सामग्री पर जाएँ

सदस्यः:SUBHAJIT PANDA 2024

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शुभजित् पण्डा

भारतदेशे विद्यमानेषु नैकेषु राज्येषु पश्चिमबङ्गराज्यस्थ पूर्वमेदिनीपुरजिल्लायाः खेजुरीमण्डले अवस्थिते लाक्षी-ग्रामे अयं शुभजित् इत्याख्यः कश्चन प्राणिविशेषः निवसति । संस्कृतभाषायां विद्यमानेषु नैकेषु शास्त्रेषु विशिष्य व्याकरणशास्त्रे अस्य रुचिरस्ति । कैशोरे सप्तमी-अष्टमी-कक्षायां पठनकाले सामान्यतया संस्कृतम् अधीतवान् पुनश्च यौवने एकादशी-द्वादशी-कक्षायां पठनकाले किञ्चित्-विशिष्टतया संस्कृताध्ययनमकरोत्, किन्तु संस्कृतमाध्यमेन संस्कृतस्याध्ययनं कुत्रापि न जातमासीत् । 2020 तमे वर्षे केन्द्रीयसंस्कृतविश्वविद्यालयस्य नैकेषु आदर्शमहाविद्यालयेषु अन्यतमः पश्चिमवङ्गस्थ कालियाचकविक्रमकिशोरआदर्शसंस्कृतमहाविद्यालये अयं शास्त्रिप्रतिष्ठास्तरे संस्कृतव्यकरणशास्त्रम् पठितुं प्रविष्टवान् , तत्र मध्ये मध्ये सामान्यतया संस्कृतमाध्यमेन संस्कृतस्याध्ययनं , किञ्चित् शास्त्रावगाहनं, संस्कृतस्पर्धाषु भागग्रहणं प्रचलन्ति स्म। दुःखस्य विषयः अयं यत् - करोनाकाले  महाविद्यालयेऽस्मिन् शास्त्रिप्रतिष्ठास्तरे प्रथमवर्षे प्रविष्टवान् इत्यतः सम्यकतया शास्त्राध्ययने असमर्थः अभवत्। 2024 तमे वर्षे व्याकरणशास्त्रे शास्त्रिप्रतिष्ठां समाप्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य श्रीराजीवगान्धीपरिसरे शिक्षाशास्त्रम् अध्येतुमागतवान् ।

20.12.2024

सामान्यतया यत्र यत्र रुचिरस्ति --

.. संस्कृतव्यकरणशास्त्राध्ययनम्

.. संस्कृत-सुभाषितश्लोकानां पठनम्

बाबेल्-सदस्य-सूचना
bn-5 এ ব্যবহারকারীর বাংলা ভাষার উপরে প্রায় মাতৃভাষার কাছাকাছি ধারণা রয়েছে।
sa-5 एषः सदस्यः उत्कृष्टरीत्या-संस्कृतेन लेखितुं शक्नोति ।
hi-4 इस सदस्य को हिन्दी का लगभग मातृभाषा स्तर का ज्ञान है।
en-3 This user has advanced knowledge of English.
भाषाऽनुसारेण प्रयोक्तारः
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:SUBHAJIT_PANDA_2024&oldid=490792" इत्यस्माद् प्रतिप्राप्तम्