सदस्यः:Roopesh10/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                      लता मङ्गेशकर

लता दीनानाथ मङ्गेशकर (जन्मदिनम् - क्रि.श.१९२९तमवर्षस्य सप्टम्बरमासस्य २८ तमदिनाङ्कः) भारतस्य सुप्रसिद्धा गायिका । हिन्दीभाषायाः अनेकानि गीतानि गीतवती अपि च भारतीयासु अनेकासु भाषासु अगायत् । सा भारतीयानां गायकानां मध्ये श्रेष्ठतमा गायिका इति गण्यते। सा ३६ भारतीय-भाषासु अन्यासु पाश्चात्यासु भाषासु च २५,००० गीतानि अगायत्। अतः तस्याः नाम 'Guinness Book of World Records' इति पुस्तके अपि सङ्गृहीतम् अस्तिः। आशा भोसले, मीना मङ्गेशकरः, उषा मङ्गेशकरः च तस्याः भगिन्यः, हृदयनाथमङ्गेशकरः च भ्राता। सा 'भारत-रत्नम्' इति मानदोपाधिम् अलभत। => जन्म बाल्यं च शास्त्रीयसङ्गीतकारस्य नाटकरङ्गपण्डितस्यस् पण्डितदीननाथमङ्गेशकरस्य पुत्रीरूपेण लता मध्यप्रदेशराज्यस्य इन्दोरनगरे अजायत । मातुः मूलं नाम शेवन्ता इति किन्तु मायी इत्येव सम्बोधयन्ति स्म । दीननाथस्य द्वितीया पत्नी एषा । प्रथमायाः नाम नर्मदा इति । नर्मदायाः मरणान्तरं तस्याः अनुजां शेवन्ताम् ऊढवान् । अस्याः नाम शुद्धिमती इति परिवर्तितवान् । कालान्तरेण श्रीमती मायि इत्येव प्रथिता अभवत् । दीनानाथः बलवन्तसङ्गीतमण्डली इति संस्थां चालयति स्म । दीनानाथः उत्तमः अभिनेता गायकः कृतिशीलसमाजसेवकः । कालान्तरेण समस्याभिः अस्य सांस्था स्थगिता । लतायाः पूर्वतनं नाम हेमा इति । हेमायाः विविधप्रतिभां परिगणय्य पिता प्रोत्साहं दत्तवान् । भावबन्धन इति नाटके अभिनेतुम् अवसरं कल्पितवान् । तत्पश्चात् अस्याः नाम लता इति अभवत् । लतया औपचारिकी शिक्षा विशेषरूपेण न प्राप्ता । कदाचित् शालायाम् अध्यापकः उपक्षिप्तवान् । अतः भीता एषा पुनः कदापि पाठशालां न गतवती । नाटकमञ्चः एव अस्याः पाठशाला अभवत् । => स्थानान्तरणम् लता सकुटुम्बं इन्दोरतः पुणेनगरम् आगता । कोल्हापुरे कञ्चित्कालम् अवसत् । क्रि.श. १९४७तमे वर्षे मुम्बयीनगरस्य नानाचौकप्रदेशे न्यवसत् । आनन्दधन इति नाम्ना मराठीभाषायाः चलच्चित्राणां निदेशनं करोति स्म । २२भाषाणां प्रायः १०,०००गीतानि लता गीतवती । अमेरिका-युरोपखण्डयोः अनेकस्थानेषु सङ्गीतगोष्ठीः सञ्चालितवती । शात्रीयसङ्गीतेन निबद्धः स्वरबद्धसंस्कारः, स्पष्टशब्दो;-च्चारणम्, अभिनेत्र्याः कण्ठानुगुणं गानं च अस्याः गानस्य विशेषता । फुले वेचिता इति ग्रन्थः अस्या आत्मकथनग्रन्थः ।

References: 1) https://en.wikipedia.org/wiki/Lata_Mangeshkar

                  2) https://en.wikipedia.org/wiki/Kolhapur

Done By:- S Roopesh 1640896 BSc EMS 3rd-Sem

         Rounak Agarwal 1631379  BA  JPENG  3rd-Sem