सामग्री पर जाएँ

सदस्यः:Udit Sharma/प्रयोगपृष्ठम्/28

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मदनलाल ढीङ्गरा भारतस्य प्रमुखक्रान्तिकारीषु अन्यतमः आसीत् । तेन भारतस्य स्वातन्त्र्यान्दोलने स्वस्य महत्त्वपूर्णं योगदानं प्रदत्तम् आसीत् ।

ई. स. १८८७ तमस्य वर्षस्य फरवरी-मासस्य अष्टादश (१८-०२-१८८७) दिनाङ्के मदनलाल ढीङ्गरा इत्यस्य जन्म भारतस्य पञ्जाब-राज्यस्य अमृतसर-नगरे अभवत् । अस्य जन्मवर्षविषये विवादाः सन्ति । बहवः लेखकाः कथयन्ति यत् – “मदनलाल ढीङ्गरा” इत्यस्य जन्मवर्षं ई. स. १८८७ नोचितम् । तस्मिन् समये ‘द ट्रिब्यून्’ इत्येतस्य समाचारपत्रस्य प्रकाशनं भवति स्म । तस्मिन् समाचारपत्रस्य जुलाई-मासस्य तृतीयस्य दिनाङ्कस्य संस्करणे लिखितम् आसीत् यत् – “मदनलाल ढीङ्गरा” द्वाविंशतिवर्षदेशीयः अस्ति । अतः अस्याधारेण बहुभिः इतिहासकारैः तस्य जन्मवर्षं ई. स. १८८७ इति निर्धारितम् । किन्तु तत्वर्षं सत्यं नास्ति । ‘द टाइम्स्’ इत्येतत् अपि तत्कालीनं समाचारपत्रं तस्मिन्समये प्रकाश्यते स्म । तस्मिन् समाचारपत्रे लण्डन्-नगरस्य “ट्रायल् कोर्ट् प्रोसीडिङ्ग्स्” इत्यस्मिन् लिखितम् आसीत् यत् - “मदनलाल ढीङ्गरा इत्याख्यः पञ्चविंशतिवर्षदेशीयः अस्ति । सः पञ्जाब-राज्यस्य निवासी अस्ति । सः इञ्जीनियर इत्यस्य उपाधेः महाविद्याद्यालस्य विद्यार्थी आसीत् । सः लैडबरी-मार्गे निवसति स्म ।१९०९ तमे वर्षे जुलाई-मासस्य द्वितीये दिनाङ्के रात्रौ होरेस् स्मिथ् इत्याख्यस्य न्यायालये “मदनलाल ढीङ्गरा” इत्याख्यः आनीतः । बन्दिना पञ्चविंशतिवर्षदेशीयः वयः उक्तः” इति । अतः अनेन लेखानुसारं तस्य जन्मवर्षम् ई. स. १८८३ वा ई. स. १८८४ भवितव्यम् । तत्कालीनेन “केसरसिंह” इत्याख्येन उपन्यासकारेण स्वस्य उपन्यासे मदनलाल ढीङ्गरा इत्याख्यस्य जन्मवर्षं ई. स. १८८३ इति लिखितम् अस्ति । तस्य जन्मवर्षस्य प्रमाणाय केसरसिंहेन उपन्यासस्य प्रारम्भे एव “मदनलाल ढीङ्गरा” इत्याख्यस्य पितृणा दित्तामलेन लिखितं पत्रं प्रकाशितम् । तस्मिन् पत्रे दित्तामलेन लिखितम् आसीत् यत् – “मम सप्तमः पुत्रस्य मदनलालस्य जन्म ई. स. १८८३ तमस्य् वर्षस्य फरवरी-मासस्य अष्टादश (१८-०२-१८८३) दिनाङ्के प्रातःकाले सपादत्रिवादने अमृतसर-नगरे अभवत्” । इङ्ग्लैण्ड्-देशस्य कारावासे मदनलालस्य जन्मद्विषयकं किमपि प्रमाणं नास्ति । किन्तु तस्य मृत्युप्रमाणपत्रे लिखितम् अस्ति ई. स. १९०९ तमे वर्षे मदनलालः पञ्चविंशतिवर्षदेशीयः आसीत् । यदि अस्माभिः इदं प्रमाणं स्वीक्रियते, तर्हि तस्य जन्म ई. स. १८८३ वा १८८४ तमे वर्षे भवितव्यम् ।

परिवारः

[सम्पादयतु]

