सदस्यसम्भाषणम्:2040172ajithgowdabs/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Https://commons.wikimedia.org/wiki/File:Ganga Devi.jpg
सञ्चिका:Ganga Devii.png

== गङ्गादेवी == https://commons.wikimedia.org/wiki/File:Ganga_Devi.jpg

(भारतभूमि: धर्मभूमि:, कर्मभूमि: पुण्यभूमि: इति च प्रसिद्धा) अत्र प्रतिपदं श्रेष्ठनरनारीणां जीवनगाथाभि: प्रतिध्वन्यते । केचन तपसा, केचन ज्ञानेन, पुन: केचन ग्रन्थग्रथनेन च कीर्तिमापन्ना:। न केवलं पुरुषा:, किन्तु महिला: अपि प्रचीनकलत् काव्यरचनादिश्लाघ्यकार्यं कृत्वा आचन्द्रार्कं कीर्तिमार्जयन् ।

प्राचीनकालादपि वेदान्तसाहित्यसङ्गीतनुत्यादिक्षेत्रेषु भारतीयनारीणा योगदानम् असदृशं वर्तते । तासु गार्गी, मैत्रेयी, विध्यवती इत्याद्या: ब्रह्मवादिन्य: विख्यता: । तथैव प्रचीनकाले सामान्यस्त्रिय: अपि शस्त्रेषु विचक्षणा: आसन्निति राजषेखरादीनां विधुषां ग्रन्थावलोकनात् विज्ञायते । तथा च मधुरावाणि-विज्जिक-गङ्गादेवी, तिरुमलाम्बाप्रभृतीनां काव्यानि पूर्णरूपेण समुपमब्धानि । सुरसरस्वत्या: सेवानिरतासु एतासु महिलासु कर्नाटकप्रदेशीय गङ्गादेवी रत्नप्राया विराजते ।

भारतीयेतिहासे सुसमृद्धं वैभवोपेतञ्च विजयनगरसाम्राज्यम् । तत्र बहव: राजान: स्वयं काव्यज्ञा: कवीनाम् आश्रयदातार: च अभवन् । तेषु सङ्गमवम्शीय: राजा बुक्कोऽपि अन्यतम: । एष: कवीनां पोषक: आसीत् । अस्य पुत्र: वीरकम्पण: । स च वीर: योद्धा आसीत् । तस्य भार्या एव गङ्गादेवी । एषा प्रतिभासम्पन्ना शीलवती च आसीत् । सा स्वचातुर्येण सरसोक्त्या पाण्डित्येन च वीरकम्पणस्य प्रीतिपात्रम अभवत् । अस्य: जन्मस्थानं, पित्रो: विषया: वा स्पष्टतया नोपलभ्यन्ते । तथापि एषा सामान्यपरिवारे सञ्जाता इति केचन विमर्षका: कथयन्ति।

एतस्या: धर्मशास्त्रे, पुराणे, वैध्यशास्त्रे, नीतिशास्त्रे, सङ्गीतशास्त्रे च परिणति: आसीत्। तस्या: पाण्डित्येन आकृष्ट: वीरकम्पण: तां भार्यात्वेन स्वीचकार । एष: वीरकम्पण: क्रि.श. षट्यधिकत्रयोदशशतकत: चतुस्सप्तत्यधिक-त्रयोदशशतकपर्यन्तं (१३६० त: १३५४) द्रविडदेशं शशास । शस्त्रविद्ययां निपुण: एष: पितु: बुक्कराजस्य आदेशानुसारं दिग्विजयाय दक्षिणदेशं प्रतस्थे । प्रथमं तुण्डीरमण्डलस्य चम्पराजं पराजितवान् तदनन्तरं मथुरानगरस्य प्रबलान् सोहम्मदीयान् पराजित्य कन्याकुमारीपर्यन्तं विजयनगरसाम्राज्यं विस्तारयामास । एतेन स: अपारं यश: अलभत । दिग्विजयकाले गङ्गादेवी अपि तेन सह आसीत् । तत: गङ्गादेवी पुन्यु: यशस: वर्णनार्थं स्मरनार्थं च मधुराविजयम् इति ऐतिहासिकं महाकाव्यम् अरचयत् ।

विजयनगरसंस्थापका: कर्णाटकप्रदेशीया: एव । अतः कर्णाटकलोनयनोत्सव पूर्णचन्द्र: इति बुक्कराजं, कर्णाटककुलप्रदीप: इति वीरकम्पणं, कर्णाटकसेना इति विजयनगरसेनां च गङ्गादेवी मधुराविजयमहाकाव्ये अवर्णयत् । अस्मिन् महाकाव्ये नव सर्गा: सन्ति । अस्य काव्यस्य शैली वैदर्भी । काव्यारम्भे सा वाल्मीकिव्यासकालिदासादीनां कवीनां स्वरणं कृतवती । मधुराविजयमहाकाव्ये कथानायकस्य कम्पनास्य बाल्यजीवनस्य यैवनावस्थाया: च घटना: मनोहरशैल्या निरूपिता:। सरलसुन्दरमधुरपदै: सम्मिलितानि सूर्योदयचान्द्रोदयषड्ऋतुजलक्रीडादीनां वर्णनानि ।

लीलेव दृष्टिवृद्धीनां शालेव सकलश्रियाम् ।

मालेव सर्वरत्नानां वेलेव सुकृताम्बुधे: ।।

इत्यादिपध्यै: कृतं विजयनगरवर्णनं विरूपाक्षदेवालयवर्णनं तुङ्गभद्रानदीवर्णनञ्च सह्रदयानां मनांसि आमोदयन्ति काव्यशोभां संवर्धयन्ति च । उपमारूपकादीनाम् अलङ्काराणां सुमधुरसंयोजनं काव्ये दृश्यते । वीररसप्रधानम् इदं महाकाव्यम् । तथापि श्रुङ्गारादय: अन्ये रसा: तत्र तत्र विलसन्ति । माधुर्यादिकाव्यगुणा: अपि शोभन्ते ।

महिलया विरचितेषु काव्येषु सम्पूर्णतया उपलब्धम् आद्यं ऐतिहासिकमहाकाव्यं मधुराविजयम् । अत्र कवयित्रया: लोकानुभव:, काव्यप्रतिभा, देशभक्ति:, राजकीयपरिज्ञानादय: गोचाराः भवन्ति । गीर्वाणवाण्याः प्राचीननवीनकाव्यशैलीनां सम्मेलनम् अत्र दृश्यते ।

इदञ्च काव्यं मधुराविजयं गङ्गादेव्या: कीर्तिम्, अस्माकम् अलैकिकम् आनन्दञ्च जनयति ।