सदस्यः:Sushil Lohani/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

=दशरूपकम्=

संस्कृतसाहित्यस्य लाक्षणिकग्रन्थेषु अन्यतमः दशरूपकनामोऽयं कश्चन् ग्रन्थः। रससम्प्रदायसमर्थकोऽयंदशरूपककारः धनञ्जयः परमारवंशीयमालवाधिपतेः मुञ्जस्य(९७४-९९५ई.) सभासदः आसीत्। अस्य पितुर्नाम विष्णुः आसीत्। अस्य अनुजः धनिकः स्वभ्रातुः विरचितस्य ग्रन्थस्य अवलोकेतिनाम्ना वृत्तिञ्चकार। ग्रन्थेऽस्मिन चत्वारः प्रकाशाः सन्ति। प्रत्येकस्य प्रकाशस्य(अध्यायविभाजननाम) अन्ते सः धनिकः इत्थं विवृणोति। "॥इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके रसविचारो नाम चतुर्थः प्रकाशः समाप्तः॥" भरतमुनेः नाट्यशास्त्रस्य दशरूपविकल्पन अथवा दशरूपविधाननाम्ना २०तमः अध्यायः अस्य ग्रन्थस्य उपजीव्यग्रन्थः अतः धनञ्जयः स्वविरचितस्य अस्य ग्रन्थस्य नामोऽपि दशरूपकमिति कृत्वा ग्रन्थं रचयामास। नाट्यशास्त्रोल्लेखितदशरूपकाणि इत्थं सन्ति-

१. नाटकम्

२. प्रकरणम्

३. अङ्कः(उत्सृष्टिकाङ्कः)

४. व्यायोगः

५. भाणः

६. समवकारः

७. वीथी

८. प्रहसनम्

९. डिमः

१०. ईहामृगः।

धनञ्जयेन विरचितेऽस्मिन ग्रन्थे अध्यायविभाजनं प्रकाशः इति नाम्ना अस्ति।चत्वारः प्रकाशात्मकः अयं ग्रन्थः। तत्र प्रथमे प्रकाशे धनञ्जयः श्लोकद्वयेन मङ्गलाचरणम् अकार्षीत्।

"नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते। मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे॥१॥"

"दशरूपानुकारेण यस्य माद्यन्ति भावकाः। नमः सर्वविदे तस्मै विष्णवे भरताय च॥२॥"

मङ्गलाचरणानन्तरं सः ग्रन्थप्रयोजनम् इत्थं प्रकृटीकरोति।-

"कस्यचिदेव कदाचिद्दयया विषयं सरस्वती विदुषः। घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम्॥३॥"

"उद्धृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदं विरिञ्चि- श्चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः। शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे नाट्यानां किन्तु किञ्चित्प्रगुणरचनया लक्षणं संक्षिपामि॥४॥"


"अवस्थानुकृतिर्नाट्यमिति" पदेन दशरूपककारः धनञ्जयः नाट्यलक्षणं प्रतिपादयति। प्रथमप्रकाशे वस्तुनिरूपणत्वेन आदौ नाट्य-नृत्य-नृतययोश्च निरूपणम्, रूपकाणां भेदाः, पताका-प्रकरी निरूपणम्, कार्यपञ्चावस्थाः(आरम्भ-प्रयत्न-प्रत्याशा-नियताप्ति-फलागम), सन्धयः (मुख-प्रतिमुख-गर्भ-अवमर्श-निर्वहण), पञ्चार्थापेक्षकाः(विषकम्भक-प्रवेशक-चूलिका-अङ्कास्य-अङ्कावतार) निरूपितास्सन्ति। द्वीतीयप्रकाशे नायिकानायकयोः भेदालङ्कारगुणादयः विस्तरेण निरूपितवान। तृतीयप्रकाशे रूपकाणां भेदाः चतुर्थे च रसनिरूपणं विस्तृतविवरणेन प्रत्यपादयत् धनञ्जयः।

अयं ग्रन्थः संस्कृतसाहित्यिकलाक्षणिकग्रन्थेषु विशिष्टस्थानं भजते। रूपकमुद्दिश्य नाट्यशास्त्रस्थ विंशतितमः अध्यायस्य काठिन्यं निवारयति धनञ्जयेन विरचितः दशरूपकमिति नामधेयोऽयं ग्रन्थः।