सदस्यसम्भाषणम्:2040753sanathkumar/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ज्योतिषशास्त्रम्[सम्पादयतु]

ज्योतींषि ग्रहनक्षत्राणि अधिकृत्य प्रवर्तितं यच्छास्त्रं तन्नाम ज्योतिषमिति कथ्यते। इदं तु प्रत्यक्षं शास्त्रम् अस्ति। यतोहि अन्येषु शास्त्रेषु यथा विवादा: सन्ति तथा अत्र न सन्ति। सूर्यचन्द्रबुधशुक्रादिग्रहाणां गतिस्थित्यादीनां वर्णनम् अत्र भवति। एतेषां ग्रहाणां प्रत्यक्षदर्शनम् अस्माभि: क्रियते अत: शास्त्रमिदं प्रत्यक्षम् अस्ति इति सिध्यति। एतदतिरिक्ता अपि – लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रम्, भृगुसंहिता, मीनराजजातकप्रभृतय आर्षग्रन्थाः, लघुजातकम्, बृहज्जातकम्, सारावलिः, जातकाभरणम् जातकपध्दतिः , जातकसारः, जातकालङ्कारः, पदमजातकम्, होरारत्नम्, होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिदं समृध्दं कुर्वन्ति । केरलमतप्रतिपादका ग्रन्थाः, प्रश्नग्रन्थान्तराणि, रमलग्रन्थाः ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषका एव । असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्यस्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रकाशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः ।

श्री वेन्कतेश्वर सुप्रभातम्[सम्पादयतु]

तत्पुरुषाय विद्महे महादेवाय धीमहि।

तन्नो रुद्रः प्रचोदयात ॥ यदि सन्ति गुनाः पुंसां विकसन्त्येव ते स्वयम्। नहि कस्तुरिकामोदः शपथेन विभाव्यते॥ वाणी रसवती यस्थ, यस्य श्रमवती क्रिया । लक्ष्मी : दानवती यस्य, सफलं तस्य नीवितं ।। परमाणु परममहत्त्वान्तोऽस्य वशीकारः। उदेति सविता ताम्रस्ताम्र एवास्तमेति च। सम्पतौ च विपत्तौ च महतामेकरूपता॥ लोकाः समस्ताः सुखिनो भवन्तु। आच्छादने दोषवृध्दि ख्यापने तु लयो भवेत्।

कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥१॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२॥ मातस्समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृशशैलनाथदयिते दयानिधे ॥४॥ अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥५॥ पञ्चाननाब्जभवषण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासरशुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥६॥ ईषत्प्रफुल्लसरसीरुहनारिकेल पूगद्रुमादिसुमनोहरपालिकानाम् । आवाति मन्दमनिलस्सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥७॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥८॥ तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि । भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥९॥ भृङ्गावली च मकरन्दरसानुविद्ध झङ्कारगीतनिनदैस्सह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१०॥