सदस्यः:Shanthala kiran/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शङ्करभगवत्पाकृतम् उपदेशसाहस्त्रीप्रकरणम् इदं खलु सर्व एव जनाः बाह्यव्यवहार विषयतत्परा भवन्ति निसर्गतः। ते विषयचिन्तनकथनादिना कालं नयन्तः परमपुरुषर्थं स्वात्मतत्वम् अपरिचिताःभूयोभुयः सुखदुःखजननमरणप्रबन्ध लक्षणे संसारेपरिभ्रमन्ति।एतेषु आर्दहुदयः शङ्कराचार्यः तेषमनुग्रहार्थं कानिचन प्रकरणानि व्यरचयन्। तेषु उपदेसश्साहस्त्री एका वर्तते। अस्य ग्रन्थशरीरं गध्यपध्यात्मकं भगदुययुक्तम् ।गध्यभगे त्रयःअध्यायाः पध्यभगे तु एकोनविंशति विभागाःवर्तन्ते। अस्मिन् लेखे गध्यभगस्य परिचयः एव कारितः विस्तारभगस्यात् प्रकरणेअस्मिन् आत्मैकत्व प्रतिपादनं गुरुशिष्य सम्भाषण रुपेण प्रस्तुतम्। शमदमादि साधनयुक्तः एषणत्रयरहितः शिष्यः दृष्टादृष्टभोगेषु अनासक्तं लब्धागमं परानुग्रहप्रयोजनने अभिनिविष्टम् ब्रह्मविदमाचर्यं विधिवत् अभिगच्छति। एतद्रूपाय शिष्याय गुरुः आत्मज्ञान प्राप्तिपर्यन्तं सहस्त्ररीत्या उपदिशाति। अतः ग्रन्थमधिकृत्य 'उपदेससाहस्त्री' ति संज्ञा अन्वर्था भवति। ब्रम्हविध्या बहुप्रयत्नेनधिगन्तव्या। नित्यशुध्दमुक्तं ब्रम्ह सर्वेषामात्मा यस्य लक्षणम् वेदान्तवाक्येषु कुर्वन्ति। विनाशलक्षणं शरीरमात्मा न भवितुमर्हति; एवं प्राणेन्दियादयः।ते सर्वं नामरुपत्मकाः सन्ति । भेदज्ञानं जन्ममरणादीनां कारणं भवति; अभेदप्रतिपत्तिध्दार पुरुषः स्वराड् भवति। प्रत्यक्ष प्रमाणादिगोचरः द्वैतधर्मःअविद्या कल्पितः।श्रुतीषु 'द्वितियाद्वै भयं भवति' एति उक्तं खलु! अतह् मुमुक्षः सुखदुःखातितमात्मज्ञानं प्राप्नुयात्। एषः विषयः प्रथमे अध्याये सम्यक् स्थापितः अस्य अध्यायस्य, शिष्य प्रतिबोधन्विधिः एति सार्थकं नाम विराजते। वेदान्तविषयाणामधिगमार्थं श्रवणमनननिदिध्यासनानि प्रमुखाणि साधनानीति सर्वेरङ्कृतम्। उपदेशसाहस्त्री गद्यबन्धस्य प्रतमः अध्यायः साधनं श्रवणं प्रतिनिधियते। तत्र प्रसिध्दाभिः उपनिषद्भिः वाक्यानि स्वीकृत्य, तानि सर्वाणि अद्वैतं बोधयन्ति एति स्पष्टी कृतम् समग्रतया अत्र त्रिंशदुत्तरशतानि उपनिषद्वाक्यानि संयोजितानि। तेषां समन्वयः सम्यक् साधितः। उदाहरणार्थमेकं विषयं द्रक्ष्याम;-बृहदारण्यकात्, तदात्मानवावेदहं ब्रम्हास्मि' (१.४.१०) इत्यादीनि, छान्दोग्यात्, अहमेवाधस्तात् ......(.७.२६.१ )इत्यादीनि त्रीणि, प्रश्नोपनिषदः स एषोअकलः इति वाक्य, मुण्डकात्, 'स बाह्योसयान्तो हयजःइति, ऐतरेयात् प्रज्ञानस्य नामधेया इति मंत्रः, तैत्तिरीयस्य पञ्चवाक्यानी, श्र्वेताश्र्वतरस्य एको द्र्वः सर्वभूतेषु गूढा, कठोपनिषदः स्वप्नान्तं जाग्स्रितान्तं इति कौषीतक्या, स मम आत्मेति विध्यात् इत्यादीनि अष्टाविंशाति स्रुतिवाक्यानि पिण्ङीकुत्य तेषां समानार्थता अत्र प्रकाशिता ।