सदस्यः:ThejasN/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उस्मान हारूनी
उस्मान हारूनी जन्मस्त्नम
उस्मान हारूनी जन्मस्त्नम
उस्मान हारूनी
जन्म अबु नूर्
हारून्, ईरन्
मृत्युः बेल्चि
देशीयता ईरान्
अन्यानि नामानि अबु मन्सूर्
वृत्तिः सूफिसन्तः
कृते प्रसिद्धः सूफिः

उस्मान ​​हारूनी प्राथमिकसूफी–गुरुषु गण्यते यः भारतं दृष्टवान्। एतस्य जन्म ईरानदेशस्य हारून–नाम्नि स्थाने ११३१ ऐशवीये वर्षे सम्भाव्यते। एष चिश्ती–सूफी–सम्प्रदायस्य चतुर्दशस्य आचार्यस्य शरीफ जन्दानी–त्यस्य शिष्य उत्तराधिकारी चासीत्। गुरोः निदेशेऽनेन ३० वर्षाणि स्थितम्। अजमेरस्थः प्रसिद्धः मुईनुद्दीन चिश्ती उस्मानस्यैव प्रत्यक्षशिष्यः आसीत्। बाल्ये एव हारूनी कञ्चित् चिर्क–नामानं सन्तं दृष्ट्वा जागतिकभोगेभ्य उदासीनः सन् प्रत्यग्दृष्टिरजायत। मुस्लिमविश्वस्य भ्रमणं कुर्वाणोऽसौ सुलतान–अल्तमिशस्य शासनकाले भारतमप्यागतः। परमेश्वरीयप्रेम्णः उपदेष्टा हारूनी १२२० वर्षे दिवं जगाम। अधुनापि अस्य विभिन्नवर्गैः सम्बद्धा भक्ताः एतस्मात् सतः विविधेषु प्रसङ्गेषु साहाय्यं वाञ्छन्ति।

तत्सन्दृब्धं प्रस्तुतमिदं गजलकाव्यं भारत–पाकिस्तान–अफगानिस्तानादि–पारसीकवित्सु देशेषु अत्यन्तं प्रसिद्धम्। सूफीमठेषु अद्यापि कव्वालीगायका एतत् दिव्योन्मादप्रदं भावपूर्णं च काव्यं सरुचि प्रस्तुवन्ति ।

can't use in sandboxहिन्दुस्थानिसङ्गीतगायकाः]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxसंस्कृतिसम्बद्धाः स्टब्स्]]