सदस्यः:S.ashwini97/संस्कृतिः संस्कृताश्रिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

[१] संस्कृतिः संस्कृतमाश्रित्यास्तीति अस्य वाक्यस्यार्थः| संस्कृतिः कथं संस्कृतमाश्रियते | आश्रयस्तु आधेयमाधारं चापेक्षते | आधेयं किम्| आधारः कः | आधेयं संस्कृतिः| आधारश्च संस्कृतम् | तयोः आधाराधेयभावः सम्बन्धः | एवं य सम्बन्धनियामकः कः| सम् उपसर्गपूर्वककृञ् धातुना क्तिन् प्रत्यययोगेन संस्कृतिशब्दः क्तप्रत्यययोगेन संस्कृतशब्दश्च निष्पन्नः | एवं अनयोः शब्दयोः धातुः समान एव | कृतिश्च क्रिया च कश्चरणादिस्पन्दादिना जन्या 'शब्दं करोति' गच्छतीतयादिरूपा | एतादृश क्रियानिवर्तकः क इति प्रश्नः सहजः | यद्यपि क्रिया इच्छामूलिका | इच्छाव च ज्ञानमूलिका | एवं च ज्ञानेच्छाक्रिया इत्यस्याः परम्परा | संस्कृतिस्तु एका क्रियात्मि का चेत् तस्या अपि मूलं ज्ञानमेव हि स्यात्| सत्यम् |

 सत्यं ज्ञानमनन्तं ब्रह्म.....| सोs कामयत| बहुस्यां प्रजायेयेति | स तपो तप्यत| स तपस्तप्त्वा | इदॉं सर्वमसृजत | इति उपनिषत् अस्मान् प्रेरयति | अस्य जगतः सृष्टिः ज्ञानरूपपरमात्मनः कामनया प्रवृत्ता | अतः समस्तजगत् तस्यैव संस्कृतिः इति समंकृतिशब्दं प्रथमतो निरूपयामः | परन्तु अद्यतनकाले 'संस्कृतिः' इति शब्देन यो व्यपदिश्यते तं प्रति किञ्चिन्निरूपयामः | अतः संस्कृतिशब्देन अध्य या दृष्टिः प्रसृता पूर्वं निरूपित संस्कृतिशब्दस्य च मध्ये कः सम्बन्ध इति तयोः सम्बन्धः ज्ञातव्यः | तदा संस्कृतेः पूर्ण परिचयो भवितुमर्हति | अपि चैतादृशसंस्कृतेः आश्रयः संस्कृतं कथं वा भवतीति ज्ञातुं शक्नुमः |

पदपदार्थयोः सम्बन्धः अविनाभूतः यतो हि अर्थं बुदृवा शब्दरचना | शब्दश्च अर्थद्योतकः | अत एव वक्ति कविः कालिदासः |

              वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये |
              जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ||

( रघुवंशः मड्वलम् ) शब्दार्थयोः सम्बन्धोsत्र पार्वतीपरमेश्वरौ इवास्ति | परमेश्वरः पार्वतीं विना कदापि न तिष्ठति | अर्धनारीश्वरः अमुमेवार्थं प्रकाशयति | तथैव अर्थः शब्दं विना न पृथक् भवति | यदि पृथक् भवति तर्हि तयोः संबन्धः नास्तीत्येवार्थः | अस्मात् पदात् अयमर्थो बोद्धव्यः अथवा इदं पदं अमुमर्थं बोधयतु इत्याकार कव्यवहारः तयोः अपृथक् सम्बन्धं बोधयति | एवं यात्र संस्कृतिं संस्कृतं वक्ति | अतः संस्कृतिः अर्थरूपा संस्कृतं च वाग्रूपम् | पुरुषः संस्कृतिःरूपमर्थं संस्कृतभाषाद्धरेण अभिव्यन क्ति | एतादृशः सम्बन्धः संस्कृतिसंस्कृतयोः वर्तत इति नात्युक्तिः |

