सदस्यसम्भाषणम्:2040580ananyakghebbar/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दृधत्स्यु महर्षिः अगत्स्य - लोपामुद्रायोः पुत्रः। एकदा अगत्स्यमहर्षिः सञ्चरन् तस्य पूर्वजाः वृक्षे डोलायमानाः आसन् । चकितः अगत्स्य: ताम् अपृच्छन् । तदा ते "हे पुत्र ! यदि भवतः विवाहानन्तरं पुत्रजननं भवति चेत् एव अस्माकं स्वर्गप्रवेशः शक्यः । अत: यथाशीर्घं विवाहितः भव " इति असूचयन् | तदा विदर्भाराजः पुत्रापेक्षया तपःः करोति स्म । अगत्स्यः तस्मै सुन्दरपुत्रीं लोपमुद्रां पुत्रीरुपेण अयच्छत् । कतिचन वर्षानन्तरं अगत्स्यः विदर्भाराजं लोपमुद्रां पत्नीरुपेण स्वीकर्तुम् अपृच्छत् । तदा विदर्भराजः चिन्तितः आसीत् । सुन्दरीं पुत्रीं महर्षिणा अगत्स्येन सह विवाहार्यं सम्मतिः न आसीत् । विवाहःः न भवति चेत् अगत्स्यकोपस्य शापस्य च भयः आसीत् । यदा राजा अस्योपायचिन्तने आसीत् तदा लोपमुद्रा राजानं प्रति विवाह सम्मतिम् असूचयत् । अगत्स्य लोपमुद्रयोः विवाहः महासिन्धुतीर्थे अभवत्। विवाहानन्तर तौ गङ्गाद्वारम् अराच्छताम्। यदा अगत्स्य: घोरं तपः तपति स्म तदा लोपमुद्रायाः ऋतुस्रावः अभवत् । पुत्रापेक्षया सा तस्याः इच्छाम् प्राकटयत्। इतोऽपि सम्भोगसमये द्वयोः दम्पत्योः अत्यमूल्याभरण पेक्षामपि अकथयत् । तदा अगत्स्यः दिग्भ्रान्त: आसीत् । सः लोपमुद्राम् आश्रमे विहाय धनापेक्षया कुत्रचित् अगच्छत् । तस्य मार्गे राजश्रुतर्व: राजब्रद्नास्व: राजप्रसदस्वः च अमिलन् | तैः सः अगत्स्य: इल्वल राक्षसाश्रयं मणिमत्पत्तनम् अगच्छत् । इल्वलानुजं वातापिम् अमारयत् । चकितः इल्वलः त्रिभ्यः राजभ्यः दशसहस्र गावः धनं च अयच्छत् । अगत्याय तस्य द्विगुणं दानमकरोत्। कुशलाभ्याम अश्ववाभ्यां वीरवणसुरवणभ्याम् सह एकं रथमयच्छत् । एतेन अगत्स्य: लोपयुद्रायाः इच्छाम् अपूरयत् । यदा लोपमद्रा मूर्तिमती आसीत् तदा अगत्स्य ताम " सहस्रसामान्यपुत्रा: शतपुत्रशक्तियुताः शतपुत्राः सहस्रपुत्रशक्ति गुणोपेतमेकं पुत्रं वा किं वाञ्चसि ? इति अपृच्छत् । तदा लोपामुद्रां पुत्रमेकम् ऐच्छत् । यदा सा मूर्तिमती तदा अगत्स्यः तप: कर्तुं अरण्यं अगच्छत् । सप्तवर्ष गर्भधारणानन्तरं लोपामुद्रा सुन्दरस्य पुत्रस्य जन्म अयच्छत् । स एव दृधत्स्युः । तस्यापरं नाम इध्वामहा इति। सः मातृगर्भे वेदान् अधीत्य जननसमये वेदपारायणमकरोत् । अगत्स्य महर्षेः यागे इध्मां इ्न्दनानि सः आनयति स्म अत: तस्य नाम इध्वामहा इति । सः पाण्डवकौरवै:]ः सह उत्तमबान्धव्यम् अरक्षयत् । सः षण्मुखदेवस्य तपः तप्त्वा शक्तिम् प्राप्तवान् । तस्य तपोबलः अगत्स्प तपोबलेन समः आसीदिति पुराणेषु उल्लिखितम् ।