सदस्यः:Shubha/Subhashitaani

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुभाषितानि

१. आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानव: ।
परं परोपकारार्थं यो जीवति स जीवति ॥

सुभाषितरत्नभाण्डागारम् - परोपकारप्रशंसा (७८/६)

तात्पर्यम्
प्रपञ्चे विद्यमाना: सर्वे अपि मनुष्या: स्वहितं, स्वसुखं च सम्पादयन्ति । अत: आत्मन: निमित्तं सर्व: अपि जन: जीवति एव । परन्तु ये जना: अन्येषां हितम्, अन्येषां सुखं च कामयमाना: तदर्थं जीवन्ति, तेषां जीवनमेव सार्थकं जीवनम् ! धन्यं जीवनम् ! परोपकाररहितं जीवनं तु निरर्थकमेव ।

२. षड् दोषाः पुरुषेणेह हातव्याः भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥

उद्योगपर्व ३३/७८

तात्पर्यम्
जीवने औन्नत्यं प्राप्तुं यः इच्छति तेन एते षड् दोषाः परित्यक्तव्याः – निद्रा, तन्द्रा (श्रान्तता), भीतिः, कोपः, आलस्यं, दिर्घसूत्रता (करणीयस्य कार्यस्य अग्रे सारणम्) च । एते दुर्गुणाः यदि स्युः तर्हि तादृशः निरन्तं प्रयासं कर्तुं न अर्हति । परिश्रमेण विना फलप्राप्तिः नैव शक्यम् ।

३. पिबन्ति नद्य: स्वयमेव नाम्भ:
स्वयं न खादन्ति फलानि वृक्षा: ।
नादन्ति सस्यं खलु वारिवाहा:
परोपकाराय सतां विभूतय: ॥

सुभाषितरत्नभाण्डागारम् - सज्जनप्रशंसा (५१/१७०)

तात्पर्यम्
नदीषु जलं भवति । परन्तु नद्य: स्वयमेव तत् जलं कदापि न पिबन्ति । वृक्षेषु फलानि भवन्ति । ते वृक्षा: अपि स्वयमेव तानि फलानि कदापि न खादन्ति । जलवर्षणेन सस्यानि यथा सम्यक् प्रवृद्धानि भवेयु: तथा कुर्वन्ति मेघा: । परन्तु ते स्वेन वर्धितानि सस्यानि स्वयमेव न खादन्ति । एवमेव सज्जना: स्वसमीपे विद्यमानानां सम्पत्तीनाम् उपयोगं स्वयं न कुर्वन्ति । अपि तु परोपकारार्थमेव तासां विनियोगं कुर्वन्ति ।

४. व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भः
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥

वैराग्यशतकम् ३८

तात्पर्यम्
वार्धक्यं व्याघ्री इव मनुष्यं भाययन्ती अस्ति । रोगाः शत्रवः इव शरीरं घातयन्तः सन्ति । भग्नात् घटात् जलं यथा स्रवति तथा अस्माकम् आयुः परिस्रवन्ती अस्ति । तथापि जनाः अन्यान् अपकुर्वन्ति । वयम् अशाश्वताः इति न अवगच्छन्ति एव इत्येतत् विचित्रमेव ।

५. सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरु: सुरभयति मुखं कुठारस्य ॥

सुभाषितरत्नभाण्डागारम् - सज्जनप्रशंसा (४९/११०)

तात्पर्यम्
लोके तावत् मनुष्यस्य एष: स्वभाव: यत् यदा स: स्वयं कष्टम् अनुभवति, आपद्ग्रस्तो वा भवति, तदा स: कुपित: भवेत्, दु:खितो वा भवेत् । किन्तु सत्पुरुषाणां स्वभाव: न तादृश: । ते सर्वदा परोपकारे एव निरता: सन्त: स्वस्य नाशसमये अपि कमपि विकारं न प्राप्नुवन्ति । तत्कथमिति कवि: एकेन उदाहरणेन दर्शयति ।
यथा चन्दनवृक्ष: छेदनसमये अपि सहजगुणं सुगन्धं न जहाति, अपि च छेदनार्थम् उपयुक्तं कुठारमपि सुगन्धयुक्तं करोति, तथैव सज्जना: नाशसमये अपि परोपकारबुद्धिं न परित्यजन्ति ।

६. अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते ।
तदेव काले आरब्धं महतेऽर्थाय कल्पते ॥

शान्तिपर्व १३८/९५

तात्पर्यम्
कार्यकरणात् पूर्वं विवेकी मनुष्यः परिस्थितिम् अवलोकयेत् । असमये आरब्धं कार्यं कर्तुः लाभदायकं न भवेत् । किन्तु तदेव कार्यं यदि समीचीने समये क्रियेत तर्हि तत् नितराम् उपयुक्तकरं स्यात् ।

७. साहित्यसङ्गीतकलाविहीन: साक्षात्पशु: पुच्छविषाणहीन: ।
तृणं न खादन्नपि जीवमान: तद्भागधेयं परमं पशूनाम् ॥

सुभाषितरत्नभाण्डागारम् - कुपण्डितनिन्दा (४१/३०)

तात्पर्यम्
गद्यात्मकं पद्यात्मकं च काव्यं, विचारप्रधानं शास्त्रं च साहित्यशब्देन विवक्षितम् । साहित्येन ज्ञानम् अभिवर्धते, सङ्गीतेन, शिल्पेन (कलया) च आत्मसन्तोष: भवति । एषु त्रिषु एकस्य वा ज्ञानं मानवस्य आवश्यकम् । एकस्मिन् अपि विषये यस्य उत्साह: न भवति स: पशु: एव । पशो: पुच्छं शृङ्गे च भवन्ति, एतस्य मनुष्यस्य तु तानि न सन्ति इत्येव भेद: । अपरोऽपि भेद: अस्ति यत् एष: तृणं न खादति, पशव: तु खादन्ति । किन्तु एतत् पशूनां परमं भाग्यमेव । अन्यथा पशूनां तृणम् एव दुर्लभं स्यात् !

८. अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो नाभयं विद्यते क्वचित् ॥

विष्णुपुराणम् ३/९/३१

तात्पर्यम्
मुनिः सर्वदा सर्वेषां विषये उत्तमम् एव चिन्तयन् अभयप्रदानं कुर्वन् सञ्चरति । तस्य अन्यस्मात् कस्मात् अपि भयं न भवति । यत् भावयति तत् भवति । वयम् अन्येषां विषये यथा भावयामः यथा व्ययहरामः तथैव ते अपि अस्माकं विषये भावयन्ति व्यवहरन्ति च ।

९. गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशया: ॥

सुभाषितरत्नभाण्डागारम् - सज्जनप्रशंसा (४७/६)

तात्पर्यम्
गङ्गानद्यां य: स्नानं करोति तस्य पापपरिहार: भवति । गङ्गा तस्य पापं नाशयति । तथैव चन्द्र: अस्माकं तापं परिहृत्य शैत्यम् उत्पादयति । एवमेव कल्पवृक्ष: अस्माभि: याचितान् सर्वान् अभिलाषान् पूरयति । एतत् जगति प्रसिद्धमेव । किन्तु गङ्गाया:, चन्द्रस्य, कल्पवृक्षस्य च एकस्मिन् एव विषये सामर्थ्यम् अस्ति । सज्जना: महापुरुषा: तु न तथा । तेषां सहवासेन अस्माकं पापं, ताप:, दैन्यं - सर्वमपि परिहृतं भवति । तादृशं सामर्थ्यं तेषु अस्ति ।

१०. केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् ।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥

अनुशासनपर्व १४५/२

तात्पर्यम्
जीवने कष्टानि दुःखानि यदा आपतन्ति तदा बहवः वदन्ति – ग्रहगतिः समीचीना नास्ति इति । किन्तु केवलं ग्रहनक्षात्रादीनां कारणतः अस्माकं जीवने सुखदुःखादयः न भवन्ति । अस्माभिः कृतानां कर्मणां कारणतः एव शुभाशुभफलं प्राप्यते । ग्रहगतिकारणतः इदं जातम् इत्येतत् जनानां वचनमात्रम् ।

