सदस्यः:Shivkashipranav29/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगेन जीवनस्य विकासः।

जीवनस्य विकास मार्गे पञ्च क्लेशा: भवन्ति। तेषां वर्णनम् अहम अद्य अस्मिन् लेख माध्यमेन करिष्यामि।

अविद्या, अस्मिता, राग, द्वेष, अभिनिवेशा: पञ्च क्लेशा:। क्लेशा इति पञ्च विपर्यया इति अर्थः ते स्यंदमाना गुणाधिकारम् दृढयन्ति परिणामम् अवस्थापयन्ति, कार्य कारण स्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्रा भूत्वा कर्मविपाकम् च अभिनिर्हरहन्ति इति।

तेषु क्लेशेषु मध्ये अविद्या प्रथमः तथा मुख्यम् कारणम् भवति।

अविद्या- अत्र अविद्या क्षेत्रं प्रसवभूमि: उत्पत्ति: एषामस्मितादीनाम चतुर्विध कल्पितानाम् प्रसुप्त तनुविच्छोन्नदारणाम्। तत्र का नाम अविद्या ?

"अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या" अनित्ये कार्ये नित्य ख्यातिस्तद्यथा ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौ: अमृता दिवौकस इति। तथा अशुचौ परमबीभत्से काये शुचि ख्याति: उक्तम् च " स्थानाद् बीजादुपष्टम्भान्निधनादपि। कायमाधेयशौचत्वात् पंडिताह्यशुचिम् विदुः।इति अशुचौ शुचि ख्याति:दृष्यते। तथा दुःखे सुखख्याति वक्ष्यति " परिणामतापसंस्कारदुखैर्गुणवृत्ति विरोधाच्च दुखमेव सर्वम् विवेकिनः। इति तत्र सुखख्यातिरविद्या।तथा अनात्मनि  आत्म ख्याति: बाह्योपकारेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे, पुरुषोपकरणेषु वा मनसि, अनात्मनि आत्मख्यातिरिति।

2, अस्मिता- दृग्दर्शनशक्त्योरेकात्मतेवाsस्मिता।

पुरुषः दृक्शक्तिर्बुद्धिदर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवाSस्मिता क्लेश उच्यते।

3. राग- " सुखानुशयी राग:

सुखाभिज्ञस्य सुखानुस्मृतिपूर्व:, सूखे तत् साधने वा यो गर्द्धस्तृष्णा लोभः स रागः।

4. द्वेषः " दु:खानुशयी द्वेषः।

दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघोमन्युर्जिघांसा क्रोधः स द्वेषः।

5. अभिनिवेश: स्वरसवाही विदुषोSपि तथारुढोS अभिनिवेश:। सर्वस्य प्राणिन इयमात्माशीर्नित्यं भवति, मा न भुवं भूयासम इति।अस्य नित्यानुष्ठानेन गात्राणि पुष्ठानि भवन्ति । शरीरे द्रुतं रक्तसञ्चारः भवति । प्रस्वेदैः शरीरात् आमयं विषं च निर्गच्छति । अनेन पावनकर्म अपि सम्यक् भवति । व्यवहितः व्यायामः यथैव अस्वास्थ्यप्रदः भवति तथैव अव्यवहित व्यायामः स्वास्थ्यकरः भवति । स्वस्थे शरीरे एव स्वस्थं मस्तिकं भवति । स्वस्थः जनः सुयोग्यः नागरिकः भवति । देशसेवां स्वस्थे एव नागरिकाः कुर्वन्ति । न चास्ति सदृशं तेन किंचित्स्थौल्यापकर्षणम् । आरोग्यं चापि परमं व्यायामादुपजायते । शरीर- माद्यं खलु धर्मसाधनम्।

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखं।

आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्