मदनलालस्य ढीङ्गरा इत्याख्यस्य बृहत्परिवारः आसीत् । ढीङ्गरा-परिवारः इति नाम्ना अमृतसर-नगरे प्रसिद्धम् आसीत् । ढीङ्गरा-परिवारस्य जनाः पञ्जाब-राज्यस्य सरगोधा-मण्डलस्य साहिवाल-ग्रामस्य निवासिनः आसन् । समयान्तरे ई. स. १८५० तमे वर्षे ते सर्वे निवासाय अमृतसर-नगरं प्राप्तवन्तः । मदनलालस्य पितुः नाम दित्तामल आसीत् । दित्तामलेन ई. स. १८६७ तमे वर्षे चिकित्साकीयविद्यालयस्य नेत्रचिकित्सकस्य उपाधिः प्राप्ता । अनन्तरं दित्तामलेन वैयक्तिकचिकित्साकेन्द्रं स्थापितुं स्वीकृतिः प्राप्ता । तेन नेत्रचिकित्साकेन्द्रं स्थापितम् । किञ्चित्समयं यावत् सः गुरदासपुरे चिकित्साधिकारी आसीत् । तदनन्तरं तेन होशियारपुरे शासकीयचिकित्सकत्वेन अपि कार्यं कृतम् । तेन कारणेन समाजे दित्तामलस्य प्रतिष्ठा वर्धिता । तस्मिन् समये डनलप् स्मिथ्, कर्जन् वायली च जिलाधीशौ आस्ताम् । ताभ्यां सह दित्तामलस्य मित्रता अभवत् । तौ ब्रिटिशाधिकारिणौ आस्ताम् अतः मित्रतया प्रभावितस्य दित्तामलस्य वस्त्रे, व्यवहारे च वैदेशिकत्वं दृश्यते स्म । दित्तामलेन त्रिंशत्वर्षाणि यावत् शासकीयाधिकारीत्वेन कार्यं कृतम् । अन्ते तेन निवृत्तिः प्राप्ता । तेन जम्मु-प्रान्तस्य राज्ञः प्रतापसिंहस्य वैयक्तिकचिकित्सकत्वेन अपि कार्यं कृतम् । तस्य सेवाभिः, कार्यैः च प्रसन्नः ब्रिटिश्-सर्वकारः दित्तामलाय “राय-साहब” इति सम्माननम् अदीयत । निवृत्त्यनन्तरं दित्तामलेन अमृतसर-नगरे स्वाभ्यासः आरब्धः । तस्मिन् अपि सः सफलः अभूत् । अनन्तरं तेन अमृतसर-नगरे बहूनि गृहाणि क्रीतानि, निर्मापितानि च । अमृतसर-नगरे स्थितस्य वन्देमातरम्-सभास्थलस्य समीपं ढीङ्गरा-परिवारस्य गृहाणां पङ्क्तिः आसीत् । तेषु वन्देमातरम्-सभागृहस्य समीपं ढीङ्गरा-भवनं-नामकं भवनम् स्थितम् आसीत् । दित्तामलस्य एका पुत्री, सप्तपुत्राः च आसन् । पुत्र्याः नाम काकीरानी आसीत् । सा अष्टसु सन्ततीषु ज्येष्ठतमा आसीत् । सप्तपुत्राः – कुन्दनलालः, मोहनलालः. बिहारीलालः, चमनलालः, चुन्नीलालः, मदनलालः, भजनलालः च । साहिवाल-ग्रामस्य भूपतिना चेतनदासेन सह काकीरानी-इत्याख्यायाः विवाहः अभवत् । किन्तु अल्पे काले एव चेतनदासस्य मृत्युः अभवत् । दित्तामलस्य ज्येष्ठतमः पुत्रः कुन्दनलालः वस्त्रव्यापारं करोति स्म । सः व्यापारार्थे विदेशम् अपि गच्छति स्म । सः प्रायः लण्डन्-नगरं गच्छति स्म । “कर्जन वायल” इत्याख्येन सह कुन्दनलालस्य गाढसम्बन्धः आसीत् । “कर्जन वायल” इत्याख्येन सह ई. स. १९०५ तमवर्षतः एव कुन्दनलालस्य पत्रव्यवहारः आसीत् । मोहनलालः लण्डन्-नगरे चिकित्सकोपाधिः प्राप्ता । सः अमृतसर-नगरे