११. भीमं वनं भवति तस्य पुरं प्रधानं
सर्वो जन: सुजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥

सुभाषितरत्नभाण्डागारम् - दैवाख्यानम् (९६/७४)

तात्पर्यम्
य: मनुष्य: पूर्वस्मिन् जन्मनि अनेकानि सुकृतानि (पुण्यकर्माणि) कृतवान् स: अस्मिन् जन्मनि सर्वत्र सुखम् एव प्राप्नोति । नास्ति अत्र संशय: । तादृश: पुण्यवान् घोरं वनं प्रविशति चेदपि तद्वनं पत्तनमिव सर्वसौलभ्यदायकं भवति । अपि च ये ये तं पश्यन्ति ते सर्वे अपि तस्य विषये मृदु व्यवहरन्ति । किं बहुना, समग्रा भूमि: एव तस्य विषये सम्पद्युक्ता रत्नयुक्ता च भवति ।

१२. अधमा धनमिच्छन्ति धनमानौ तु मध्यमा: ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥

चाणक्यनीतिदर्पणम् ८/१

तात्पर्यम्
अनुत्तमा: जना: जीवने धनमात्रम् इच्छन्ति । धनसम्पादनम् एव तेषां जीवनस्य लक्ष्यं भवति । एतादृशं जीवनं कदापि श्लाघ्यं न भवति । मध्यमजना: धनं मानं च इच्छन्ति । धनेन सह मानम् अपि एते इच्छन्ति इत्यत: एतेषां जीवनं निन्द्यं न भवति चेदपि अतिप्रशस्तं तु न । महापुरुषा: सदापि मानम् एव इच्छन्ति । ते धनं तृणसमानं भावयन्ति । मानम् एव धनं भावयन्ति । मानधनानाम् एतेषां जीवनम् एव उत्कृष्टम् ।

१३. यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥

सुभाषितरत्नभाण्डागारम् - दैवाख्यानम् (९५/१२)

तात्पर्यम्
सहस्राधिका: धेनव: सन्ति चेत् अपि वत्स: तासु धेनुषु स्वमातु: एव समीपं गत्वा तामेव अनुसरति । तथा एव अस्माभि: पूर्वजन्मनि कृतानि कर्माणि अस्मान् अनुसरन्ति एव ।

१४. यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ।।

मनुस्मृतिः ४/१६१

तात्पर्यम्
जनाः विभिन्नानि कार्याणि कुर्वन्ति । कीदृशानि कार्याणि कर्तव्यानि कीदृशानि न कर्तव्यानि इत्येतत् सर्वदा मनुष्यान् बाधते । यस्य कार्यस्य करणेन अन्तरात्मा तुष्यति तच्च कार्यम् अवश्यं करणीयम् । आनन्देन कर्तव्यं च । तस्य विरुद्धं कार्यं तन्नाम यस्य कार्यस्य करणेन अन्तरात्मनः सन्तोषः न भवति तत् कार्यं न करणीयम् ।

१५. मनसि वचसि काये पुण्यपीयूषपूर्णा:
त्रिभुवनमुपकारश्रेणिभि: प्रीणयन्त: ।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्त: सन्ति सन्त: कियन्त:

सुभाषितरत्नभाण्डागारम् - सज्जनप्रशंसा (५३/२२१)

तात्पर्यम्
सज्जनानां स्वभावं वर्णयति कविः । सत्पुरुषाणां वचांसि मनांसि शरीराणि च अमृतेन पूर्णानि भवन्ति । तादृशेन अमृतपूर्णेन वचनेन, चेतसा, शरीरेण च ते सज्जनाः उपकारसहस्रेण लोके स्थितानां सर्वेषां जीविनामपि हितम् आचरन्ति । अपि च अन्येषु स्थिताः गुणाः अल्पाः चेदपि तान् एव बहु मत्वा, मनसि सन्तोषम् अनुभवन्ति । किन्तु एतादृशाः जनाः जगति कियन्तः सन्ति ?

