सदस्यः:Saikumarcricket/प्रयोगपृष्ठम्6
राणाप्रतापसिंहः |
---|
पीठिका
[सम्पादयतु]अस्माकं पूर्वजानां स्मरणम् अस्मभ्यम् अद्भुतकार्यकरणे प्रेरणां ददाति । ये पुरुषाः स्वजीवने विशिष्टं महत्कार्यं चक्रुः ते एव भविष्यति काले जनैः संस्मर्यन्ते । तेषां जीवनघटनाः अन्येभ्यः शिक्षाप्रदाः दिक्प्रदर्शकाश्च भवन्ति । भारतभूमिः कर्मभूमिः त्यागभूमिः इति च स्वदेशीयैः विदेशीयैश्च ग्रन्थेषु बहुधा वर्ण्यते । इयं सनातनभूमिः धन्या यस्याः प्रतिपदं श्रेष्ठनरनारीणां जीवनगाथाभिः प्रतिध्वन्यते । भारतीयेतिहासे केचन तपसा ज्ञानेन ग्रन्थग्रथनेन प्रसिद्धिमापन्नाः । एते ऋषयः, मुनयः, दार्शनिकाः कवयः इत्यादिनामभिः आख्यायन्ते । अन्ये केचन शौर्येण त्यागेन देशप्रेम्णा वा आचन्द्रार्कं कीर्तिम् आर्जयन् । ब्रह्मेण तेजसा केचन भूमिम् इमां भूषयामासुः । अपरे वीराः क्षात्रेण ओजसा भारतभूमेः धर्मं संस्कृतिं जनताञ्च संररक्षुः । तादृशेषु अन्यतमः राणाप्रतापसिंहः । भारतस्य पश्चिमस्यां दिशि सहस्त्राधिकवर्षेभ्यः आक्रमणं भवति स्म । इमं देशं बहुसम्पदा भरितमिति मन्वानाः वैदेशिकाः तां सम्पदम् आत्मसात् कर्तुम् आगच्छन्ति स्म । तथैव वाणिज्यार्थमपि आगच्छन्ति स्म । तद्विंरुद्धं राजसंथानप्रदेशे राजपुत्राः आक्रमकानां प्रतिरोधाय महान्तं प्रयत्नं चक्रुः । एतेषां राजपुत्राणां शौर्यगाथाः महिलानां त्यागनिष्ठाः च अद्यापि यूनः स्वदेशकार्ये प्रेरयन्ति ।
जन्म, साधनञ्च
[सम्पादयतु]‘मेवाड’ इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे (१५४०) वर्षे जातः । तस्मिन् समये बहवो राजानः मोघलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरमहाशयः देहल्यां शासनं करोति स्म । स अन्यराजेषु विद्यमानं परस्परकलहम् एव उपयुज्य आत्मनः शक्तिम् अवर्धयत । तेन वशीकृताः केचन राजानः तस्य सेवायां रताः आसन् । देशरक्षणार्थं सर्वदा बद्धपरिकरेषु राजपुत्रेष्वेव स्वकर्तव्यविरतेषु का कथा अन्येषां राज्ञाम् ? सर्वथा भरतभूमिः वैदेशिकपदाक्रान्ता दास्यदूषिता च आसीत् । इत्थम् अन्धतमसे सर्वत्र व्याप्ते राणाप्रतापः दीपशिखेव आत्मगौरवस्य मूर्तिरिव तस्मिन् कालखण्डे भ्राजते स्म । यद्यपि प्रतापस्य पिता उदयसिंहः प्रतापी राजा आसीत्, किन्तु तस्य दुर्बलतायाः कारणेनैव चित्तौड- मेवाडादिस्थानानि अन्यवशानि अभूवन् । पितुरनन्तरं सिंहासनम् अधिरुढः राणाप्रतापः हस्तच्युतानां प्रमुखानाम् एतेषां स्थानानां विषये पुनः प्राप्तिमार्गविषये च चिन्तयितुम् आरेभे । प्रथमं सः गण्यानां सभाम् आकारितवान् । तत्र तेषां पुरतः यावत्पर्यन्तं चित्तौडस्थानं पुनः न प्राप्स्यामि तावत्पर्यन्तं स्वर्णरजतादिपात्रेषु भोजनं न करिष्यामि, मृदुशयने न शयिष्ये, राजप्रासादे न वत्स्यामि इति प्रतिज्ञां स्वीकृतवान् । तदानीं हल्दीघाटप्रदेशे वैरिभिः सह घोरं युद्धं सम्बभूव । वैरिणां सैन्यं समुद्रोपमम् आसीत् । प्रतापः रणरङ्गे घोरम् अयुध्यत । किन्तु पूर्णजयं प्राप्तुं नाशक्तम् । स्वस्य आप्तस्य अश्चस्य चैतकाख्यस्य साहाय्यं सः सर्वदा पाप्तवान् । तेन सः आपदः आत्मानं रक्षितुं शक्तः आसीत् । अरण्यगुहाप्रदेशेषु उषित्वा स्वसङ्कल्पसिद्धये सैन्यसङ्ग्रहणम् उपाक्रमत् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Biography of Rana Pratap Singh in Hindi, English & Sanskrit - PDF
- Official Website for the Royal Family of Udaipur
- Maharana Pratap : The light and life of Hindu Community
- Rajput India
can't use in sandbox१५४० जननम्]] can't use in sandbox१५९७ मरणम्]] can't use in sandboxरजपूतजनाः]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxभारतीयराजाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxभाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया]]