सदस्यः:TsSushruta/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Consumer Access
                                                        वैदेहिकरक्षणम्
        सम्स्थाध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणविशुद्धानामाधानं विरयं वा स्थापयेत्। तुमामानभाण्डानि चावेक्षेत् पोतवापचारात्। परिनमाणीद्रोणयोरर्धपलहीनातिरिक्तमदोषः।
        पलहीनातिरिक्ते द्वादशपणो दण्डः। तेन पलोत्तरा दण्डवृद्धिर्व्याख्याता। तुलायाः कर्षहीनातिरिक्तं अदोपः। द्विकर्षिहीनातिरिक्ते षट्पणो दण्ड्ः। तेन कर्षोत्तरा दण्डवृद्धिर्व्याख्याता। 
        आढकस्यार्धकषहीनातिरिक्तमदोषः। कषहीनातिरिक्ते त्रिपणो दण्ड्ः। तेन कर्षोत्तरा दण्डवृद्धिर्व्याख्याता। तुलामानविशेषाणामतोसSन्येषामनुमानं कुर्यात्।
        तुलामानाभ्यामतिरिक्ताभ्यां क्रीत्वा हीनाब्याम् विक्रीणानस्य त एव द्विगुणा दण्डाः। गण्यपण्येष्वष्टभागं पण्यमूलेष्वपहरतः पण्णवतिर्दण्डः। 
        काष्ठलोहमणिमयं रज्जुचर्ममृण्मयं सूत्रवल्करोममयं वा जात्यमित्यजात्यं विक्रयादानं नयतो मूल्याष्ट्गुणो दण्डः। सारभाण्डमित्यसारभाण्डं तज्जातमित्यज्जातं
        राढायुक्तमुपधियुक्तं समुद्गपरिवर्तिमं वा विक्रयाधानं नयतो हीनमूल्यं चतुःपञ्चाषत्पणो दण्डः, पणमूल्यं स्विगुणमूलयं द्विशतः। तेनार्घवृद्धौ  दण्डवृद्धिर्व्याख्याता।
        कारुशिल्पनां कर्मगुणापकर्षमाजीवं विक्रयक्रयोपधातं वा संभूय समुत्थापयतां सहस्रं दण्डः। वैदेहकानां वा संभूय पणयमवरुन्धतमनर्धेन विक्रीणतां वा सहस्रं दण्दः।
        तुलामानान्तरमर्धवर्णान्तरं वा--धरकस्य मायकस्य वा पण्यमूल्यादष्टभागं हस्तदोषेणाचरतो द्विशतो दण्डः। तेन द्विशतोत्तरा दण्डवृद्धिर्व्याख्याता। 
        धान्यस्नेहक्षारमवणगन्धभैषज्यद्रव्याणां समवर्णोपधाने द्वादशपणो दण्डः। यन्निसृष्टमुपजीवेयुस्तदेषां दिवससंजातं संख्याय वणिक् स्थापयेत्।
        क्रेतृविक्रेत्रोरन्तरपतितमादायादन्यद्भवति। तेन धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः। अन्यथाSनिचितमेषां पण्याध्यक्षो गृहीयात्। तेन धान्यपण्यविकये व्यवहरेतानुग्रहेण प्रजानाम्।
        अनुज्ञातक्रयादुपरि चैषां स्वदेशीयानां पण्यानाई पञ्चकं शतमाजीवं स्थापयेत्, परदेशीयानां दशकम्। ततः परमर्घं वर्धयतां क्रये विक्रये वा भावयतां पणशते पञ्चपणाद् 
        द्विशतो दण्डः। तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता।
        संभूयक्रये चैषामविक्रीते नान्यं संभूयक्रयम् दद्यात्। पण्योपघाते चैषामनुग्रहं कुर्यात्। पणयबाहुम्यात्पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत। तेष्वविक्रीतेषु
        नान्ये विक्रीणीरन्। तानि दिवसवेतनेन विक्रीणीरन् अनुग्रहेण प्रजानाम्।

https://en.wikipedia.org/wiki/Consumer_protection

http://ncdrc.nic.in/bare_acts/Consumer%20Protection%20Act-1986.html