सदस्यः:Yerram Naveen Reddy 1930976
अन्ध्रसाम्राज्यस्य इतिहासः
अन्ध्रसाम्राज्यस्य उल्लेखाः ऐतरेयब्राह्मणे, महाभारते तथा संस्कृतमहाकाव्येषु च लभ्यन्ते। आन्ध्रीयाणां विवरणं भरतस्य नाट्यशास्त्रेऽपि लभ्यते। ’भट्टिप्रोलुप्रदेशे’ लब्धेषु शिलाभिलेखेषु तेलगुभाषायाः मूलं प्राप्तमस्ति। चन्द्रगुप्तमौर्यस्य शासनकाले आस्थानाय “मेगस्तनीस्” आगतवान् आसीत्। सः एवम् उल्लिखति, दुर्गैः नगराणि आवृतानि आसन् । एवं १००,००० सैनिकाः, २०० अश्वदलः, १,००० गजाः आन्ध्रप्रदेशस्य साम्राज्ये एते आसन् इति। अस्मिन् समये गोदावरीतटस्य विशालप्रदेशे आन्ध्रप्रदेशस्य साम्राज्यं स्थापितमासीदिति ’बौद्धग्रन्थेषु’ दृश्यते। १३ तमे शिलाभिलेखे आन्ध्रीयाः मम सामन्ताः आसन् इति आशोकः उल्लिखति। शिलाभिलेखानाम् आधारेण आन्ध्रस्य करावळिप्रदेशे साम्राज्यमेकम् आसीत् इति ज्ञातमस्ति। एतस्य साम्राज्यस्य शासकः ’कुबेरकः’ आसीत्। साम्राज्यस्य राजधानी प्रतिपालपुरम् (भट्टिप्रोलु) आसीत्। प्रायः इदं साम्राज्यं भारतस्य प्राचीनम् एवं प्रसिद्धञ्च स्यात् इति। अस्मिन् समये ’धरणिकोटम्’ (अमरावती) इति मुख्यं स्थलम् आसीत् इति। अत्र गौतमबुद्धः आगतवान् आसीत्। १४ तमे शतमाने आन्ध्रप्रदेशपर्यन्तं मौर्याः स्वसाम्राज्यस्य विस्तारं कृतवन्तः। मौर्यसाम्राज्यस्य अवपातानन्तरं शातवाहनाः स्वतन्त्राः सञ्जाताः। शातवाहनसाम्राज्यस्य अवपातानन्तरम् इक्ष्वाकुशासकाः, पल्लवाः, आनन्दगोत्रिकाः, विष्णुकोन्दिनाः, पूर्वस्य चालुक्याः, चोळाः आन्ध्रप्रदेशं क्रमेण शासितवन्तः। पल्नाडुयुद्धात् पूर्वचालुक्यानां शक्तिः क्षीणा जाता। अनेन परिणामेन काकतीयाः प्रवर्धमानाः सञ्जाताः। देहली सुल्तानः ’फियाजुद्दीन् तुघलक्’ बृहत्सैन्यसहितस्य ’उलुघ् खानस्य’ नायकत्वे आन्ध्रप्रदेशम् आक्रान्तुं स्वसैन्यं प्रेशितवान् आसीत्। ’प्रतापरुद्रं’ युद्धबन्दित्वेन नीतवन्तः। १३२६ तमे संवत्सरे देहली सुल्तानेभ्यः मुसुनूरि नायकाः वाराङ्गल् प्रदेशं आक्रान्ताः। इतः ५० वर्षाणि एते शासितवन्तः। अनया प्रेरणया भारतस्य सुप्रसिद्धस्य विजयनगरसाम्राज्यस्य स्थापनम् अबूत् इति। येच काकतीयसाम्राज्यस्य वित्ताधिकारिणौ हरिहरस्य हक्कबुक्कौ एतस्य साम्राज्यस्य संस्थापकौ।“अल्लावुद्दीन् हसन् गङ्गु”इति शासकः देहली सुल्तानानां विरुद्धं युद्धं कृत्वा, बहुमनि इति स्वतन्त्रसाम्राज्यं दक्षिणभारते स्थापितवान्। १६ तम शतमानादरभ्य १७ तम शतमानपर्यन्तं अर्थात्, प्रायः २००शतं वर्षाणि यावत्.