सामग्री पर जाएँ

सदस्यः:Suvasri Mohanty 2015/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बालचरितम् महाकविः भासः (१००ई०पू०) महाकविः भासस्य समय /देशः/जीवन बृतम्-

            “यस्यश्चौरश्चिकुरनिकरः कर्णपुरो मयुरः ।
     भासो ह्रासः कविकूलगुरुः कालिदासो विलासः” ॥

संस्कृत नाट्यसाहित्ये महाकविः भासः अन्यतमं स्थानं धत्त्ते । भासस्य स्थिति काल विषये पण्डिताः संप्रत्यऽपि न्यैकमत्यं भजन्ते । कअलिदासात् पूर्व भासस्य नाट्य ग्रन्थाः एवाध्य लभ्यन्ते । १)”प्रथित यशसा भास शैमिल्लकविपुत्रादितां” इत्यादिके वाक्ये कालिदास द्वारा महाकविः स्वसम्मानं सस्मार इति कालिदासात् पूर्ववर्ति आसीत् भासः इति निश्चियते । २)केचन भासस्य कालं १०० ई.पू. मानयन्ति । ३)प्रो. वर्णट भासं इसवियस्य सप्मत शताद्बेयां स्तितिं स्वीकरोति । ४)स्टेनकेनो महोदयः विन्टर नित्स भासं इसवियस्य द्वितीयचतुर्थ शताद्बयोरन्तराले स्थितिं स्वीकृतः । ५) केचित् मुदयन समकालिकं मन्यते । परे तु तं विक्रम समकालिन मन्ये तं श्रीहर्ष समकालिनमपि मन्यन्ते । तैः राज शेखरस्य

             “कारणम् तु कवित्वस्य न संपन्न कूलिनता ।
       धावक्वपि हि यद्भासः कवीनां अग्रिमो अभवत् “॥  

६) भासं तु श्रीहर्ष सैव सभाकवि वाणभट्टः ।

               “सुत्रधारकृतारमभैनाटकैर्वहुभूमिकैः
                              सपताकैर्यशो लेभे भासो देवकूलैरिव” ॥

७) समुद्रगुप्तो हि स्वकिये कृष्णचरिते मुनिकविवर्ण प्रसंगे भासं स्मरति । भासस्य अग्निवर्णसभाकवित्वं सिद्ध्यति इति ।वस्तुतस्तु भासो हि उदयन सभाकविरिति कपिलदेवस्य मतमेव युक्ति युक्तं दृश्यते । उदयनो हि बृद्धसमकालिकः तदा हि मगधेषु अजादशत्रोः पुत्रस्य दर्शनस्य शासनासीत्। केचित दर्शकं विम्बसार जेष्ठपुत्रमपि मन्यन्ते । कौटिल्यो हि चन्द्रगुप्तस्य विदुसारस्य प्रधानमात्यः तेन हि कौटिल्यस्य समय ३००-२१५ मितविक्रम पूर्वकालात् अन्तराले अनुमितः । चन्द्रगुप्तस्य समयः २७२-२४१ वि०पू० विदुसारस्य समयः २४१-२१६ वि०पू० मन्यन्ते । एभिः कारणै भासस्य प्रचिनता सिद्धा भवति । सा च प्रचिनता कालिदासात् अपि प्राचिनमितं साधयन्ति । १०० ई०पू० मितं कालः भासस्य वोधयति । भासस्य भाषितभाषाप्रयोगः भाषासौष्ठवं, सरला किन्तु सरसा शैलि रस परिपाकस्य शब्दाडम्बरशून्यता कथाप्रवाहश्च सर्वे संभूय तं हि पण्डितयुगान्नितान्तान्तपूर्ववर्तिनं सूचयति । भासस्य नाटकेषु कथानकस्य संघटनं चरित्र चित्रणं कथोपकथनं रससंयोजनं भाषा शैलि च हृदयग्रहिणि आकर्षका उपयुक्ता समीचीना विद्यते ।

