सदस्यः:Sandhyarani Sahoo 123/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विश्वनाथानुसारं ध्वनिकाव्यस्य स्वरूपं मुख्यभेदं च

                                 

विश्वनाथानुसारं काव्यस्य मुख्यतः भेददूयं भवति । यथा ध्वनिकाव्यम् गुणिभूतव्यङ्गकाव्यञ्च।

ध्वनिकाव्यम् –

ध्वनितत्वस्य लक्षणं व्याख्याच आनन्दवर्धनाचार्येण सम्यक् तया कृतम् ।ध्वनिकाव्यमेव उत्तमकाव्यं भवति।मम्मटेनाप्युक्तम् इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिबुधैः कथितः। विश्वनाथानुसारं तु- वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत् काव्यमुत्तचमम् अर्थात् तस्मिन् काव्ये व्यङ्ग्यार्थः वाच्यार्थात् अधिकचमत्कारिको भवति, तदेव उत्तमं व्यङ्ग्यं भवति। ध्वनिकाव्यस्य भेददूयम्,यथा- अविवक्षितवाच्यध्वनिः, विवक्षितान्यपरवाच्यध्वनिश्च।

अविवक्षितवाच्यध्वनिः(लक्षणामूला)-

                                        एतदपि द्विविधम्। यथा- अर्थान्तरसंक्रमितवाच्यध्वनिःकाव्यम् अत्यन्ततिरष्कृतवाच्यध्वनिकाव्यं च। तदुक्तम्-अर्थान्तरसंक्रमिते वाच्योऽत्यन्तं तिरष्कृते

   अविवक्षितवाच्योऽपि ध्वनिदैविध्यमृच्छन्ति।।

अर्थान्तरसंक्रमितवाच्यध्वनिः-

     यत्र वाच्यार्थः स्वयं अनुपयुक्तः सन् अपरेऽस्मिन्व्यङ्ग्यार्थे संक्रमितो भवति, तत्र अर्थान्तरसंक्रमितवाच्यध्वनिर्भवति।

उदाहरणं यथा- कदली कदलो करभः करभः .....इत्यादौ ‘कदली’ प्रभृतयः शब्दाः यदि स्वमुखार्थस्य  बोधनं करिष्यन्ति तर्हि पुनरुक्तिदोषः भविष्यति।अतः मुख्यार्थस्य बोध भवति। ततःजाड्यादिगुणविशिष्टकदल्यादिकं बोधयति। अत एव अत्र अर्थान्तरसंक्रमितो भवति तथा जाड्यादिनामातिशयता एव व्यङ्ग्यो भवति।

अत्यन्ततिरस्कृतवाच्यध्वनिः- ध्वनिकाव्येऽस्मिन् वाच्यार्थः सार्थकता प्रतीयते।परं मूलतः तत्स्वयम् असङ्गतः सन् सर्वथा तिरस्कृतो भवति तथा व्यङ्ग्यार्थस्य कारणं भवति। उदाहरणम् –

                                            निःश्वासानन्ध इवादर्शश्चन्द्रमा न प्रकाशते।

  अत्र अन्धः शब्दः स्वमुखार्थे (दृष्टिहीनताररूपः)सर्वथा अनुपपन्नो भवति तथा एकमात्रस्य प्रकाशरहितार्थस्य भोधको भवति। अत्र व्यङ्ग्यार्थो भवति- मलिनतायाः(अप्रकाशतायाः) आधिक्यम् इत्थमत्र अत्यन्ततिरस्कृतवाच्यध्वनिर्भवति।


विवक्षितान्यपरवाच्यध्वनिः-(अभिधामूला)

  काव्येऽस्मिन् वाच्यार्थः स्वयं विवक्षितो भवति। परं व्यङ्ग्यार्थरुपेण परिणमति।अस्य अपरं नामं तु अविधामूलकध्वनिकाव्यम्। एतदपि द्विविधम् ,यथा असंलक्ष्यक्रम-ध्वनिकाव्यं संलक्ष्यक्रमध्वनिकाव्यम्।

असंलक्ष्यक्रमव्यङ्ग्यध्वनिकाव्यम्-

  यत्र वाच्यार्थव्यङ्ग्यार्थयोः बोधने क्रमो न संलक्षते तत्र असंलक्ष्यक्रमव्यङ्ग्यध्वनिकाव्यं भवति। अस्य काव्यस्य उदाहरणस्वरूपेण  रसभावादिनां ग्रहणं भवति। अनन्तत्वादयं गणनायोग्यो न भवति।

