सदस्यः:Srimedha1997/प्रयोगपृष्ठम्8

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कृष्णराजसागरजलबन्धः Krishna Raja Sagara
ಕೃಷ್ಣರಾಜ ಸಾಗರ ಜಲಾಶಯ
Krishna raja sagara dam.JPG
के.आर्.एस्.इत्येव प्रसिद्धः अयं जलबन्धः कर्णाटकराज्यस्य मैसूरुमण्डलस्य केन्द्रसमीपे एव कावेरीनदीम् अवरुध्य निर्मितः अस्ति ।
अवस्थानम् Mysuru Northwest suburbs and Mandya, Karnataka, India
निर्माणस्य आरम्भः 1911AD
प्रारम्भकालः 1938AD
जलबन्धस्तथा जलनिकाषी व्यवस्था
आबन्धनम् Kaveri River
उच्चता 125 फ़ुट (38 मी)
दैर्घ्यम् 3.5 किमी (2.2 मील)
जलाधारः
निर्माणम् Krishna Raja Sagara/ಕೃಷ್ಣರಾಜ ಸಾಗರ ಜಲಾಶಯ
सम्पूर्णधारणक्षमता 49 बिलियन घन फ़ुट (1.4 किमी3)
कृष्णराजसागरजलबन्धः

प्रीठिका[सम्पादयतु]

के.आर्.एस्.इत्येव प्रसिद्धः अयं जलबन्धः कर्णाटकराज्यस्य मैसूरुमण्डलस्य केन्द्रसमीपे एव कावेरीनदीम् अवरुध्य निर्मितः अस्ति । अस्य कन्नम्बाडी इत्यपि नामान्तरम् अस्ति । जलबन्धस्य पुरतः एव निर्मितः वृन्दावनम् इति ख्यातम् उद्यानवनं पर्यटकानाम् आकर्षणकेन्द्रम् । मैसूरुमण्ड्यमण्डलयोः जीवनद्यां कावेर्यां निर्मितः अयं जलबन्धः निर्मितेः काले भारतदेशे एव अतिबृहज्जलबन्धः इति ख्यातः । मैसूरुसंस्थानस्य दिवानः मोक्षगुण्डं विश्वेश्वरय्यः अस्य जलबन्धस्य निर्मापकः अभियन्ता । अस्य निर्माणस्य उद्देशः कृषिजलानयनं पानजलवितरणं च ।

वृन्दावनोद्यानं च

जलबन्धः[सम्पादयतु]

अयं जलबन्धस्य दैर्घ्यं ८६००पादपरिमितम् औन्नत्यं १३०पादपरिमितम् स्तः । स्वचालिस्ल्यू गेट् युक्तः प्रपञ्चस्य प्रथमः जलबन्धः एषः । एतस्मात् तिस्रः कुल्याः सन्ति । तासु काचित् विश्वेश्वरय्य कुल्या ४५कि.मी दीर्घा अस्ति । वामतटकुल्या ३२कि.मी. दक्षिणतटकुल्या २१कि.मी. स्तः । १२४पादमितं जलम् अस्मिन् जलबन्धे तिष्ठति । भुमेः १११पादमिताधस्तात् अस्य मूलनिर्मितिः अस्ति । अस्य जलसङ्ग्रहविस्तारः ४०००च.कि.मी अस्ति ।

इतिहासः[सम्पादयतु]

मैसूरुसंस्थानस्य दिवानः श्री विश्वेश्वरय्यः कृष्णराजसागरजलबन्धस्य वृन्दावनोद्यानस्य च परियोजनायाः दायित्वं स्वाकृत्य क्रि.श.१९३२तमे वर्षे समापितवान् । यस्मिन् कालखण्डे मैसूरु मण्ड चामराजनगरम्, बेङ्गळूरु इत्यादिषु प्रदेशेषु सस्यशालिन्याः भूमेः कुतः पानजलस्यापि अभावः आसीत् तदा एतां महयोजनां रूपितवान् महोदयः विश्वेश्वरय्यः । अनेन सह सर्दार् एम्.कान्तराज् अरस्, अल्बियन् रज्कुमर् ब्यानर्जी, एम्.इस्मायिल्, कर्पूर् श्रीनिवास् राव्, के.कृष्ण अय्यङ्गार्, बि.सुब्बराव्, सि.कडाम्बी, जान् बोर्, के.आर्.शेषाचार्, एच्.पि.गिब्स् इत्यादयः परिश्रमं कृतवन्तः । अस्य निर्माणेण मैसूरुप्रान्तस्य १०सहस्रकुटुम्बानि स्वक्षेत्रं निमज्जनार्थं त्यक्तवन्तः तेषां त्यागः स्मरणीयः एव ।

कण्वपुरं कन्नम्बाडीति ख्यातम्[सम्पादयतु]

कन्नम्बाडी इति कावेरी तटस्य कश्चित् ग्रामः । पूर्वम् अत्र महर्षिः कण्वः तपः समाचरत् इति प्रतीतिः । अतः अस्य कण्वपुरी, कण्वपुरम् इति नाम आगतम् । कालक्रमेण कण्णम्बाडी भूत्वा कन्नम्बाडी इति ख्यातः अभवत् । दोड्डय्यप्रभु इति कश्चित् अधीनराजः एतं ग्रामं प्रशासते स्म । क्रि.श. १६००तमे वर्षे मैसूरु संस्थानस्य राजा राजवोडेयर् एतं ग्रामं जितवान् । भारतदेशे एव सर्वप्रथमतया निर्मितः जलबन्धः कावेरीनद्याम् एव । चोळराजः करिकालचोळः तमिळ्नाडु राज्ये कल्लण्णै इति ग्रामे कावेरीनदीम् अवरुध्य क्रि.श.१०६८तमे वर्षे जलबन्धः निर्मितः ।



can't use in sandboxकर्णाटकस्य जलबन्धाः]]


बाह्यानुबन्धाः[सम्पादयतु]

can't use in sandboxसारमञ्जूषा योजनीया‎]]