     अस्मिन् नाटके श्रीकृष्ण जन्मात् आरभ्य कंसवध पर्यन्तं श्रीकृष्णस्य चरितं संग्रहितोऽस्ति । प्रथमाङ्के मंगलाचरणम् अनन्तरं रंगमञ्चे नारदस्य आगमनं ततः परं तैः निर्देशितम् –पृथीव्यां नारायणस्य अवतारः जातोऽस्ति देवकि तथा वासुदेवः उपस्थिताः भवन्ति । देवक्याः हस्ते शिशुरास्ति , नारदः परिक्रमा तथा वन्दनादि करोति – उभयोः मध्ये( देवकि-वासुदेव)वार्तालापः भवति । यत् शिशोः रक्षा स्यात् कथं भवति इति । वासुदेवः गहनान्धकारे बालकं स्वीकृत्य गच्छन्ति , यमुनायाः जलं दृष्ट्वा भिताः अभवन् तथा नारायणस्य शक्तिमाश्रित्य गतवन्तः । ते न्यग्रोध वृक्षस्य अधोभागे स्थिताः । ते चिन्तयन्तः सन्ति यत् स्वमित्रं नन्दं पार्श्वे स्वपुत्र पत्यर्पयामि तदानिमेव नन्दोऽपि मृत बालिकां स्वीकृत्य रोदने कृत्वा तथा क्षेपयितुम् आगच्छति । नन्दस्य स्वरं अभिज्ञाय वासुदेवः तं अध्याति । एतादि कथने नन्दः नागच्छति परन्तु वासुदेवस्य स्वरं श्रूत्वा आगच्छन्ति । प्रसेव वेदन्या यशोदा मुर्च्छिता अस्ति । श्वः उत्सव भविष्यति अतः मध्ये विघ्नः न भवेत् , तदर्थ सः क्षेपयितुमागतः , यशोदा तस्य विषये न जानति । वसुदेवः पुत्रनेतुम् अनुरोधः करोति ,किन्तु नन्दः कंस भयात् नाङ्गिकरोति । मित्रता कारणात् स्वीकृत्य गच्छति , तदानिमेव मृत बालिकाऽपि रोदिति , तां स्वीकृत्य यमुनापारं कृत्वा वासुदेवः ताम् अन्य देवकिप्रति ददाति । 

द्वितीयाङ्के चाण्डाल युबतय: कंसेभ्य: बदति यत् - आगच्छन्तु आगच्छन्तु । अस्माकं कन्याभिः सह विवहं कुर्वन्तु इति । पुनः ताः कन्याः अदृश्यं भवति , तदनन्तरं मधुकऋषेः पुत्रः वज्रवाहु नामक सर्पः प्रविशति । उभयोः वार्तालापमनन्तरे कंसः शयनं करोति । सर्पः तस्य शरिरे प्रविशति । राज्यश्री एवं कर्तुम् अवरोधः करोति किन्तु बिष्णोः आज्ञा इति सर्पः वदति इति शृत्वा राज्यश्री कंसस्य त्यागं कृत्वा गच्छति । तस्या त्यागेन अलक्ष्मि खलति, कालरात्रि महानिद्रा ,पिङ्गलाक्षि कंसे प्रविशन्ति । प्रातः कंसः भुकम्प तथा अविघ्नादि विषये स्व पुरोहितं पृच्छति । सः देवि विभुत्याः प्रादुर्भावस्य घोषणा करोति । कंसः सूचना प्राप्नोति वसुदेवस्य गृहे पुत्रि उत्पन्नाः । सः संदेहम् अनुभवति । वसुदेवोऽपि संकल्प-विकल्पात् पश्चात् पुत्रि जन्मस्य एव वार्ता वदति । देवकी-वसुदेवेन द्वारा पुत्र्याः हत्या विषये अनुरोधः प्रकटयन्ति । पुनः कंस शिलायां तां बालिकां क्षिपति । कंसस्य हस्तात् बालिका आकाशमार्गे उड्डयति तथा कत्यायनी रुपेण समागच्छति । कात्यायनी वृत्तान्ते वदति तथा प्रातःकालिकः घटनायाः पश्चात् कंसः शान्तिकर्म सम्पन्नर्थं शान्तिगृहं प्रति गन्तुं वदति ।