स्वास्थ्याधिकारित्वेन कार्यं कृतवान् आसीत् । समयान्तरे सः जम्मू-नगरं गतवान् । तत्र तेन मुख्यचिकित्साधिकारित्वेन कार्यं कृतम् । तेन ओषधिविषयकानि पुस्तकानि अपि लिखितानि । तानि पुस्तकानि जनेषु लोकप्रियानि जातानि । समयान्तरे सः विदेशं गतवान् । फ्रान्स्-देशे तस्य मृत्युः अभवत् । “डनलप् स्मिथ्” इत्याख्येन स्वपत्रे लिखितं यत् – “सः ग्वालियर-नगरे मोहनलालं मिलितवान् आसीत् । मोहनलालेन अमृतसर-नगरस्य स्थितिसमीकरणाय बहूनि कार्याणि कृतानि” । ढीङ्गरा-परिवारेण सह “डनलप् स्मिथ्” इत्याख्यस्य सामीप्यस्य प्रमाणम् अस्ति इदं पत्रम् । बिहारिलालः अपि लण्डन्-नगरे चिकित्सकाध्ययनं कृतवान् । तदनन्तरं सः पुनः भारतं प्राप्तवान् । जींद-नगरे चिकित्साधिकारीत्वेन कार्यरतः आसीत् । तदनन्तरं तेन राज्यस्य मुख्यमन्त्रीत्वेन अपि कार्यं कृतम् आसीत् । यदा सः निवृत्तः अभवत्, तदा सः लण्डन्-नगरं गतवान् । तत्रैव तस्य मृत्युः अभवत् । आङ्ग्लसर्वकारेण सः “नाइटहुड्” इत्युपाधिना सम्मानितः । इतः परं तस्मै सी. आई. ई., ओ. बी. ई., केसरे-हिन्द इत्यादयः उपाधयः अपि प्रदत्ताः । चमनलाल लण्डन्-नगरे अधिवक्तुः अध्ययनं कुर्वन् आसीत् । अध्ययनं समाप्य सः तत्कालीनस्य पञ्जाब-राज्यस्य लाहौर-नगरे उच्चन्यायालयस्य अधिकारीत्वेन कार्यरतः आसीत् । तदनन्तरं तेन पटियाला-राजशासने न्यायिकाधिकारीत्वेन कार्यं कृतम् आसीत् । तत्र सः उपाङ्गरोगेण (Appendix) ग्रस्तः आसीत् । रोगस्य निवारणार्थं कृतशल्यप्रक्रियान्तराले चमनलालस्य मृत्युः अभवत् । तदा एकस्यां अग्निगोलकदुर्घटनायां आङ्ग्लाधिवक्तुः पत्नी मृता आसीत्, तदा चमनलालेन “सिविल् एण्ड् मिलिट्रि गजट्” इत्येतस्मिन् समाचारपत्रे तस्याः घटनायाः निन्दा कृता आसीत् । सः भारते आङ्ग्लशासनम् इच्छति स्म । सः कथयति स्म यत् – “भारतीयाः सौभाग्यवन्तः सन्ति । यतः ते आङ्ग्लशासनाधीनाः सन्ति । आङ्ग्लशासनेन एव भारतीयाः सांस्कृतिकं, मानसिकं, नैतिकं, भातिकं च ज्ञानं प्राप्ताः । आङ्ग्लसर्वकारस्य सुरक्षया एव भारतीयाः स्वस्य कार्याणि कुर्वन्ति स्म” । तत्काले ढीङ्गरा-परिवारः जनाः आङ्ग्लसर्वकारस्य प्रशंसां कुर्वन्ति स्म । यतः आङ्ग्लसर्वकारस्य साहाय्येन तस्मिन् समये ढीङ्गरापरिवारः सफलतां प्राप्तवान् आसीत् । दित्तामलस्य सर्वे पुत्राः उच्चपदे कार्यरताः आसन् । ढीङ्गरा-परिवारः आदर्शपरिवारत्वेन ज्ञायते स्म । भजनलालः सप्तसु पुत्रेषु कनिष्ठतमः आसीत् । सः अपि अधिवक्तुः अध्ययनं कृत्वा भारतं प्रत्यागतवान् आसीत् । अमृतसर-नगरे तेन किञ्चित्कालं यावत् कार्यं कृतम् आसीत् । अनन्तरं लहौर-नगरस्य न्यायालये अभ्यासः आरब्धः ।

