सदस्यसम्भाषणम्:Alfaain Zohra Fathima/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


कार्ल मार्क्स[सम्पादयतु]

परिचयः[सम्पादयतु]

समानतावादः कार्ल् मार्क्सेन परिपोषितः प्रसारितश्च । स एव

कार्ल मार्क्स

मार्क्सवाद]इत्यनेन नाम्नापि विश्रुत आस्ते। साम्प्रतं जगदिदं प्रायशः वर्गद्वयसंविभक्तम्- १) समानतावादिनः २)धनवादिनश्च। द्वयोरप्येतयोर्वादयोः रूस-अमेरिका-देशयोः प्रवर्तनं, प्रचारणं, प्रसारणं, परीक्षणं च संदृश्यते। रूसदेशे समानतावादस्य, अमेरिकादेशे धनवादस्य च प्रसारणं दृश्यन्ते। जर्मनदेशीयो विद्वान् कार्ल् मार्क्स् महोदयस्य 'दास कापिटाल्" प्रथिततमो ग्रन्थः वर्तते। तत्र समानतावादस्य उपयोगित्वं, महत्त्वं, लोकोपकारित्वं च विशदीक्रियते। समानतावादस्य प्रवर्तकेषु फ्रेडरिक एंगेल्स स महोदस्य नामधेयोऽपि सादरम् उल्लिख्यते। विश्वस्य सकलामपि महापरिवर्तनकारिण सन्देश जनसमुदायं प्रति प्रयच्छन् निजगाद–“अयि संसारस्य श्रमजीविनो मानवाः, संगच्छध्वं संवदध्वञ्च यूयम्, स्त च संघटिताः। मानवसमाजस्य इतिहास-अवलोकनेन ज्ञातं भवति यद् यस्मात् कालात् सृष्टिरारब्धा जाता तस्मादेव कालात् मानव-समाजः समृद्धिशालिनां धनपतीनां वर्गेण सदैव शोषणमेव नीतः। ते हि समाजं द्वयोर्विरोधिवर्गयोर्विभक्तं कृतवन्त:-शोषके शोषिते च। अधिनायकतावाद एव साम्राजवादिनी भावनाम् उत्पाद्य समाजस्य रक्तमपिवत् कृतवांश्च तं सर्वविधतया जर्जरम्।[१]

चिह्न

दर्शनम्[सम्पादयतु]

विचारधारी समयानुसारिण्यो भवति साम्यवादिनी विचारधारा व्यक्तिं प्रति गरीयस्कता न प्रयच्छति अपि तु सा समाजम्प्रति त विश्राणयति। समानतावादप्रक्रियाश्रयेण सर्वेषामेव मानवानां विकासादिकार्येषु समानोऽवसरः, सदृशा एव च सुविधाः लप्स्यते। तदा समाजे न कश्चन शोषको, न च कश्चन शोषितो भविता। एतादृशस्य वर्गहीनसमाजस्य संस्थापनं समानतावादस्य प्रक्रिययैव सम्भाव्यते। समानतावादपद्धतौ जनशासितस्य राज्यस्य एव उत्पादनसाधनेषु पूर्णाधिकारः स्यात्। मार्क्सवादस्य कथनमिदमस्ति यद् उत्पादकोषु साधनेपु राष्ट्रस्य एव अधिकार: पूर्णत्वेन एतेषु अपि लघूद्योगेषु भवितुं योग्योऽस्ति। मार्क्स-महोदयः राज्यस्य अस्तित्वमपि नानुमनुते।[२] वास्तविकं शासनं तु जनशासनमेव तस्याभिमतम्। प्रान्तीयभेदान् प्रदेशादि भेदाश्च अपवार्य विश्वसमाजसंस्थापनम् अभिमतत्वेन प्रतिपादयति। एष वादो हि एकनायकतीमच्छति, अस्ति स हिंसात्मकः, भौतिकतोपासकः, आध्यात्मिकतायां द्रुह्यति, वैयक्तिकं स्वातन्त्र्यमपहरति इत्यादिबहवो दोषा: आरोपाश्च अस्मिन् वादे आरोप्यन्ते। परं वैज्ञानिकविश्लेषेण सिद्धयति यदि उपरिष्टादुक्ता दोषा वितथा: नैष वादो व्यक्तेरधिकारमपहरति अपितु स सर्वहद्वर्ग स्यैवाधिकारितायां प्रहारं करोति। तदीया हिंसा रक्तसम्बन्धिनी न, अपि तु शोषणसम्बन्धिन्यस्ति।[३]

  1. https://https://www.britannica.com/topic/Marxism
  2. https://https://www.nyu.edu/projects/ollman/docs/what_is_marxism.php
  3. https://https://plato.stanford.edu/entries/marx/