सदस्यसम्भाषणम्:1910182NIKITHA.P/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पण्डिता रमबाई[सम्पादयतु]

Pandita Ramabai Sarasvati 1858-1922 front-page-portrait

रमबाई संस्कृतवैदुष्येण "पण्डिता" "सरस्वती" इति उपाधिभ्यां विभूषिता | सा १८५८ तमे वर्षे जन्म अलभत् | तस्या: पिता अनन्तशस्त्री माता लक्ष्मी बाई आस्तां | तस्मिन् काले स्त्रीशिक्षाया: स्थितिः चिन्तनीया आसीत | स्त्रीणां कृते संस्कृतशिक्षणां प्राय: प्रचलितं नासीत | किन्तु पण्डित: अनन्तशस्त्री रुदिबध्दां धारणां परित्यज्य स्वपात्निं संस्कृतमध्यापयत् | एतदर्थं रमाया: पिता समाजस्य प्रतारणां अपि असहत् | अनन्तरं रमा अपि स्वमातु: संस्कृतशिक्षां प्राप्तवती |

कालक्रमेण रमाया: पिता विपन्न: सञ्जात: | तस्याः पितरौ ज्येष्टा भगिनी च दुर्भिक्षपीडिता: दिवङ्गताः | तदनन्तरम् रमा स्व- ज्येष्टभ्रात्रा सह पद्भ्यां समग्रे भरते भ्रमणं कुर्वती कोलकातां प्राप्ता | तत्र सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनं अकरोत् | पश्यात् सा बालिकानां स्त्रीणां च कृते संस्कृतस्य वेदशास्त्रदिकस्य च शिक्षायै आनन्दोलनं प्रारब्धवती | १८८० तमे वर्षे सा विपिनबिहारीदासेन सह न्यायालये विवाहं अकरोत् | तदनन्तरम् सा पुत्र्या मनोरमया सह महाराष्ट्रं प्रत्यागच्चत् | नारीणां समुचिनसम्मानाय शिक्षायै च सा स्वकीयम् जीवनम् अर्पितवती | सर्वकारेण संघटिते उच्चशिक्षा- आयोगे रमबाई नारीशिक्षाविशये स्वमतं प्रस्तुतवती | सा उच्चशिक्षारथं ईङ्ग्लन्देशं गतवति | तत्र ईसाईधर्मस्य स्त्रीविषयकै: उत्तमविचारैः प्रभाविता जाता |

Pandita Ramabai 1989 stamp of India

ऎङ्ग्लन्देशात् रमबाई अमेरिकादेशं अगच्छत |तत्र सा भारतस्य विधवास्त्रिणां सहायतार्थम् अर्थसञ्च्यं अकरोत् | भारतं प्रत्यागत्य मुम्बाईनगरे सा "शारदा- सदनम्" अस्थापयत् | परम् इदं सदनं पुनेनगरे स्थानान्तरितं जातम् | अस्मिन् आश्रमे निस्सहाया: स्त्रिय: निवसन्ति स्म |तत्र स्त्रियः मुद्रण- टङ्कन्- काष्टकलादीनाञ्च् प्रशिक्षनमपि लभन्ते स्म | तदनन्तरम् पुनेनगरस्य समीपे 'मुक्तिमिशन' नाम संस्थानं तया स्थापितं | अत्र अधुना अपि निराश्रिता: स्त्रिय: ससम्मानम् जीवनम् यापयन्ति |

4990010208925 - Stri Dharma Niti, Swaraswati, Ramabai, 178p, PHILOSOPHY. PSYCHOLOGY, bengali (1892)

१९२२ तमे वर्षे रमबाई महोदयाया: निधनं अभवत् |किन्तु स्त्रिशिक्षायां समाजसेवायाञ्च् तस्याः कार्यं अविस्मरणीयम् अस्ति | समाजसेवाया: अतिरिक्तं लेखनक्षेत्रे अपि तस्याः महत्त्वपूर्णं अवदानं अस्ति | ‘स्त्रीधर्मनिति' 'हाई कास्ट हिन्दु विमेन' इति तस्या: प्रसिद्धम् रचनाद्वयं वर्तते |

REFERENCE: https://sanskrit.changathi.com/
https://en.wikipedia.org/wiki/Pandita_Ramabai
https://commons.wikimedia.org/wiki/File:Pandita_Ramabai_1989_stamp_of_India.jpg