१६. यदचेतनोऽपि पादै: स्पृष्ट: प्रज्वलति सवितुरिनकान्त: ।
तत्तेजस्वी पुरुष: परकृतनिकृतिं कथं सहते ॥

नीतिशतकम् – ३५

तात्पर्यम्
लोके सामान्य: पुरुष: अपि अन्यै: कृतं स्वस्य अपमानं न सहते । स्वाभिमानी पुरुष: अन्यै: कृतम् अपमानं न सहते इति तु न वक्तव्यम् । तस्य उदाहरणम् अपि कविना दत्तं यत् सूर्यकान्तमणि: यदा सूर्यकिरणै: स्पर्शं प्राप्नोति तदा झटिति प्रज्वलति । अचेतने मणौ एव एतादृश: स्वभाव: दृश्यते । सचेतनानां विषये तु वक्तव्यमेव नास्ति ।

१७. पादपानां भयं वातात् पद्मानां शिशिराद् भयम् ।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥

सुभाषितरत्नभाण्डागारम् - सामान्यनीतिः (१६८/४१४)

तात्पर्यम्
दृढमूला: अपि वृक्षा: वेगयुक्तस्य वायो: कारणत: पतनं प्राप्तुम् अर्हन्ति । अत: वृक्षाणां वायुत: भयम् (अपाय:) अस्ति । यदि हिमपात: भवति तर्हि कमलं नष्टं भविष्यति । शिशिरऋतौ हिमपात: भवति खलु ? अत: कमलानि शिशिरऋतुत: भीतानि भवन्ति । पूर्वं पर्वतानां पक्षा: आसन् इति, इन्द्र: तान् पक्षान् कर्तितवान् इति च कथा श्रूयते । अत: वज्रायुधत: पर्वतानां भीति: । सज्जना: यद्यपि यस्य कस्यापि अहितं न आचरन्ति, तथापि परपीडनस्वभावयुक्ता: दुष्टा: विना कारणम् अपि सज्जनान् पीडयितुम् अर्हन्ति । अत: सज्जना: दुष्टजनेभ्य: भीता: भवन्ति । एवं लोके एकैकस्यापि एकैकविधं भयं भवति एव ।

१८. यो यस्य चित्ते वसति न सदूरे कदाचन ।
खे सूर्य कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥

गर्गसंहिता माधुर्यखण्डः १/११

तात्पर्यम्
यः यस्य हृदये निवसति सः कदापि तस्मात् दूरे न तिष्ठति । यद्यपि सूर्यः आकाशे अस्ति कमलं तु भूमौ निवसति तथापि सूर्यस्य दर्शनमात्रेण कमलं विकसितं भवति (सूर्यस्य सान्निध्यम् अनुभवति ) ।

१९. दूरीकरोति दुरितं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति
भूतेषु किञ्च करुणां बहुलीकरोति
सत्सङ्गति: कथय किं न करोति पुंसाम् ।

सुभाषितरत्नभाण्डागारम् - सत्सङ्गतिप्रशंसा (९१/३०)

तात्पर्यम्
लोके सर्वेषां जनानां स्नेहिता: भवन्ति एव । तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव । यत: स्वार्थपरा: एव अधिका: सन्ति लोके । तथापि अस्माभि: सज्जनानां सहवास: एव करणीय: इति वदन् सुभाषितकार: तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिता: दुष्टा: विचारा: दूरं गच्छन्ति । मन: शुद्धं भवति । पुरा कृतं पापमपि भस्म भवति । अपि च प्राणिनां विषये दया अधिका भवति । अत: सज्जनानां स्नेह: मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति ।

२०. रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥

हितोपदेशः ३९

तात्पर्यम्
रूपेण यौवनेन च युक्ताः उत्तमकुले सञ्चाताः अपि जनाः विद्याविहीनाः यदि भवेयुः तर्हि ते गन्धरहितानि किंशुकपुष्पाणि इव न शोभन्ते । विद्या एव वस्तुतः व्यक्तेः शोभां वर्धयति । विद्याविहीनाः पुरुषाः तु सुगन्धविहीनानि पुष्पाणि इव आकर्षणरहितानि भवन्ति ।

