सदस्यः:SowmyaHarish/प्रयोगपृष्ठम्
प्रश्न: १ किम् नाम वेदांगं स्वरुपसामान्यमुपस्तयत। उत्तरम् - अङ्ग्य्न्ते ज्ञायन्ते अमीभिरिति अंगानि, इति व्युत्पत्तयनुसारेण अंगषब्दस्यार्थ: उपकारको वर्तते । वेदार्थज्ञानाय येषां शास्त्राणाम आवश्यकता भवति, तान्येव शास्राणि वेदांगानि इति कथ्यन्ते। शिक्षा- कल्प-व्याकरण-निरुक्त-छ्न्द-ज्योतीषि भवन्ति षड्वेदांगानि -
- शिक्षा कल्पो व्याकरणं निरुक्तं छ्न्दसां चय: ।
- ज्योतिषामयनं चैव वेदांगानि षडेव तु ॥
वैदीकवाङमये सर्वप्रथमवेदमन्त्राणां यथायथोच्चारणम आवश्यकम् अस्ति। अस्मिन् उच्चरणकर्मणि उपकारकम वेदांगं शिक्षेति कथ्यते। वेदाध्ययनस्य मुख्यप्रयोजनं तु यज्ञयागादिकस्य कर्मकाण्डस्यानुष्ठानमस्ति। एतस्मिन अर्थे प्रवृत्त्स्य वेदांगस्य नाम कल्पोऽस्ति। शब्दानां प्रकृति प्रत्ययादीनां समुचितं ज्ञानं व्याकरणं विना अस्म्भवमस्ति। अत: व्याकरण्मपि वेदांगमेवास्ति।निरुक्ताख्यस्य वेदांगविशिष्टस्य विषयस्तु वैदिकानां पदानां व्युत्पत्तिप्रतिपादनम् अस्ति। वेदा: छ्न्दोबध्दा: सन्ति। अत एव तेषामुच्चारणाय छ्न्दोज्ञानम् आवश्यकमस्ति। ज्योतिषक्ख्यमन्तिमं वेदांगम् यज्ञाणामनुष्ठाने समुचितकालं स्मारयति निर्दिशति वा। एतेषां षड्वेदांगानां विभाजनं पाणिनीयशिक्षायां निम्नप्रकारेण कृतमस्ति -
- छ्न्द: पादौ तु वेदस्य हस्तौ कल्पोऽथ उच्यते।
- ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते॥
- शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम।
- तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते॥
प्रश्न: २ शिक्षा-वेदांगस्य स्वरुपं संक्षॆपेण उपास्थापयत। उत्तरम् - येन शास्त्रेण वेदमन्त्राणां शुध्दोच्चरणे सारल्यं साहाय्यं च भवति तच्छास्त्रं शिक्षेति कथ्यते। अर्थात्, स्वर-वर्णादीनाम् उच्चारणनियमबोधयित्री विद्य शिक्षेत्यभिधीयते। वेदेषु सर्वत्र स्वरप्राधान्यं भवत्येव, स्वरभेदेनार्थभेद-सम्भवात्। इदं स्वरज्ञानं शिक्षाधीनं भवति। अत एव शिक्षाशास्त्रस्य वेदांगता सुतराम् उपपद्यते, यत: अशुध्दोच्चारजेन महाननर्थ: भवति। यथोक्तं पाणिनीयशिक्षायाम् -
- मन्त्रो हीन: स्वरतो वर्णतो वा,
- मिथ्या प्रयुक्तो न तमर्थमाह।
- स वाग्वज्रो यजमानं हिनस्ति,
- यथेन्द्रसश्स्त्रु: स्वरतोपराधात्॥
शिक्षाया: प्राचीना: ग्रन्था: प्रातिशाख्यरुपेण समुपलभ्यन्ते। सर्वेषां वेदानां प्रातिशख्यग्रन्था: भिन्ना: सन्ति। तैत्तिरीयोपनिष्द: शिक्षावल्ल्यां शिक्षाशास्त्रस्य प्रयोजनमुल्लिखितमस्ति, - "अथ शिक्षां व्याख्यस्याम:, वर्ण:, स्वर:, मात्रा, बलम्, साम, सन्तान, इत्युक्त: शिक्षाध्याय:।" अत्र वरण: आकारदि:, स्वरस्तु उदत्तादि:, मात्रा ह्र्स्वदिका: बलमुच्चारण-स्थानं तल्वदिकम्। साम निषाददि:, सन्तानो विकर्षणादि:। शिक्षासहित्यं तु नितराम् विशालं वर्तते, यथा-पाणिनीयशिक्षा, व्यासशिक्षा, भरव्दाजशिक्षा, याज्ञयवल्क्यशिक्षा, पाराशरीशिक्षा, वाशिष्ठीशिक्षा, कात्यायनीशिक्षा , माध्यन्दिनीशिक्षा, केशवीशिक्षा, अमोघानन्दिनीशिक्षा , माण्डव्यशिक्षा, मल्लशर्मशिक्षा, स्वरांकशशिक्षा, षोडशश्लोकीशिक्षां, नारदीयशिक्षा, माण्डूकीशिक्षा, स्वरभक्तिशिक्षा, अवसाननिर्णयशिक्षा, वर्णरत्नप्रदीपिकाशिक्षा इत्यादय:॥