सामग्री पर जाएँ

सदस्यः:S ABHISHEK 2010668

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

डॉ एपीजे अब्दुल कलाम

अब्दुल कलाम जन्म ख्रीष्टीये १५ अक्टूबर, १९३१ मिते दिवसे अभवत्। तस्य पिता जइनुलावद्दीनः विवेकवान् उदारः अथितिपरायणः, माता आशिअम्मा सुगृहिणी स्नेहमयी च। तस्य त्रयी भ्रातरः एकैव भगिनी। विज्ञानविषयं प्रति प्रगाढ़ानुरागः यंत्रविद्यापठनाय तम् प्रेरयत्। मद्रास-वैषयिकप्रतिष्ठाने अध्येतुं स योग्यः विवेचितः अभवत्। कलामः एकः प्रसिद्धः वैज्ञानिकः आसीत्। तस्य नेतृत्वेन निर्मितानि पृथिवी, त्रिशूलम्, आकाशः, नागश्चेति क्षेपणास्त्राणि भारतस्य सुरक्षाव्यवस्थां दृढयन्ति। 2002 तमे उ वर्षस्य जुलाई मासस्य तमे दिने डॉ कलामः 90% बहुमतेन भारतस्य राष्ट्रपति अभवत्।डा. अब्दुल कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः) प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाष जे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव ! सः भारतस्य एकादशः राष्ट्रपतिः आसीत्। कलामे बहुसुगुणाः सन्ति, न लेशोअपी दुर्गुणस्य दुरभ्यासस्य च। विज्ञानस्य ईश्वरविश्वासस्य च समन्वयः तस्मिन् दृश्यते। आजीवानं ब्रह्मचारी शाकाहारी कलामः राष्ट्रसेवानिमित्तं स्वजीवनं समर्पयन् अस्माकं आदर्शमहापुरुषः भवति। 27 जुलाई 2015 तमे वर्षे अयं दिव्यपुरुषः पंचतत्वं गतः।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:S_ABHISHEK_2010668&oldid=463138" इत्यस्माद् प्रतिप्राप्तम्