सामग्री पर जाएँ

सदस्यः:Rifan Bhai/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारते निर्मीयन्ताम्

[सम्पादयतु]
भारते निर्मीयन्ताम्

भारते निर्मीयन्ताम् उत मेक् इन् इण्डिया इति कश्चन प्रकल्पः वर्तते । भारतसर्वकारस्य सुतरां महत्त्वपूर्णस्य प्रकल्पस्यास्य आरम्भः २०१४ तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे दिनाङ्के अभवत् । समग्राभियानस्य मूलप्रेरणास्रोतः पण्डितः दीनदलायः उपाध्यायः अस्ति ।

२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के (स्वातन्त्र्योत्सवपर्वणि) स्वस्य भाषणे श्रीनरेन्द्रः अघोषयत्, शीघ्रं हि वयं मेक् इन् इण्डिया इत्याकारकस्य प्रकल्पस्य आरम्भं करिष्यामः इति । तस्याः घोषणायाः एकमासानन्तरमेव २०१४ तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे दिनाङ्के देहली-महानगरस्थिते विज्ञानभवने श्रीनरेन्द्रेण प्रकल्पस्यास्य घोषणा कृता ।

उक्तेषु सर्वेषु क्षेत्रेषु भारते निर्मीयन्ताम् इति प्रकल्पेन क्रान्तिः भूयात् इति आशा अस्ति । २०१४ तमस्य वर्षस्य अगस्त-मासे भारतीयमन्त्रिपरिषदा प्रत्यक्षविदेशिनिवेशस्य नियमेषु अनेकानि परिवर्तनानि कृतानि । रक्षाक्षेत्रे ४९ प्रतिशतं, रेल-मार्गक्षेत्रे १०० प्रतिशतं च प्रत्यक्षविदेशिनिवेशाय अनुमतिः प्रदत्ता । अनेन भारतस्य आर्थिकवृद्धेः, करराजस्वस्य च स्थितिः सुदृढा भविष्यति इत्यपि मन्यते ।

सामान्यतः विकासस्य कालक्रमेण सह पर्यावरणस्य स्थितिः अति दयनीया, अवहेलिता च भवति । परन्तु प्रकल्पेऽस्मिन् पर्यावरणसंरक्षणस्यापि प्रावधानम् अन्तर्भवति । भारते निर्मीयन्ताम् इत्यस्मिन् प्रकल्पे सर्वे सुलभरीत्या निवेशं कर्तुं प्रभवेयुः इत्युद्देशेन भारतसर्वकारेण अनेके नवीननियमाः उद्घोषिताः । अधिकारपत्रस्य निर्माणम् अन्तर्जालमाध्येन आरब्धम् ।

1 http://www.makeinindia.com/about

2 http://www.pmindia.gov.in/en/major_initiatives/make-in-india/

RIFAN 1610481 PRAJWOL RAI 1610381