सदस्यसम्भाषणम्:2010104aprameyan

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ०३:४७, ५ सेप्टेम्बर् २०२० (UTC)[उत्तर दें]

संस्कृतवाङ्मयम्[सम्पादयतु]

The_word_संस्कृतम्_(Sanskrit)_in_Sanskrit संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥

संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥ भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥ संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥ वेदभाषा च भवति संस्कृतं सम्यक् कृतं इति संस्कृतं । इयं भाषा देववाणी इति कथ्यते । संस्कृता परिष्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता भाषा संस्कृतभाषेति निगद्यते। सर्वविधदोषशून्यत्वादियं भाषा देवभाषा, गीर्वाणगी: इत्यादिभिः शब्दैः संबोध्यते। अतोऽन्या भाषा प्राकृतभाषापदवी प्राप्ता।

Sanskrit_literature संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति ।। संस्कृतभाषाया उपयोगिता एतस्मात कारणाद् वर्तते यद एषैव सा भाषाऽस्ति यतः सर्वासा भारतीयानाम् आर्यभाषाणाम् उत्पत्तिर्बभूव । सर्वासामेतासां भाषाणाम् इयं जननी । सर्वभाषाणां । मूलरूपज्ञानाय एतस्या आवश्यकता भवति । प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत्, सर्वे जना: संस्कृतभाषाम् एव वदन्ति स्म


संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति, येषां महत्त्वमद्यापि सर्वोपरि वर्तते । वेदेषु मनुष्याणां कर्तव्याकर्तव्यस्य सम्यक्तया निर्धारणं वर्तते । वेदानां । व्याख्यानभूता ब्राह्मणग्रन्थाः सन्ति । तदनन्तरम् अध्यात्मविषयप्रतिपादिका उपनिषदः सन्ति, यासां । महिमा पाश्चात्त्यैरपि नि : संकोचं गीयते। ततश्च भारतगौरवभूताः षड्दर्शनग्रन्थाः सन्ति, ये । विश्वसाहित्येऽद्यापि सर्वमान्याः सन्ति । ततश्च श्रौतसूत्राणां गृह्यसूत्राणां धर्मसूत्राणां वेदस्य व्याख्यानभूतानां षडङ्गानां च गणना भवति।


संस्कृतभाथैव भारतस्य प्राणभूता भाषाऽस्ति । एषैव समस्तं भारतवर्षभेकसूत्रे बधाति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रचार प्रसारश्च सर्वव कर्तव्यः । Sanskrit