सदस्यसम्भाषणम्:2040172ajithgowdabs/प्रयोगपृष्ठम्
विषयः योज्यताम्== गङ्गादेवी == https://commons.wikimedia.org/wiki/File:Ganga_Devi.jpg
(भारतभूमि: धर्मभूमि:, कर्मभूमि: पुण्यभूमि: इति च प्रसिद्धा) अत्र प्रतिपदं श्रेष्ठनरनारीणां जीवनगाथाभि: प्रतिध्वन्यते । केचन तपसा, केचन ज्ञानेन, पुन: केचन ग्रन्थग्रथनेन च कीर्तिमापन्ना:। न केवलं पुरुषा:, किन्तु महिला: अपि प्रचीनकलत् काव्यरचनादिश्लाघ्यकार्यं कृत्वा आचन्द्रार्कं कीर्तिमार्जयन् ।
प्राचीनकालादपि वेदान्तसाहित्यसङ्गीतनुत्यादिक्षेत्रेषु भारतीयनारीणा योगदानम् असदृशं वर्तते । तासु गार्गी, मैत्रेयी, विध्यवती इत्याद्या: ब्रह्मवादिन्य: विख्यता: । तथैव प्रचीनकाले सामान्यस्त्रिय: अपि शस्त्रेषु विचक्षणा: आसन्निति राजषेखरादीनां विधुषां ग्रन्थावलोकनात् विज्ञायते । तथा च मधुरावाणि-विज्जिक-गङ्गादेवी, तिरुमलाम्बाप्रभृतीनां काव्यानि पूर्णरूपेण समुपमब्धानि । सुरसरस्वत्या: सेवानिरतासु एतासु महिलासु कर्नाटकप्रदेशीय गङ्गादेवी रत्नप्राया विराजते ।
भारतीयेतिहासे सुसमृद्धं वैभवोपेतञ्च विजयनगरसाम्राज्यम् । तत्र बहव: राजान: स्वयं काव्यज्ञा: कवीनाम् आश्रयदातार: च अभवन् । तेषु सङ्गमवम्शीय: राजा बुक्कोऽपि अन्यतम: । एष: कवीनां पोषक: आसीत् । अस्य पुत्र: वीरकम्पण: । स च वीर: योद्धा आसीत् । तस्य भार्या एव गङ्गादेवी । एषा प्रतिभासम्पन्ना शीलवती च आसीत् । सा स्वचातुर्येण सरसोक्त्या पाण्डित्येन च वीरकम्पणस्य प्रीतिपात्रम अभवत् । अस्य: जन्मस्थानं, पित्रो: विषया: वा स्पष्टतया नोपलभ्यन्ते । तथापि एषा सामान्यपरिवारे सञ्जाता इति केचन विमर्षका: कथयन्ति।
एतस्या: धर्मशास्त्रे, पुराणे, वैध्यशास्त्रे, नीतिशास्त्रे, सङ्गीतशास्त्रे च परिणति: आसीत्। तस्या: पाण्डित्येन आकृष्ट: वीरकम्पण: तां भार्यात्वेन स्वीचकार । एष: वीरकम्पण: क्रि.श. षट्यधिकत्रयोदशशतकत: चतुस्सप्तत्यधिक-त्रयोदशशतकपर्यन्तं (१३६० त: १३५४) द्रविडदेशं शशास । शस्त्रविद्ययां निपुण: एष: पितु: बुक्कराजस्य आदेशानुसारं दिग्विजयाय दक्षिणदेशं प्रतस्थे । प्रथमं तुण्डीरमण्डलस्य चम्पराजं पराजितवान् तदनन्तरं मथुरानगरस्य प्रबलान् सोहम्मदीयान् पराजित्य कन्याकुमारीपर्यन्तं विजयनगरसाम्राज्यं विस्तारयामास । एतेन स: अपारं यश: अलभत । दिग्विजयकाले गङ्गादेवी अपि तेन सह आसीत् । तत: गङ्गादेवी पुन्यु: यशस: वर्णनार्थं स्मरनार्थं च मधुराविजयम् इति ऐतिहासिकं महाकाव्यम् अरचयत् ।
विजयनगरसंस्थापका: कर्णाटकप्रदेशीया: एव । अतः कर्णाटकलोनयनोत्सव पूर्णचन्द्र: इति बुक्कराजं, कर्णाटककुलप्रदीप: इति वीरकम्पणं, कर्णाटकसेना इति विजयनगरसेनां च गङ्गादेवी मधुराविजयमहाकाव्ये अवर्णयत् । अस्मिन् महाकाव्ये नव सर्गा: सन्ति । अस्य काव्यस्य शैली वैदर्भी । काव्यारम्भे सा वाल्मीकिव्यासकालिदासादीनां कवीनां स्वरणं कृतवती । मधुराविजयमहाकाव्ये कथानायकस्य कम्पनास्य बाल्यजीवनस्य यैवनावस्थाया: च घटना: मनोहरशैल्या निरूपिता:। सरलसुन्दरमधुरपदै: सम्मिलितानि सूर्योदयचान्द्रोदयषड्ऋतुजलक्रीडादीनां वर्णनानि ।
लीलेव दृष्टिवृद्धीनां शालेव सकलश्रियाम् ।
मालेव सर्वरत्नानां वेलेव सुकृताम्बुधे: ।।
इत्यादिपध्यै: कृतं विजयनगरवर्णनं विरूपाक्षदेवालयवर्णनं तुङ्गभद्रानदीवर्णनञ्च सह्रदयानां मनांसि आमोदयन्ति काव्यशोभां संवर्धयन्ति च । उपमारूपकादीनाम् अलङ्काराणां सुमधुरसंयोजनं काव्ये दृश्यते । वीररसप्रधानम् इदं महाकाव्यम् । तथापि श्रुङ्गारादय: अन्ये रसा: तत्र तत्र विलसन्ति । माधुर्यादिकाव्यगुणा: अपि शोभन्ते ।
महिलया विरचितेषु काव्येषु सम्पूर्णतया उपलब्धम् आद्यं ऐतिहासिकमहाकाव्यं मधुराविजयम् । अत्र कवयित्रया: लोकानुभव:, काव्यप्रतिभा, देशभक्ति:, राजकीयपरिज्ञानादय: गोचाराः भवन्ति । गीर्वाणवाण्याः प्राचीननवीनकाव्यशैलीनां सम्मेलनम् अत्र दृश्यते ।
इदञ्च काव्यं मधुराविजयं गङ्गादेव्या: कीर्तिम्, अस्माकम् अलैकिकम् आनन्दञ्च जनयति ।
सदस्यः:2040172ajithgowdabs/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। सदस्यः:2040172ajithgowdabs/प्रयोगपृष्ठम् में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।