सदस्यः:Sonu18/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बाल्यम्[सम्पादयतु] नरेन्द्रस्य जनकः न्यायवादी आसीत् । प्रतिदिनं विविधकुलजाः न्यायार्थिनः बहवः तदगृहमायान्ति स्म । तदगृहं धर्मशाला इव भवति स्म । ते सर्वेऽपि तत्रैव अल्पाहारं भोजनं च कुर्वन्ति स्म । भोजनानन्तरं धूमपानार्थं हुक्कानां प्रदानं तत्र सम्प्रदायः आसीत् । तत्र एकैककुलजानां प्रत्येकतया हुक्का भवति स्म । इतरकुलजानां हुक्काम् अहं पिबामि चेत् किं भवतीति ज्ञातव्यम् इति नरेन्द्रस्य उत्सुकता आसीत् । एकदिने तादृशप्रयोगं कृतवानपि । अनर्थं नी्ुोवरद किञ्चित् जातम् । कुलभेदाः निरर्थकाः इति सः तदानीमेव निर्णीतवान् ।

"वार्धक्यलक्षणानि बाल्ये एव द्र्ष्टुं शक्यन्ते" इति सूक्तिः करुणार्द्रहृदयस्य नरेन्द्रस्य विषये सम्पूर्णतया सत्यार्था अभवत् । एकदा तत्रत्य-व्यायामशालायां व्यायामविन्यासानां प्रदर्शनम् आसीत् । अनूह्यतया एका भारयुक्ता अयश्शलाका सन्दर्शकेषु कस्यचन नाविकस्योपरि पतिता । स च मूर्छितः । आरक्षकाः प्रश्नं करिष्यन्तीति सन्दर्शकाः सर्वे भयेन पलायितवन्तः । नरेन्द्र: द्वयोः मित्रयोः साहाय्येन व्रणितस्य नाविकस्य प्रथमचिकित्सां कृतवान् । अन्यस्मिन् सन्दर्भे अश्वशकटस्य चक्रूबैाबू्ापायोरधः पतितं किञ्चून मित्रं नरेन्द्रः चक्रयोर्मध्यतः बहिीाूरानीय रक्षितवान् । अन्यदा अज्ञातं बालकं कञ्चन रक्षितवान् । तीव्रज्वरेण मध्येमार्गं नष्टप्रज्ञं तं बालकं स्वगृहं नीत्वा तस्य सेवामकरोत् ।

नरेन्द्रः न केवलं क्रीडासु निपुणः, विद्यास्वपि सः निपुणः एव । यं कञ्चन पाठम् एकवारं पठित्वा अक्षरशः सर्वं स्मरति स्म सः । तस्य स्मरणशक्तिः अपूर्वा आसीत् । अध्ययने विजयप्राप्तेः मूलकारणं तस्य एकाग्रता एव ।

विश्वनाथदत्तः यदा यदा समयः लभ्यते तदा तदा नरेन्द्रमेवं बोधयति स्म "सत्यधर्मयुतं मार्गं यावदनुसरति भवान् तावत् कस्मादपि भयं अनुभोक्तव्यं नास्ति । दुष्टानां वशः मा भवतु । आत्मगौरवं सर्वदा रक्षतु भवान् । स्वमते प्रेम इत्यस्य अर्थः परमते द्वेषः न । देशभक्तिरस्ति चेत् एव मानवः सुखेन जीवति । परदेशीयाः शत्रवः अस्माकं देशस्य उपरि आक्रमणं कृतवन्तः चेदपि अस्माकं देशस्य प्राचीनां महिमान्वितां संस्कृतिं ते हर्तुं न शक्नुवन्ति" इति । स्वकुमारस्य नरेन्द्रस्य मधुरं कण्ठस्वरं श्रोतुम् इच्छति स्म पिता । भक्तिगीतानाम् आलापनसमये नरेन्द्रस्य मुखम् उज्ज्वलं प्रकाशते स्म ।

नरेन्द्रः स्वजननीं प्राणसमं प्रीणाति स्म । तां साक्षात् देवतां मनुते स्म । तस्य चिन्तनानुसारं त्यागे मातृसमःुूपोससलर् जनः अन्यः कोऽपि न भवति । न केवलं गृहे किन्तु समाजेऽपि तस्याः कृते अत्युन्नतस्थानं दातव्यम् । जनकेऽपि नरेन्द्रे अपारं प्रीत्यादरवान् आसीत् । सर्वमिदं तस्य स्वेच्छायाः, स्वतन्त्रविहाराणां वा प्रतिबन्धकं नासीत् । पितरमुद्दिश्यापि स्वाभिप्रायान् स्पष्टतया प्रकटयामास सः । "आतिथ्यमिति सत्यमेव सुगुणः, किन्तु अलसानां कृते भोजनदानं किमुचितम् ? धूमपानाय तेषां कृते धूमवर्तिकानां, हुक्कानां प्रदानं न्याय्यं वा ?" इति पितरं दृढं पृच्छति स्म । तस्य पिता तु 'पुत्र ! तेषां कष्टानि भवान् न जानाति, धूमपानावसरे वा ते स्वजीवनस्य कष्टं विस्मरेयुः इति वदति स्म ।।

१८८० तमे वर्षे नरेन्द्रः माध्यमिकशिक्षां समाप्य मेट्रिक्युलेषन्, कलाशालाप्रवेशपरीक्षाञ्चोत्तीर्णवान् । सः काञ्चन कलाशालां प्राविशत् । तस्य ज्ञानतृष्णा दिने दिने वर्धते स्म । विविधानि पुस्तकानि ग्रन्थालयतः आनीय तृष्णायाः निवारणाय पठति स्म सः । विशेषतया भगवतः सृष्टिरहूबूीचजzैचतरलस्यानि तं सम्मोहयन्ति स्म । न केवलम् इतिहासं, विज्ञानशास्त्रं पाश्चात्यतत्त्वशास्त्रमपि सम्यगधीतवान् सः । अध्ययनेन तस्य मेधाशक्तिः विकसिता भवति स्म । सन्देहसन्दोहाः तं परितः भवन्तिहहब स्म । अन्धविश्वासान् मनसः सः तिरस्कर्तुं शक्तवान्, तत्त्वस्य साक्षात्कारन्तु न प्राप्तवान् ।

प्रसिद्धपण्डितान् सन्दृश्य, स्वसन्देहान् तेषु निवेद्य तेषां मार्गदर्शनं प्रार्थयति स्म । तर्कवितर्केषु पण्डिताः एकमन्यो विशिष्यन्ते स्म, किन्तु तेषां तर्काः नरेन्द्रस्य तृप्तिकराः नासन् । तेषां विचारशैली शिथिला, पुरातनी आसीत् । तेषु कस्यचन वा देवस्य साक्षात्कारानुभूतेः अविद्यमानत्वात् तद्विचारधारा नरेन्द्रस्य अतृप्तिकरी आसीत्