शिक्षणम्

[सम्पादयतु]

मदनलालः सर्वेषु भ्रातृषु भिन्नः आसीत् । शिक्षणे तस्य रूचिः एव नासीत् । तेन मिशन्-उच्चतर-माध्यमिक-विद्यालये दशमी कक्षा उत्तीर्णा । अनन्तरम् सः अमृतसर-नगरस्य म्युनिसिपल्-महाविद्यालये एफ्. एस्. सी. अधीतवान् । तदनन्तरं दित्तामलः लाहौर-नगरस्य सर्वकारीये महाविद्यालये तस्य प्रवेशं कारितवान् । तस्मिन् समये लाहौर-नगरम् उत्तरभारतस्य मुख्यशिक्षणकेन्द्रम् आसीत् । दित्तामलेन मदनलालस्य निवासाय व्यवस्था अपि कारिता । किन्तु समयान्तरे मदनलालः राजनैतिकगतिविधिषु संलग्नः अभवत् । पुत्रस्य राजनैतिकगतिविधिविषयकं समाचारं प्राप्य दित्तामलेन मदनलालः पुनः अमृतसर-नगरम् आवाहितः । “कथं मदनलालः लाहौर-नगरस्य महाविद्यालयात् निष्कासितः ?” इति प्रश्नः जायते । किन्तु अस्य प्रश्नस्य प्रमाणीकृतम् उत्तरं न प्राप्यते । लेखकानामपि भिन्न-भिन्नमताः सन्ति । केसरसिंहः कथयति यत् – “दित्तामलेन स्वस्य उच्चपदस्य उपयोगेन मदनलालस्य प्रवेशं कारितम् आसीत् । तत्कार्यं मदनलालः नेच्छति स्म । अतः तेन किञ्चित्समयान्तरे महाविद्यालयं त्यक्तम् आसीत् । किन्तु तस्य किं कारणम् आसीत् ? इति कोऽपि न जानाति” । प्रीतम सैनी इत्याख्येन लिखितम् आसीत् यत् – “मदनलालस्य राजनैतिकगतिविधीनां कारणात् महाविद्यालयात् सः निष्कासितः । राजनीतिक्षेत्रे तस्य अभिरूचिः आसीत् । तेन कस्यचिद् मजदूर-सङ्घस्य सदस्यता प्राप्ता आसीत् । कदाचित् अनेन कारणेन सर्वकारीयमहाविद्यालयेन सः निष्कासितः । किन्तु दित्तामलः तां निष्कासनप्रक्रिया अवरोधितुं शक्नोति स्म । किन्तु सः जानाति स्म यत् – “मदनलालस्य स्वभावः हठी अस्ति” । अतः दित्तामलः अपि मदनलालं गृहं नीतवान् ।

राजनीतौ अभिरूचिः

[सम्पादयतु]

यदा सः महाविद्यालये पठन् आसीत्, तस्मात् कालादेव राजनीतिक्षेत्रे तस्याभिरूचिः आसीत् । यथा भगतसिंहः, ऊधमसिंहः, राजगुरुः, सुखदेवः, सावरकरः, बन्धुः इत्यादयः क्रान्तिकारिणः लघुवयसि एव स्वातन्त्र्यान्दोलने संलग्नाः अभवन्, तथैव मदनलालः अपि लघुवयसि एव राजनीतिक्षेत्रं प्राविशत् । ई. स. १९०० तः ई. स. १९०६ तमवर्षपर्यन्तं पञ्जाब-राज्यस्य स्थितिः गभीरा आसीत् । ई. स. १९०४ तमे “लॉर्ड् कर्जन्” इत्याख्यः बङ्गाल-प्रान्तस्य वायसरायत्वेन निर्वाचितः । किन्तु तेन भारतस्य राजनीतिव्यवस्था जर्जरीकृता । तेन ई. स. १९०५ तमे वर्षे हिन्दु-मुस्लिमाधारेण बङ्गाल-प्रान्तस्य विभाजनस्य घोषणा कृता । किन्तु जनैः सर्वकारस्य निर्णयस्य विरोधः कृतः । लॉर्ड्-कर्जन् इत्याख्यस्य मनसि सत्तायाः, पदस्य च अभिमानः आसीत् । अतः सः स्वस्य इच्छानुसारम् एव निर्णयङ्करोति स्म । हिन्दु-मुस्लिमजनानाम् एकतां भङ्गीकर्तुं प्रयासः आसीत् अयं निर्णयः । यतः बङ्गाल-प्रान्तस्य महती जनसङ्ख्या आसीत् । तेन कारणेन आङ्ग्लसर्वकारस्य आयोजने, प्रबन्धने च विघ्नाः समुद्भवन्ति स्म । अतः आङ्ग्लसर्वकारेण अयं निर्णयः कृतः । आङ्ग्लसर्वकारस्य नीतेः मुख्यप्रयोजनम् आसीत् यत् – “विभक्तव्यं, शासितव्यं च” । अतः बङ्गाल-प्रान्तस्य विभाजनं कृत्वा आङ्ग्लसर्वकारस्य निर्णयः सफलः अभवत् । किन्तु विभाजनस्य सन्देशं प्राप्य बङ्गाल-प्रान्तस्य जनेषु मनसि आङ्ग्लसर्वकारं प्रति द्वेषभावना उद्भूता । तथापि हिन्दु-मुस्लिमजनाः आङ्ग्लसर्वकारस्य विरोधं कुर्वन्तः आसन् । अस्मिन् आन्दोलने बहवः क्रान्तिकारिणः तत्पराः आसन् । तेषु लाला लाजपतराय, सुरेन्द्रनाथ बनर्जी इत्यादयः क्रान्तिकारीसमूहानां मुख्यत्वेन कार्यस्य दायित्वं सम्भजन्ति स्म । आन्दोलने जनानां सङ्ख्या वर्धिन्ती आसीत् । सर्वकारः न जानाति स्म यत् – “बङ्गालविभाजनस्य निर्णयेन जनाः विरोधं करिष्यन्ति, आन्दोलनं करिष्यन्ति” । सर्वकारः जनसमूहान् दृष्ट्वा भयभीतः जातः । “महाविद्यालयस्य छात्राः आन्दोलने संलग्नाः मा भवेयुः” इति विचिन्त्य सर्वकारेण एकः आदेशः प्रदत्तः । तदा मदनलालः लाहौर-नगरे पठन् आसीत् । तस्मिन् समये लाहौर-नगरं आन्दोलनस्य मुख्यकेन्द्रत्वेन आसीत् । तत्कालीनाः सर्वे युवानः आन्दोलनात् प्रभाविताः आसन् । मदनलालः अपि तेषु युवासु अन्यतमः आसीत् । अतः सः अपि आन्दोलनस्य कार्यक्रमेषु भागं गृहीतवान् । आङ्ग्लसर्वकारः तादृशाः क्रान्तिकारिणः अन्वेषयति स्म । मदनलालः अस्मिन् क्षेत्रे नूतनः आसीत् । तथापि स्वकार्यैः सः प्रकाशितः जातः । अतः सः महाविद्यालयात् निष्कासितः । मदनलालस्य एतादृशेन कार्येण दित्तामलस्य सम्माने ह्रासः अभवत् । दित्तामलः विचारितवान् यत् – “यदि मदनलालः लाहौर-नगरस्य वातावरणात् परे निवसेत्, तर्हि तस्य उद्धारः भविष्यति । अतः दित्तामलेन मदनलालः व्यापारार्थं प्रेरितः । किन्तु दित्तामलस्य असफलः प्रयासः आसीत् ।