२१. व्याधितस्यार्थहीनस्य देशान्तरगतस्य च ।
नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥

सुभाषितरत्नभाण्डागारम् - सुमित्रप्रशंसा (९२/१०)

तात्पर्यम्
प्राय: लोके सर्वेषाम् अपि स्नेहिता: भवन्ति एव । बान्धवा: बहव: स्यु: नाम, तथापि मित्राणि सन्ति चेत् एव तस्य नरस्य जीवनं सुखि जीवनम् । यत: यस्य मित्राणि भवन्ति तस्य जीवने सर्वविधसौख्यम् अपि भवति । मनुष्यस्य कष्टसमये मित्रं सान्त्वनवचनै:, अन्येन प्रकारेण वा साहाय्यम् आचरति । तत्रापि रुग्णावस्थायां, दारिद्र्यदशायां, देशान्तरनिवासप्रसङ्गे, दु:खावस्थायां च यदि मित्राणां दर्शनं भवति तर्हि तत् औषधमिव सर्वमपि कष्टं दु:खं च परिहरति ।

२२. मरणं प्रकृति: शरीरिणां विकृतिर्जीवितमुच्यते बुधै: ।
क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥

कालिदासस्य रघुवंशम् (८/८७)

तात्पर्यम्
सर्वेषां प्राणिनां मरणं स्वभावसिद्धम् । तत् परिहर्तुं केनापि न शक्यते । जातस्य मरणं निश्चितम् एव । किन्तु जीवनं न निश्चितम् । तत् आकस्मिकं, न तु स्वभावसिद्धम् । अद्यैव जीवनं समाप्तं स्यात्, अथवा श्व: । जीवितस्य पुरुषस्य मरणं भवत्येव । किन्तु मृतस्य पुन: जीवितं भविष्यति इत्यत्र न निश्चय: । अत: क्षणकालमपि जीव: यदि देहे तिष्ठति तर्हि तदेव प्राणिनां महालाभ: । किञ्च, मरणेऽपि शोक: न कार्य: । यत: मरणं प्राणिनां स्वाभाविकम् । यावज्जीवं सन्तोषेण जीवेत् । यत: दुर्लभं जीवनम् अस्माभि: प्राप्तम् अस्ति ।

२३. अनेकशास्त्रं बहु वेदितव्यम्
अल्पश्च कालो बहवश्च विघ्ना: ।
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमध्यात् ॥

सुभाषितरत्नभाण्डागारम् - सामान्यनीतिः (१८०/८७८)

तात्पर्यम्
जातेन मनुष्येण बहूनां शास्त्राणां विषये यावत् शक्यते तावत् अध्येतव्यम् । तद्विषये विलम्ब: न करणीय: । यत: काल: बहु अल्प: । अपि च सत्कार्याणां विघ्ना: अपि बहव: भवन्ति । यथा केनचित् कविना उक्तं - ‘क्षणश: विद्यां साधयेत्’ इति, तथैव कृत्वा शास्त्राध्ययनसमये अपि सारभूतम्, अतिप्रधानम् एव विषयं ज्ञातुम् अधिक: प्रयत्न: करणीय: । जलेन मिश्रितं क्षीरम् एकस्मिन् पात्रे अस्ति चेदपि हंस: यथा क्षीरमेव स्वीकरोति, तथा अध्ययनसमये अनुपयुक्त: अप्रधान: वा भाग: परित्यक्तव्य: ।

२५. कामान् दुग्घे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति ।
तां चाप्येतां मातरं मङ्गलानां
धेनुं धीरा: सूनृतां वाचमाहु: ॥

सुभाषितरत्नभाण्डागारम् - वाग्वर्णनम् (८८/१२)

तात्पर्यम्
लोके सर्वै: सज्जनानां सहवासं प्राप्तुं यत्न: करणीय: । तेषां सम्पर्केण अस्माकम् अनेके उपकारा: भवन्ति । सर्वेषां मङ्गलानां जननी इव स्थिता एषा सतां वाणी कामधेनु: इव अस्माकं सर्वा: इच्छा: पूरयति । अनिष्टात् अस्मान् दूरीकरोति । अत: एव पण्डिता: सज्जनानां वाचं कामधेनुं वदन्ति ।

