सदस्यसम्भाषणम्:Aakanksha n.s

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

॥ छन्दांसि ॥

संस्कृतवाङ्मयस्य शेवधिः वेदाः। भारतीयानां समष्टिदर्शनस्य पूर्णफलं वेदेषु वरीवर्ति । वेदाङ्गानि विना वेदाध्ययनं अशक्यम् । वेदाङ्गानि षडेव हि । ते - १) शिक्षा । २) व्याकरणम् । ३) कल्पः । ४) निरुक्तः । ५) ज्योतिषम् । ६) छन्दः ।

पिङ्गलाचार्याः छन्दश्शास्त्रं निर्ममिरे । शास्त्रेऽस्मिन् वैदिकछन्दसां सलक्षणनिरूपणं दरीदृश्यते ।

छन्दः ॥२।१॥ - इति सूत्रात् शब्दस्यास्य निर्वचनं एवम् प्रदत्तम् -- छन्दः शब्देनाक्षरसंख्यावच्छेदोऽत्राभिदीयते ।

' छन्दो हीनो न शब्दोऽस्ति न छन्दः शब्दवर्जितः ' - अतः शब्दछन्दसोः गतिसादृश्यं स्पष्टम् ।

शब्दानुपयुज्य कविभिः पद्यानि विरच्यन्ते । पद्यम् नाम एका छन्दोबद्धरचना ।


परिभाषा -

१) लघुः ( U ) :- > ह्रस्वस्वराः लग्घुर्भवन्ति । [ अ इ उ ऋ लृ ] > ह्रस्वस्वरसहितव्यञ्जनान्यपि लघुरेव भवन्ति । [ क च द ... ]

२) गुरुः ( - ) :- > दीर्घस्वराः गुरुर्भवन्ति । [ आ ई ऊ ॠ ए ऐ ओ औ ] > दीर्घस्वरसहितव्यञ्जनान्यपि गुरुरेव भवन्ति । [ की मू दे ... ]

३) मात्रा / मात्रम् :- मात्रम् नाम ह्रस्वस्वरॊच्चारणसमयः ।

४) यतिस्थानम् ( caesura ) - " यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया । "

५) गणः :- त्रिवर्णसमूहो नाम गणः ।


गणानां विभजनम् -

१) य : U - - २) म : - - - ३) त : - - U ४) र : - U - ५) ज : U - U ६) भ : - U U ७) न : U U U ८) स : U U -

विशेषनियमाः -

१) अनुस्वारस्य पूर्वं वर्णं गुरुर्भवति । २) विस्सर्गस्य पूर्वं वर्णं गुरुर्भवति । ३) संयुक्ताक्षरस्य पूर्वं वर्णं गुरुर्भवति ।


छन्दसां वर्गीकरणम् -

छन्दः - अ) वृत्तिः / वृत्तम् ।

      आ) जातिः ।

अ) वृत्तिः त्रिधा - १) समवृत्तम् । [ उदा - अनुष्टुप् , उपजातिः ... ]

                                  २) अर्धसमवृत्तम्। [ उदा - पुष्पिताग्रा , वेगवती .. ]
                                  ३) विषमवृत्तम् । [ उदा - उद्गता , ललितम् ... ]

एकस्मिन् पादे वर्तमानानां वर्णानां संख्यामधिकृत्य ' वृत्तम् ' लक्षणीभूतो वर्तते ।


आ) जातिः - एकस्मिन् पादे वर्तमानानां मात्राणां संख्यामधिकृत्य ' वृत्तम् ' लक्षणीभूतो वर्तते । [ उदा - आर्या , गीतिः ... ]


प्रचुरछन्दांसि -

१) अनुष्टुप् - प्रतिपादे अष्टाक्षराणि भवन्ति ।

   लक्षणम् - पञ्चमं लघुसर्वत्र सप्तमं द्विचतुर्थयोः ।

गुरु षष्ठं च जानीयात् शेषेष्वनियमो मतः ॥

    उदा - वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
            जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥

- कालिदासः ।

२) इन्द्रवज्रा - प्रतिपादे एकादशाक्षराणि भवन्ति ।

          लक्षणम् - स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
     उदा - चित्रं तदेतच्चरणारविन्दं चित्र तदेतन्नयनारविन्दम् ।	
            चित्रं तदेतद्वदनारविन्दं चित्रं तदेतद्वपुरस्य चित्रम् ॥

- लीलाशुकः।

३) उपेन्द्रवज्रा - प्रतिपादे एकादशाक्षराणि भवन्ति ।

          लक्षणम् - उपेन्द्रवज्रा प्रथमे लघौ सा ।
     उदा - न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् ।
             न योगसिद्धीरपुनर्भवं वा समञ्जसत्वा विरहय्य काङ्क्षे ॥

- श्रीमद्भागवतम् ।

४) उपजातिः - प्रतिपादे एकादशाक्षराणि भवन्ति ।

         उदा - अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
             पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥

- कालिदासः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Aakanksha_n.s&oldid=263942" इत्यस्माद् प्रतिप्राप्तम्