं शक्यते । अस्मिन् मण्डले नैकधा ओषधयः, वनस्पतयः च प्राप्यन्ते । मण्डलेऽस्मिन् विभिन्नाः पशवः अपि प्राप्यन्ते । तेषु “हुलोक् गिबन” इति नामकः वानरः प्राप्यते । अस्य मण्डलस्य जैववैविध्यं जनान् आकर्षति । भारतस्य विभिन्ननगरेभ्यः जनाः प्राकृतिकसौन्दर्यम् अनुभवितुं समागच्छन्ति । मोरेह-नगरं चन्देल-नगरस्य समीपस्थं पर्यटनस्थलं वर्तते । मोरेह-नगरं मणिपुर-राज्यस्य अन्ताराष्ट्रियव्यावसायिककेन्द्रं मन्यते । चन्देल-नगरात् मोरेह-नगरं ७० किलोमीटरमिते दूरे स्थितम् अस्ति ।

मेयोन, अनल, मारिङ्ग, कुकीस, पाईटे, चोथे, थडोउ च इत्यादयः जनजातयः अस्मिन् मण्डले निवसन्ति । “थडाउ” अस्य मण्डलस्य प्रमुखा भाषा अस्ति । ऐमोल-भाषायाम् अपि जनाः व्यवहरन्ति । अस्य नगरस्य सांस्कृतिकविभिन्नातायाः कारणेन इदं नगरं “बहुवर्णीयं नगरम्” इति कथ्यते । शीतर्तौ चन्देल-नगरस्य वातावरणं सुखदं, स्वास्थ्यकरं च भवति । अतः शीतर्तोः आरम्भे चन्देल-नगरं गन्तव्यम् ।