  संस्कृतिभाषा कथं संस्कृतिं बोधयती ति ज्ञातुं एकमुदाहरणं आहरामः | 'आहारः' इति किञ्चिनपदं आहाररूपपदार्थं बोधयितुं प्रयुज्यते | आहारशब्दार्थः कः | आ-समन्तात् हरति प्रापयति वा इति अस्यार्थः | अन्तपर्यन्त अस्मान् यो हरति स आहारः | तर्हि अस्माकमन्तः कः | आदिः कः | यः आदिः स एवान्तः | अस्माकं आदिः परंज्योतिः | तस्मात् ज्योतिषः एतादृशजगतां सकलचरा चरवस्तूनां सृष्टिः समभवत् | एतेषां लयोsपि तस्मिन्नेवेति आदिरन्त्यश्च एकमेव | अस्माकं मानवजीवने परमात्मप्रकाशः यदा भवति तदैव जीवनस्य अन्त्यः | जननमरणराहित्यं च अन्त्यम् | एवं च य आहारः अस्मान् जननमरण चक्रादपाकृत्य आन्तं गमयति स आहारशब्द प्रयोगार्हः | अन्यः अनाहारो वा अपहारो वा भवति | एतादृशाहार विषयं बोधयितुं आहारः इति श्ब्दः प्रयुक्तः | अतः आहारोति संस्कृतभाषा आहाररूपमर्थं बोधयितुं समर्धो भवति | एतादृशपदमाश्रित्य पदार्थः स्वस्यास्तिस्वं प्रदर्शयति | अत एवोक्ता 'संस्कृतिः संस्कृताश्रिता' इति |
 
 अन्यदेकमुदाहरणं अनयोः सम्बन्धं निरूपयितुं दद्मः | 'सत्यं वद | धर्मं चर' इत्यादि श्रुतिवाक्यं संस्कृतिं बोधयति | सत्यवचनं धर्माचरणं च अस्माकं संस्कृतिः | एतादृश संस्कृतिं संस्कृतभाषा श्रुतिरूपेण बोधयति | वसुधैव कुटुम्बकम् इत्यपि अस्माकं संस्कृतिः | समस्त जगत् अस्माकं कुटुम्बमिति एषा भषा वदति | एवं च इदमेव परमं प्रमाणं भवति यत् संस्कृतिः संस्कृताश्रिता इत्यस्य द्येतनाय | संस्कृति प्रबोधकाः संस्कृतभाषायां एव नान्यत्रा यत्र कुत्रापि अस्ति चेत् सा भाषा संस्कृतात् अभिप्रवृत्ता | अर्थं हित्वा शब्दरचना संस्कृतभाषायां नैव दृश्यते | संस्कृतशब्देनैव वयं जानीमो यत् सम्यक् कृतं संस्कृत्तामिति | यच्च सम्यगर्थं बोधयति तदेव संस्कृतम् | अन्यच्चासंस्कृतम् |
 भाषा च भाववाहिका | इयं च भाषा यथावत् भावं वाहयति | भावनाविशेषेणैव वेदाः,स्मृतयः,इतिहासपुराणादयश्च प्रसृताः | काव्यशास्त्रादीनि च अस्यां भाषायामेव | न केवलमं मानवानां भाषां किन्तु देवानां प्रिया च | अत एव देववाणी | मृतविधूतभाव बोधनात् अमृतवाणी इत्यादि नाना शब्देन व्यपदिश्यते इयं भाषा | संस्कृतभाषा न केवलं लोकभाषा अपि तु लोकोत्तरभाषा | अन्यासां भाषाणां नाम तत्तद्रेशोपजीव्यम् | यथा कन्नडभाषा कर्णाटकस्य,मराठी महाराष्ट्र्स्य,हिन्दी हिन्दुस्तानस्य एवमेव इङ्ग्लिष् इङ्ग्लिण्sदेशस्य, फ्रेञ्च् फ्रान्सदेशस्य | अपि तु संस्कृतभाषा न कस्यैक देशस्य भाषा,विश्वस्य चतुर्दशलोकानाम् अस्याः व्यवहारः न केवलं भूमौ स्वर्गे पाताले च पश्यामः इति अस्याः वैशिष्ट्यम् |
        यच्छब्दशास्त्रं भुवनेsद्वितीयं
        साहित्यशास्त्रं नितरां समृद्धम् |
        लिपिश्च वैज्ञानिकीतिपूर्णा
        सा देववाणी खलु सेवनीया |(काव्योन्मेषः)

अस्माकं संस्कृतिः सनातनी, भाषा च सनातनी | सनातन संस्कृतिं वक्तुं सनातन भाषा संस्कृतभाषा एव शक्ता | अतः संस्कृतिः संस्कृताश्रिता इत्युक्तिः अस्माकं संस्कृतिं वक्ति |

  1. विश्वज्योतिः - २०११