सदस्यसम्भाषणम्:Akhila jami/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतस्य क्षेत्र अंशदाता

TATA

१। जेमशेतजी टाटा जेमशेतजी पितुः संस्थायां १८६८ पर्यन्तं कार्यम् अकरोत् । ततः सः २१००० रूप्यकाणां मूलधनेन नूतनां वाणिज्यसंस्थाम् आरब्धवान् । १८६९ तमे वर्षे तेन चिञ्चपोकलीप्रदेशे विद्यमाना प्राप्तदुर्गतिः तैलनिर्माणीसंस्था प्राप्ता । सः तां कार्पासनिर्माणीरूपेण परिवर्त्य अलेक्सान्ड्रामिल् इति नामकरणं कृतवान् । वर्षद्वयस्य अनन्तरं सः तां विक्रीतवान् समीचीनं लाभं प्राप्य । ततः १८७४ तमे वर्षे तेन नागपुरे कार्पासनिर्माणी संस्थापिता । १८७७ तमे वर्षे विक्टोरियाराज्ञी भारतस्य साम्राज्ञी (एम्प्रेस् आफ् इण्डिया) इति यदा घोषितं तदा सः 'काटन्मिल्' इत्येतत् 'एम्प्रेस्मिल्' इति नामपरिवर्तनं कृतवान् । स्वस्य चतसृणां महायोजनानां साकाराय तेन स्वस्य जीवनं समर्पितम् - ऐरन् अण्ड् स्टील् कम्पनी-स्थापनम्, जगत्स्तरीयस्य शैक्षणिकसंस्थायाः, अद्वितीय उपाहारमन्दिरस्य च स्थापनम्, हैड्रो-एलेक्ट्रिक् प्लाण्ट्स्थापनम् । एतासु एकमात्रयोजना तस्य जीवितावधौ साकारताम् आप्नोत् - ताज्महल्होटेल् १९०३ तमस्य वर्षस्य डिसेम्बर्मासस्य ३ दिनाङ्के उद्धाटितं जातम् । तस्य, तस्य सहकारिणां महतः परिश्रमस्य कारणेन तदीया प्रत्येका योजना अपि साकारतां गता । तत्तत्क्षेत्रे महत् साधनं कृतमस्ति - - टाटास्टील्-संस्था एशियाखण्डस्य प्रथमा, भारतस्य बृहत्तमा, जगतः पञ्चमं बृहत्तमा संस्था वर्तते । प्रतिवर्षं २८ मिल्लियन् टन्स्परिमितं चित्रायसः अत्र उत्पाद्यन्ते । - भारतीयविज्ञानसंस्था - दि टाटा इन्स्टिट्यूट् आफ् फण्डमेण्टल् रिसर्च् इत्येषा संस्था डा होमि भाभनेन संस्थापिता । डा होमिभाभा वैज्ञानिकसंस्थायाः संस्थापने जेमशेतटाटावर्यस्य साहाय्यम् अपृच्छत् । १९४५ तमे वर्षे संस्था आरब्धा । -दि टाटा पवर् कम्पनि लिमिटेड् इत्येषा भारतस्य महती विद्युदुत्पादनसंस्था । - तस्य जीवितावधौ समाप्तिं गतं महत्त्वपूर्णं कार्यद्वयं - मुम्बैनगरस्य

कोलाबा-उपमण्डले निर्मितः ऐतिहासिकः ताजमहल्-प्रासादः गोपुरञ्च । अस्य निर्माणाय ४२१००००० रूप्यकाणि व्ययितानि । इदं १९०३ तमे वर्षे डिसेम्बर्मासस्य १६ दिनाङ्के आरब्धम् । २०१० तमस्य वर्षस्य मूल्यानुगुणं ११,४७५,४९६,२८४ रूप्याकाणि भवति । तद्दिने विद्युद्व्यवस्थायुक्तम् एकमेव उपाहारमन्दिरम् इदम् आसीत् । अत्र अमेरिकीयव्यजनानि, जर्मनीय-उन्नयन्यः,टर्किदेशीय-स्नानद्रोण्यः, ब्रिटीश्देशीय-सेवकाः च आसन् ।

२। अजीम प्रेमजी प्रेमजीमहोदयःवर्यः विप्रो इक्विटि ट्रस्ट् इति संस्थां प्रतिष्ठापितवान् । सा तत्रत्योद्योगिनां कृते अत्यन्तं सहर्कारिणी अभवत् । तदेव विप्रोसंस्थायाः अभिवृद्ध्यर्थं कारणम् अभवत् । विप्रोसंस्थायाः उन्नताधिकारिणः निर्णयं कृत्वा अर्होद्योगिनां कृते केनचित् नियमानुसारेण निर्दिष्टं समयम् अवलम्ब्य संस्थायाः स्थिरनिध्यंशः दत्तवन्तः । तदवलम्ब्य समवायस्य औद्यमिकलाभः अपि भागिभिः विभक्तः। स्थिरनिध्यंशः तु संस्थायाः नाम्नि तथैव यः क्रीणाति तस्य नाम्नि भवति । इक्विटि रिवार्ड् संस्थायाः नियमानुसारेण उद्योगिनः स्वेच्छया धनं विनिवेशयितुं शक्नुवन्ति । बहुन्यूनवृद्ध्या ऋणमपि लभ्यते, तथैव स्थिरनिध्यंशः अस्ति । खलु तस्य लाभांशम् अपि प्राप्नोति संस्था । एवमेव उद्योगी यदि मरणं प्राप्नोति अथवा केनापि कारणेन उद्योगभ्रष्टः भवेत् चेदपि तस्य जनस्य बन्धवः स्थिरनिध्यंशस्य लाभं प्राप्नुवन्ति । व्यक्तिः मृतः भवेत् अथवा अन्यकारणेन ९० दिनेषु सम्बद्धव्यक्तिः स्थिरनिध्यंशंस्य स्वीकरणार्थम् यत् कार्यम् अस्ति तत् न करोति चेत् संस्था तस्य कृते स्थिरनिध्यंशः न ददाति । उद्योगी वर्षचतुष्टयपर्यन्तं कार्यम् करोति चेत् स्थिरनिध्यंशः) उद्योगिनां नाम्नि एव भवति ।

Tasmia taranum 1610586 Akhila jami 1610584