२६. स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥

पञ्चतन्त्रम् १/११२

तात्पर्यम्
अन्येषु जनेषु परिवर्तनम् आनेतुम् ये इच्छन्ति ते सपदि उपदेशम् आरभन्ते । किन्तु उपदेशमात्रेण कस्यापि स्वभावस्य परिवर्तनं कर्तुं न शक्यते । स्वभावस्य परिवर्तनं तथा सुकरं न । यतः समीचीनतया उष्णीकृतमपि पानीयं स्वस्य स्वभावानुगुणं पुनः शीततां प्राप्नोति ।

२७. सम्पत्सु महतां चित्तम् भवेत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥

नीतिशतकम् – ६६

तात्पर्यम्
सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति । कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति । किन्तु महापुरुषाः न तथा । सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति । आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति । महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति ।

२८. सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृष्यकारिणम् गुणलुब्धाः स्वयमेव सम्पदः ॥

किरातार्जुनीयम् – २/३०

तात्पर्यम्
जीवने सर्वदा अपि विचिन्त्य एव सर्वे व्ययहाराः कर्तव्याः । कोपि जनः अविचिन्त्य हठात् किमपि कार्यं न कुर्यात् । यदि तथा क्रियेत तर्हि तादृशम् अविवेकिनं महत्यः आपदः आवृण्वन्ति । किन्तु यः सम्यक् विचार्य पदं स्थापयति सः उत्तमफलानि एव प्राप्नोति । तस्य गुणैः आकृष्टा सम्पत्तिः स्वयमेव धावन्ती तत्समीपम् आगच्छति ।

२९. सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥

पञ्चतन्त्रम् २/१५६

तात्पर्यम्
सामान्यतः जनाः चिन्तयन्ति यत् जगति दृश्यमानानि वस्तूनि एव लक्ष्यसिद्धौ प्रमुखं पात्रं वहन्ति इति । किन्तु तत् न सत्यम् इति एतैः उदाहरणैः ज्ञायते - सर्पाः वायोः सेवनमात्रेण जीवन्ति चेदपि ते न दुर्बलाः । शुष्कानि तृणानि खादन् गजः अरण्ये अत्यन्तं बलवान् भवति । कन्दमूलानि खादन्तः एव ऋषयः सर्वेषां मार्गदर्शकः सन्तः तिष्ठन्ति । अतः सन्तोषः एव पुरुषस्य परमं धनम् अस्ति न तु अन्यद् किमपि ।

३०. सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥

चाणक्यनीतिदर्पणम् ५/१९

तात्पर्यम्
इयं भूमिः सत्येन एव धृता अस्ति । सूर्यः सत्येन एव तपति । वायुः स॒ञ्चरति सत्यस्य आधारेण एव । जगति विद्यमानं सर्वमपि सत्ये एव प्रतिष्ठितम् अस्ति । सत्यमेव सर्वस्य आधारभूतं, शक्तिमूलं च । अतः अस्माभिः सत्यम् उपासितव्यम् ।

३१. वयमिह परितुष्टा वल्कलैस्त्वं दुकुलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोर्थवान् को दरिद्रः ॥

वैराग्यशतकम् – ५३

तात्पर्यम्
कश्चन संन्यासी राजानम् उद्दिश्य वदति – ”आश्रमे वसन्तः वयं वल्कलवस्त्रैः एव सन्तुष्टाः स्मः । भवान् कौशेयवस्त्राणि धरन् सन्तोषम् अनुभवति । भवतः मम च सन्तोषः समानः एव । तत्र न कोपि भेदः । यस्य तृष्णा अधिका अस्ति सः एव दरिद्रः । मनः यदि तृप्तं स्यात् तर्हि कः धनिकः ? कः दरिद्रः ?

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shubha/Subhashitaani&oldid=138482" इत्यस्माद् प्रतिप्राप्तम्