सदस्यसम्भाषणम्:2030601chitrar/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विद्वान् रङ्गनाथशर्मा

संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा। भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति। संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी। संस्कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत्| कालान्तरे एतस्य लेखनं ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्या आरब्धम् । अन्यरूपान्तराणि अधोनिर्दिष्टनि सन्ति -- बाङ्गलालिपिः, शारदालिपिः, तेलुगुलिपिः, तमिळलिपिः, यव-द्वीपलिपि:, कम्बोजलिपिः, कन्नडलिपिः, नेपाललिपिः, मलयाळमलिपिः, गुजरातीलिपिः, इत्यादय:। मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीनाः हस्तलिखितग्रन्थाः, अनेकासु लिपिषु लिखिताः सन्ति। अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिमाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र,मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असंख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।


भारतभूमिः बहुनां महापुरुषाणां जन्मभूमिः। अत्र जाताः बहवः अनेकेषु क्षेत्रेषु परिणताः सन्ति। तत्र संस्क्रुतक्षेत्रे अग्रगण्यः विद्वान् रङ्गनाथशर्मा। कर्णाटकेषु शिवमोग्गामण्डलं मलेनाडुसीमायाः राजधानि इति प्रसिद्धम्। तत्र सोरभनामके उपमण्डले नडहल्ली इति कश्चन ग्रामः अस्ति। तस्मिन् ग्रामे श्री तिम्मप्पवर्यः नाम कश्चन क्रुशकः आसीत्। तस्य पत्नी श्रीमती जानकम्मा। तयोः दम्पतयोः चत्वारः पुत्राः, तिस्रः पुत्र्यः च। तेषु चतुर्थः पुत्रः श्री रङ्गनाथशर्मा। एषः महाभागः "राक्षस" नामके संवत्सरे (०६ - ०४ - १९१६) वैशाखशुक्ल - पञ्चम्यां "पुनर्वसु" नक्षत्रे अजायत। कृषिः, वेदान्त:, योगः, आयुर्वेदः इत्यादिषु परिणतः श्री वेङ्कप्पवर्यः एतस्य पितृव्यः। पितृव्येण प्रेरितस्य श्री रङ्गनाथवर्यस्य प्राथमिकः विद्याभ्यासः स्वग्रामे एवाभवत्। बाल्ये एव संस्क्रुताध्ययनेन विशेषरूपेणासक्तः एषः महाव्यक्तिः "अगडि" ग्रामस्थे आनन्दवने, "केलदी" ग्रामस्थे श्री रामेश्वरक्शेत्रे च अध्ययनम् अकरोत्। महोदयस्य विद्यागुरुः श्री केशवशास्त्री, श्री नारायणशास्त्री च प्रमुखौ।

रङ्गनाथशर्मा काव्यसाहित्याध्ययनानन्तरं बेङ्गलूरुनगरे श्री चामराजेन्द्र महाविद्यालये उन्नताध्ययनस्यारम्भम् अकरोत्। महता कष्टेन आत्मविश्वासेन च अपठत्। अलङ्कार- व्याकरण - वेदान्त शास्त्रेषु "विद्वत्" पदवीं सम्पाद्य स्वाध्यायेन कन्नडपण्डितपरीक्षाम् अपि समुत्तीर्ण: अभवत्। अध्ययनानन्तरं कानिचन् वर्षाणि प्रौढशालायाम् अध्यापकः भूत्वा कार्यं निरवहत्। अष्तचत्वारिंशदधिकनवदशशत (१९४८) तमे वर्षे श्री चामराजेन्द्रसंस्क्रुत महाविद्यालये एव व्याकरणशास्त्रस्य प्राध्यापकत्वेन नियुक्तोऽभवत्। अध्यायनाध्यापेन सदा निरतः एषः महोदयः संस्कृतभाषायां कन्नडभाषायां च षष्ट्याधिकान् ग्रन्थान् अरचयत्। श्री शङ्करचरितामृतम्, कुसुमाञ्जलिः, एकचक्रम्, इत्यादयः संस्कृतग्रन्थाः। श्रीरामचन्द्रः, व्यासरहस्यम्, लौकिकन्यायः च कन्नडग्रन्थेषु प्रमुखाः। अनुवादकृतिषु श्रीमद्वाल्मीकिरामायणम्, अमरकोशः, विदुरनीतिः च्च प्रसिद्धाः ग्रन्थाः। एतस्य महानुभावस्य देशभक्तिं, राष्ट्रहितच्चिन्तनं, प्रामाणिकतां च जीवनपद्धत्यां लेखनेषु च पश्यामः।


"काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्" इति वचनस्य रङ्गनाथशर्मणस्य जीवनमेव उदाहरणम्। एते राज्योत्सव पुरस्कारः, राष्ट्रपतिपुरस्कारः महामहोपाध्यायः इत्यादिभिः प्रशस्ताभिः सम्मानिताः। षट्सप्तत्याधिकनवदशशत (१९७६) तमे वर्षे निव्रुत्तः एषः महाशयः मरपर्यन्तम् अपि अध्ययनाध्यापने प्रव्रुत्तः आसीत्।

REFERENCES 1. https://www.prekshaa.in/vidvan-n-ranganatha-sharma-childhood-study-teaching

CIA 3 PHOTO
Vidwan Ranganatha Sharma