सामग्री पर जाएँ

सदस्यसम्भाषणम्:2040896vihanprabhu/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ईक्ष्वरचन्द्रविद्यासागरः

आसीत् बझ्गत्नराज्ये वीरसिंहो नाम कश्चन ग्रामः। तत्र कश्चित् बालः श्रध्दया मातुः सेवायं निरतः आसित् । मातापि वात्साल्खेन स्वपुत्रं पोषयति स्म । सः बालः अपि अपेक्षानुसारं वॆद्यालयं,विद्यलयं, अनाथालयं च आरब्धवान् । स एव विद्यासागरः इति ख्यातः ईक्ष्वरचन्द्रः ।

एषः बझ्गलप्रान्ते मिड्नापुरमण्डले विरसिंहग्रामे सुसंस्कृतगृहे विंशत्युतर अष्ठादशशततमे वर्षे सप्तेम्बर् मासस्य षडिवंशे दिवसे अजायत । अस्य पिता ठाकुरदास बन्दोपाध्यायः माता च भगवति देवि । माता सर्वदा दीनानाम् आर्तानां च् शुश्रूषायां तत्प्ररासित् । मातुरयं गुणः पुत्रे ईश्वरचन्दे अनुस्यूततयागतः । नवमे वयस्येव एषः संस्कृताध्ययनार्थं कोलकत्तानगरं प्रेषितः । तत्रॆकस्यां पाठशालायां संस्कृतं सम्यगधीत्य प्रथमश्रेण्यामुत्तीर्णोभवत् । एतस्य मेधाशात्त्कि द्रुष्टवा विद्यालयस्य विद्वांसः एतस्मॆ 'विद्यासागरः' इति प्रशास्तिं दत्तवन्तः । तदारभ्यायम् ईक्ष्वरचन्द्रविद्यासागरः इति प्रथितोभवत् ।

अध्ययनानन्तरम् अध्यापकवृतिं निर्वहन् समाजसेवानिरतोभवत् । महिलानामुध्दार एव् समाजोध्दारः इति दृढं मन्वानो मातुर्नाम्नि 'भगवति विद्यालयः' इति बालिकानां कृते बहून् विद्यालयान् स्थापयित्वा स्वयं तेषां निर्वहणम् ।

आड्ग्लभाषायामापि परिणतोयं सवर्दा चिन्तयति स्म - "या कापि भाषा भवतु सा सवॆरपि सेवनिया । तत्रापि नुनं सुसेव्या सुरभारती" ति । "फ़ोर्ट विलियम" इति विद्यालय यदा प्राचार्यः आसित् तदा सर्वॆभ्यः संस्कृताध्ययनार्थमवकाश कल्पितवाना संस्कृतभाषायां 'व्याकरण्कॊमुदी' इत्याद्यनेकान् ग्रन्थान् रचितवान् । काश्चन कृतयःसम्पादिताः । केचन प्रसिध्दग्रान्थाः संस्कृतभाषया अनुदिताः । अस्य संस्कृतभाषाप्रीतिः प्रशंसनीयासीत् ।

एतस्य पाण्डित्यं विनयं च् निशम्य कदचित् रामकृष्णपरमहंसा अस्य गृहमागत्य तं दृष्ट्वा एवमवदन् - "एतावत्पर्यन्तं केवलं कुल्यां, तटाकं, नदीं चापश्यमहमा । अद्य तु विद्यायाः सागरः एव् मयां दूष्टः इति ।

एषः महोदयः न केवलं प्रसिद्धः शिक्षणज्ञः अपि तु समाजसुधारकोप्यासित् । अत एव विविधसभाकार्यऋमार्थ भोजनकुटार्थं चाहूयते स्म । एकदा केनचित् प्रतिष्ठितेन धनिकेन आमन्त्रितः एष स्वकीयं साम्प्रदायिकं सरलं वेषभूषणमेव धृत्वा तस्य गृहमागतवान । किन्तु तस्य भवनस्य गृहद्वारे स्थितेन द्वारपालकेन एषःकोपि सामान्यः इति भ्रमेन तस्य प्रवेशः निषिद्धः । तदा विद्यासागरः गृहं प्रतिनिवृत्य पाश्चात्ववस्त्रभूषणानि धृत्वा पुनरागतवान् । तदा स एव द्वारपालकः तमादरेण स्वागतीकृतवाना गण्यॆः सह भोजनार्थमुपविष्टः एषः अभुड्क्त्वा सर्वमाहारं युतकस्य कोशे स्थापयति स्म् । एताद् द्रुष्वा गृहस्वामि कॊतुकेन तं - "मान्याः, किमर्थंमेवं विचित्रं प्रवर्त्यते ?" शति अपृच्छत् । विद्यासागरमहोदयः सर्वं प्रवृतं विशदीकृत्य भवता दत्तं भोजनं न मदर्थं किन्तु मम वेषभूषणार्थाम् इत्यवदत् । सर्वे अन्तरार्थम् ज्ञातवन्तः ।

एवं विद्यासागरः सर्वदा सरलजीवनम् इच्छति स्म । अयं महानुभावह् सन्तः इव आदार्शजीवनं कृत्वा स्वभविष्यं स्वसुखं सर्वमपि मानवकुलहिताय समर्पितवान् । एषः महोदयः एकनवत्युत्तर अष्ठादशशततमे वर्षे परं धाम प्राप्तवान् ।

ऋियासिध्दिः सत्वे भवति महतां नोपकरणे इत्युत्त्किः अस्य विषये सम्यगन्वेति । अतः वयमस्य पन्यानम् अनुसरामः ।

https://en.wikipedia.org/wiki/Ishwar_Chandra_Vidyasagar

Ishwarchandra Vidyasagar