सदस्यसम्भाषणम्:Aakanksha n.s
विषयः योज्यताम्॥ छन्दांसि ॥
संस्कृतवाङ्मयस्य शेवधिः वेदाः। भारतीयानां समष्टिदर्शनस्य पूर्णफलं वेदेषु वरीवर्ति । वेदाङ्गानि विना वेदाध्ययनं अशक्यम् । वेदाङ्गानि षडेव हि । ते - १) शिक्षा । २) व्याकरणम् । ३) कल्पः । ४) निरुक्तः । ५) ज्योतिषम् । ६) छन्दः ।
पिङ्गलाचार्याः छन्दश्शास्त्रं निर्ममिरे । शास्त्रेऽस्मिन् वैदिकछन्दसां सलक्षणनिरूपणं दरीदृश्यते ।
छन्दः ॥२।१॥ - इति सूत्रात् शब्दस्यास्य निर्वचनं एवम् प्रदत्तम् -- छन्दः शब्देनाक्षरसंख्यावच्छेदोऽत्राभिदीयते ।
' छन्दो हीनो न शब्दोऽस्ति न छन्दः शब्दवर्जितः ' - अतः शब्दछन्दसोः गतिसादृश्यं स्पष्टम् ।
शब्दानुपयुज्य कविभिः पद्यानि विरच्यन्ते । पद्यम् नाम एका छन्दोबद्धरचना ।
परिभाषा -
१) लघुः ( U ) :- > ह्रस्वस्वराः लग्घुर्भवन्ति । [ अ इ उ ऋ लृ ] > ह्रस्वस्वरसहितव्यञ्जनान्यपि लघुरेव भवन्ति । [ क च द ... ]
२) गुरुः ( - ) :- > दीर्घस्वराः गुरुर्भवन्ति । [ आ ई ऊ ॠ ए ऐ ओ औ ] > दीर्घस्वरसहितव्यञ्जनान्यपि गुरुरेव भवन्ति । [ की मू दे ... ]
३) मात्रा / मात्रम् :- मात्रम् नाम ह्रस्वस्वरॊच्चारणसमयः ।
४) यतिस्थानम् ( caesura ) - " यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया । "
५) गणः :- त्रिवर्णसमूहो नाम गणः ।
गणानां विभजनम् -
१) य : U - - २) म : - - - ३) त : - - U ४) र : - U - ५) ज : U - U ६) भ : - U U ७) न : U U U ८) स : U U -
विशेषनियमाः -
१) अनुस्वारस्य पूर्वं वर्णं गुरुर्भवति । २) विस्सर्गस्य पूर्वं वर्णं गुरुर्भवति । ३) संयुक्ताक्षरस्य पूर्वं वर्णं गुरुर्भवति ।
छन्दसां वर्गीकरणम् -
छन्दः - अ) वृत्तिः / वृत्तम् ।
आ) जातिः ।
अ) वृत्तिः त्रिधा - १) समवृत्तम् । [ उदा - अनुष्टुप् , उपजातिः ... ]
२) अर्धसमवृत्तम्। [ उदा - पुष्पिताग्रा , वेगवती .. ]
३) विषमवृत्तम् । [ उदा - उद्गता , ललितम् ... ]
एकस्मिन् पादे वर्तमानानां वर्णानां संख्यामधिकृत्य ' वृत्तम् ' लक्षणीभूतो वर्तते ।
आ) जातिः - एकस्मिन् पादे वर्तमानानां मात्राणां संख्यामधिकृत्य ' वृत्तम् ' लक्षणीभूतो वर्तते । [ उदा - आर्या , गीतिः ... ]
प्रचुरछन्दांसि -
१) अनुष्टुप् - प्रतिपादे अष्टाक्षराणि भवन्ति ।
लक्षणम् - पञ्चमं लघुसर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च जानीयात् शेषेष्वनियमो मतः ॥
उदा - वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
- कालिदासः ।
२) इन्द्रवज्रा - प्रतिपादे एकादशाक्षराणि भवन्ति ।
लक्षणम् - स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
उदा - चित्रं तदेतच्चरणारविन्दं चित्र तदेतन्नयनारविन्दम् ।
चित्रं तदेतद्वदनारविन्दं चित्रं तदेतद्वपुरस्य चित्रम् ॥
- लीलाशुकः।
३) उपेन्द्रवज्रा - प्रतिपादे एकादशाक्षराणि भवन्ति ।
लक्षणम् - उपेन्द्रवज्रा प्रथमे लघौ सा ।
उदा - न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा समञ्जसत्वा विरहय्य काङ्क्षे ॥
- श्रीमद्भागवतम् ।
४) उपजातिः - प्रतिपादे एकादशाक्षराणि भवन्ति ।
उदा - अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥
- कालिदासः ।
Aakanksha n.s के साथ चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। Aakanksha n.s के साथ जुड़ने और सहयोग करना शुरू करने के लिए एक नई चर्चा शुरू करें। यहाँ पर आप जो भी लिखेंगे, वह हर कोई देख पाएगा।