तदुबोद्बालकार्यं पुनः समृतिवाक्यानि च योजितानि एवमागमवाक्यानां श्रवणं प्रथमोध्यायस्य प्रमुखः उध्देशः इति स्पष्टो भवति श्रध्दा च जायते। ध्दितियाध्यायस्य विषयपरिचयध्दारस्य तस्योध्देशं पश्यामः। वयं सर्वे परात्मा एव स्मः न्। तथापि ' संसार्यहमस्मि,' इति विपरीतग्रहणं प्रतिपद्यामहे यदविद्या नान्मा व्यवह्रियते यथ शुक्तिकायं रजतं, रज्जो सर्पम् आकाशे तलमलिनदिकं जनाः अज्ञानेन अध्यासस्य व्यवहरन्ति, तथैवात्मनि आत्माध्यासः। स्वतः सिध्दऽपि आत्मा प्रत्यक्षादैना न ग्राह्यः यतः सः न प्रमाणसिध्दः किन्तु अनुभवैकगोचरः। अग्नेरूष्णात्वं इव आत्मनिचेतनत्वं कूटस्थत्वं नित्यत्वं सक्षित्वं च स्वभावतः वर्तन्ते। एते गुण्यःअपि औपचारिकाः यतः आत्मभिन्नाः पदार्थाः न सन्त्येव। आत्मज्ञानमेव विध्याशब्दभाग्भवति। एषः विचारः ध्दितीयाध्याये दुष्टान्तबलेन युक्तियुक्या च् साधितः। अतः कुटस्थाध्दयात्मबोध' इति अस्त सार्थकम् नाम। प्राथमाध्याये श्रवणेन जनितं ज्ञानं अत्र द्वितिये न्यायसम्मतैह् युक्तिभिः स्थपितम् यथा, आत्मानात्मनोः इतरेतराध्यासः बन्धकारनं भवतीति विषयमधिकुत्या, सुखदुःखात्मकं द्वैतं किमात्मनः? अथवा केवलं नैमित्तिकमिति प्रश्नद्वयमुत्यापितम्। यः स्वभावसिध्दः तत्र्ः निवर्तयति, यथा जलस्य शैत्यमग्नेष्णत्वम् इत्यादयः। तदा जीविनः मोक्षेच्छा एव न विध्यते यत् कस्यापि नाभिप्रैतम्। यदि द्वैतं केवलं नैमित्तिकं तदा तत्रिवर्तितं भवति। यथा रोगनिवृत्यनन्तरं पुरूष्ः स्वस्थो भवति । एवं द्वैतं नैमित्तिकं सिध्दं भवति। यदि द्वैतं नैमित्तिकं तदा तस्य निमित्तं किमिति प्रश्नः पुनरूद्भवति यस्योत्तररूपेणाविध्या प्रतिपादिता वर्तते। पुनः का सा अविध्या ? कथं सा द्वैतस्य निमित्तं भवति? कथं सा निवत्र्यते ? इति पश्नावलिरूद्भवति। इत्थं क्र्मेण द्वितीयेऽध्याये मननद्वारा अद्वैतसिध्दान्तः स्थिरतां नीतः । अस्मिन्नध्याये नैकमपि श्रुतिवाक्यमुध्दुतं दुश्यते। केवलयुक्तिपूर्णाऽयध्यायः। तृतीयोऽध्यायः परिसङ्ख्यावनाम्ना विश्रुतः। परिसङ्ख्यानं तु शास्त्रश्रवणेन श्रुतिपथं गतमात्मतत्वं युक्त्या दृढीकरणं नीत्वा अनुभवरूपेण धारणम्। प्रथमद्वितीयाध्यायोस्तुलनया एषः तृतीयह् ह्रस्वतमः ।गुरूमुखादधितमात्मावीचारं वारं वारं समालोच्य परिशोध्य च् दृढनिश्चयं प्राप्तव्यम् । तदर्थमुपनिद्षत् वाक्यानि समीक्षितव्यानि। अनेन पुरूषः ज्ञानी भवति यस्य शत्रुमित्रादिभावः मानापमानादयः न भवन्तीत्यत्र् प्र्मुखतया प्रातिपादितमस्ति। उपात्तपुण्यपराणां मुमुक्षूणामेव परिसख्यानमुक्तम्। वाङ्मनःकाय प्रवृत्तिहेतूनाम् इष्टानिष्टमिश्रफलयुक्तानां कर्मणां त्याग एव मोक्षदायको भवति। अनात्मवस्तुनःअसत्वात्,' न लिप्यते लोकदुःखेन बाह्यः' इति यदुक्तं तत्साधितुं ज्ञानप्राप्तिपर्यन्तचिन्तनं कर्तव्यम्। एवं प्रकरणसम्राडयम् उपदेशसाहस्रीग्रन्थः भगवत्पाद विरचितेषु प्रकरणेषु प्रमुखस्थाने विराजते।