सदस्यः:Shruta123/बिजापुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बिजापुरमण्डलम् छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं बिजापुरम नगरम् । बिजापुरमण्डलस्य विस्तारः ६५६२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे दन्तेवाडामण्डलम्, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे नारायणपुरमण्डलम्, दक्षिणे आन्ध्रप्रदेशराज्यम् च अस्ति । अत्र इन्द्रावती नदी प्रवहति । २००१ जनगणनानुगुणं बिजापुरमण्डलस्य जनसङ्ख्या २५५१८० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९ जनाः २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.७६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ४१.५८ % अस्ति। स्वातन्त्र्यात् पूर्वं मुम्बयीप्रशासनस्य अधीनः प्रदेशः आसीत् ।विजयपुरम् इति अस्य पूर्वतनं नाम । इतिहासप्रसिद्धस्थलैः पूर्णम् एतन्मण्डलम् । १०-११ शतकयोः कल्याणीचालुक्यैः स्थापितं नगरमिदम् । त्रयोदशशतकस्य उत्तरार्धकाले देहल्याः खिल्जिसुल्तानस्य हस्तगतम् इदं विजयपुरम् क्रि.श. १२४७ तमे वर्षे बीदरस्य बहमनि सुल्तानराजानां वशमागतम् । क्रि.श.१७६० तमे वर्षे मराठावंशजैः पराजितः विजापुरनिजामः । क्रि.श १८४८ तमे वर्षे ते विजयपुरं साताराजनेभ्यः समर्पितवन्तः । ते विजयपुरं मुम्बैप्रान्ते विलीनं कृतवन्तः । स्वातन्त्र्योत्तरकाले क्रि.श. १९५६ तमे वर्षे तदानीन्तनः सर्वकारः बिजापुरमण्डलं कृत्वा मैसूरुराज्ये संयोजनम् अकरोत् । उत्तरकर्णाटकस्य अभिवृद्धिशीलमण्डलेषु अन्यतमम् एतत् मण्डलम् । राजधान्याः बेङ्गळूरुतः उत्तरपश्चिमस्यां दिशि ५३०कि.मी. दूरे एतन्मण्डलम् अस्ति । इदं मण्डलं पञ्चनदीनां स्थानमिति प्रसिद्धम् । अतिन्यूना वृष्टिः भवति । कृष्यर्थं जलस्य व्यवस्था सम्यक् नास्ति ।