संलक्षक्रमध्वनिकाव्यम्- यत्र वाच्यार्थव्याङ्ग्यार्थयोः क्रमो लक्षते तत्र संलक्ष्यक्रमव्यङ्ग्यध्वनिर्भवति। अत्र वाच्यार्थस्य प्रतीत्यानन्तरं व्यङ्ग्यार्थस्य प्रतीतिर्भवति। एतदपि त्रिविधम् -1.शब्दशक्त्युद्भवः,2.अर्थशक्त्युद्भवः,3. शब्दार्थशक्त्युद्भवश्च।

( 1)शब्दशक्त्युद्भवः-

      अयमपि द्विविधा ,यथा – वस्तुरुप अलङ्काररुपश्च । अत्र शब्दशक्त्या ध्वनिः उत्पद्यते। वस्तुरूप उदाहरणम् –पथिक ! नात्र स्त्रस्तरमस्ति.... इत्यादौ दूति पथिकं  वदति यत् प्रथमतः ग्रामेऽस्मिन् शय्या नास्ति,पयोधारं(मेघं)दृष्ट्वा । यद्यत्र स्थास्यसि तर्हि तिष्ठ।परं पश्चात् पयोधरं अर्थात् उन्नतस्तनं दृष्ट्वा स्थास्यसि तर्हि तिष्ठ इत्यर्थौ ध्वन्यते। अलङ्काररूपस्य  उदाहरणम्-‘दुर्गालङ्घितविग्रह....’’इत्यादौ     भानुदेवराज्ञः वर्णनम् प्राकरणिकः शिवस्य वर्णनम् अप्राकरणिको वर्तते। एतत् वर्णनं ’उमावल्लभ ’इत्यस्माज्ज्ञायते। परं प्राकरणिके अप्राकरणिकस्य वर्णनं सर्वथा असङ्गतो भवति। अत एव अत् शंकर भानुदेवयोः उपमान- उपमेयभावस्य कल्पनं स्वाभाविकं भवति। इत्थमत्र उपमालङ्रकारो व्यङ्ग्यरूपेण तिष्ठति। अत्र शब्दशक्त्युद्भव अलङ्काररूपोव्यङ्ग्यो भवति।

( 2). अर्थशक्त्युद्भवध्वनिः-

                                  -अस्य द्वादशभेदाः भवन्ति, यथा-1.स्वतःसम्भविना वस्तुना वस्तुध्वनिः2. स्वतः सम्भविना वस्तुना अलङ्कारध्वनिः 3. स्वतःसम्भविना अलङ्कारेण वस्तुध्वनिः 4.स्वतः सम्भविना अलङ्कारेण अलङ्कारध्वनिः 5.कविप्रौढोक्तिसिद्धेन वस्तुना वस्तुध्वनिः 6. कविप्रौढोक्तिसिद्धेन वस्तुना अलङ्कारध्वनिः7. कविप्रौढोक्तिसिद्धेन वस्तुना अलङ्कारेण वस्तुध्वनिः 8. कविप्रौढोक्तिसिद्धेन वस्तुना अलङ्कारेण अलङ्कारध्वनिः 9.कविनिबन्धवक्तृप्रौढोक्ति-सिद्घया वस्तुना वस्तुध्वनिः 10.कविनिबन्धवक्तृप्रौढोक्ति-सिद्घया अलङ्कारध्वनिः,11.कविनिबन्धवक्तृप्रौढोक्तिसिद्घयाअलङ्कारेण अलङ्कारध्वनिः।

(3). शब्दार्थशक्त्युद्भवध्वनिः-

       यत्र शब्दार्थयोः व्यञ्जकता शक्त्या व्यङ्ग्यार्थस्य प्रतीतिर्भवति तत्र शब्दार्थशक्त्युद्भवध्वनिर्भवति ।एतस्य भेदप्रभोदो नास्ति।

      एवंप्रकारेण ध्वनिःअष्टादशप्रकारका भवति। एते एते पदगतत्वेन वाक्यगदतत्वेन च द्विविधा भवति।  इत्थं ध्वनेः संख्या 5355 भवतीति विश्वनाथकविराजस्य अभिप्रायः।