    तृतीयाङ्के बृद्धगोपालकस्य वार्तया ज्ञातं भवति यत्- नन्दगोपस्य पुत्रः उत्पन्नः । सर्वत्र हर्शोल्लास आचरन्ति , दुग्धं घृतश्च मात्रा वर्धिता , वृक्षेषु फलपुष्पाणि अधिकाः आगताः । पुतना राक्षस्या वधः कृष्णेन कृतः । एकमासस्य वयसि शकटस्य वधः कृतः । एकमास अवस्थायां घृतदधि खादितुं प्रारम्भः कृतः । यमलार्जुनस्य राक्षसस्य वधः कृतः । तालवने धेनुकस्य तथैव प्रलम्भः,केशी आदि राक्षसानां वधः कृतः । अनेन एवं ज्ञायते यत् अद्य हल्लीसक् नृत्यं भविष्यति । नानाविध रङ्गस्य वेषभूषा धारयित्वा गोपिनां सह नृत्यं करिष्यति । तदानिम् अरिष्टर्षभ राक्षसः प्रविष्टः । कृष्ण सर्वान् दूरी क्रुत्वा युद्धार्थं आगच्छति । कृष्णस्य पराक्रमः दृष्ट्वा दानवः चिन्तयति सः बालकः बिष्णुः अस्ति , तेन सह युद्धं मम मृत्यु निश्चितं भवति, या श्रेयस्करं भवति , सः युद्धे कृष्णस्य हस्तात् मृत्युं प्राप्नोति । तदानिं दामकः वदति यमुनायां कालियनागः अस्ति । कृष्णः तं निस्तेज कर्तुं निर्णयं स्वीकुर्वन्ति तथा येन गौ-ब्राह्मणानां च रक्षा अवश्यं भवितुं शक्नोति । 
     चतुर्थाङ्के इयं ज्ञातं भवति यत् कृष्णः कालिय ह्रदे प्रविष्टुं गच्छति । भयाक्रान्त गोपाङ्गनाः एवं मा करितु इति आग्रहं कुर्वन्ति । संकर्षणः वदति – कृष्णः नागस्य दमनं कृत्वा सकुशलम् आगमिष्यति । कृष्णः कालियनागस्य फर्णआरुढः भवन्ति । सर्व प्रथमं तु कालिय दर्परुपेण वार्ता करोति – अहं भवन्तं ज्वालयामीति ।ततः परं कृष्णस्य प्रभावेन शरणागतः भवति । यमुनायां निवासस्य कारणं पृच्छति कृष्णः । गरुडात् भयमिति वदति । कृष्णः वदति पादस्य चिह्नं दृष्ट्वा गरूड किमपि न करोति । कालियः सपरिवारं ततः निर्गच्छति । श्रीकृष्णः ह्रदात् आनितं पुष्पं गोपानां कृते ददाति । व्रजं कालियस्य बिषज्वालया मुक्तः कुर्वन्ति , अस्मिनैवाङ्के कंस द्वारा क्रियमाणं धनुर्यज्ञस्यापि सूचना लभ्यते , यस्मिन् कृष्णः आहूतः अस्ति ।कृष्णः अस्मिन् उत्सवे गन्तुं निर्णयं स्वीकरोति तथा कण्सस्य वधार्थं प्रतिज्ञा स्वीकरोति । 
    पञ्चमाङ्के कंस अतीप्रशन्नः अस्ति । सः धनुर्महोत्सवस्य माध्यमेन कृष्णस्य वद्धं कर्तुमिच्छति । ध्रुवसेनेन पुनः पुनः शीकृष्णस्यागमनस्य वार्ता पृच्छति । ध्रुवसेनः तं वदति – तेन रजकानां वस्त्रम् अपहृतं कुवलयापीड नामक गजस्य दन्ताः निष्कास्य तं मारितं तथा मदनिका कुव्जायाः चन्दनं स्वीकृत्य स्वशरीरे लेपीतः, कुव्जायाः कुव्जत्वम् अपहृतम् । मालाकारिभ्यः मालास्वीकृत्य तथा धनुःशालायां प्रविश्य धनुशालारक्षकः सिंहवलं मारयित्वा धनुषः भागं द्वयं कृतम् । पुनः कंसस्य सभायां प्रवेश समये कंसः चाणुर तथा मुष्टिक नामक बाहुबलिम् आहुय कृष्ण तथा बलरामेण सह युद्धं कर्तुं सन्नद्धं करोति । तेषां मध्ये मल्लयुद्धं भवति । कृष्णः चाणुरस्य तथा बलरामः मुष्टिकस्य वद्धं कुर्वन्ति । ततः परं कंसस्य कंसगृहस्य कृष्णः तं मारयति । अन्यं योद्धाः आगच्छन्ति , वसुदेवः तेभ्यः सान्त्वना ददाति । महाराजः उग्रसेनः कारागारात् मुक्तः भवन्ति तथा राज्याभिषेकः भवति । नारदः आगत्य कृष्णस्य स्तुति करोति । गन्धर्वादि अपि समागच्छन्ति , भरत वाक्येन सह नाटकं समाप्तिं याति ।