स्वभावः, गृहत्यागश्च

[सम्पादयतु]

व्यापारात्, दित्तामलस्य क्रोधाद्वा अपि मदनलालस्य स्वभावे परिवर्तनं नाभवत् । तस्य स्वभावः अन्तर्मुखी आसीत् । अतः “तस्य मनसि किं प्रचलति” इति कोऽपि न ज्ञातुं शक्नोति । सः यच्चिन्तयति, तत्करोति एव । यद्यपि तस्य परिवारः बृहद् आसीत्, तथापि सः तत्र कारावासम् इव अनुभवति स्म । अतः सः गृहं त्यक्तुं विचारितवान् । एकदा सः सूचनया विना एव गृहं त्यक्तवान् । अस्य गृहत्यागप्रसङ्गस्य विषये कोऽपि न जानाति । किन्तु तत्कालीनानां लेखकानुसारं ज्ञायते यत् – “मदनलालः सर्वप्रथमः काश्मीर-नगरं गतवान् । तत्र तेन लिपिकपदे कार्यं कृतम् । षण्मासेभ्यः परं सः शिमला-नगरं गतवान् । तत्र सः कस्यचित् सम्बन्धिनः कालका-शिमला-अश्वयानसेवायां वृत्तिम् अकरोत् । तत्र सः मातुः स्वास्थ्यविषयकं सन्देशं प्राप्तवान् । अतः सः ततः अपि वृत्तिं त्यक्त्वा निर्गतवान्, गृहं प्रत्यागतवान् च । किञ्चित्समयानन्तरं सः पुनः गृहं त्यक्तवान् । तेन जलयाने नौसेनिकत्वेन वृत्तिं प्रापत् । वृत्तेः आयोजनेन सः श्रीलङ्का-देशं गतवान् । दित्तामलेन लिखिते एकस्मिन् पत्रे प्रमाणीक्रियते यत् – “मदनलालेन सन्देशं प्रेष्य रूप्यकाणि आनीतानि आसन्” । केचन मासानन्तरं सः तद्वृत्तिम् अपि त्यक्त्वान् आसीत् । मदनलालः ततः पुनः भारत-देशं आगतवान् । समयान्तरे सः लण्डन्-नगरं गतवान् ।