सदस्यसम्भाषणम्:Arjun Gartaula

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

|| चिन्तनवीथिः ||[सम्पादयतु]

                                                         अज्ञानान्धकारविनाशिने ज्ञानवपुषे  नमः 
                                                               || चिन्तनवीथिः ||  

मानवीयमनीषा हि नैरन्तर्येण निखिलतत्वाधिगमावाप्तये सततं प्रयत्नशीला , हेतोरस्मादेव विश्वस्मिन् नूतनसिद्धान्तानां नवीनविचाराणां च अहर्दिवं प्रसवो जायत एव | प्राचीनकालेपि भारतीयविदुषां महता प्रयासेन तादृशसूक्ष्मतत्वानामन्वेषणमभूत् | जगत् यत्पुरोदृश्यमानं वर्तते तावदेव न, अपि तु मानवीयेन्द्रियातीतान्यपि तदृशवस्तूनि सन्ति यानि मनुष्यः स्वकीयमेधया अनुमातुं न क्षमः | प्रसङ्गेस्मिन् यद्वक्तव्यमस्ति तदित्थं यत् मानवः स्वीयमेधया यावत्कर्तुं शक्नोति तावत् तु कर्तव्यमेवासीत् परन्तु सांप्रतम् इह अवनीतले मनुष्याः सर्वमपि वस्तु केवलं भोगार्थमेव सृष्टमिति कुमनीषया ग्रस्ताः , अत एव विद्यमानेष्वपि ज्ञानप्रदायकेषु महत्सु साधनेषु निरीहा अवलोक्यन्ते | भारतवर्षसन्दर्भे तु विषयोयमितोऽपि महत्वपूर्णः | यतो हि भारतं नाम हि देश महतां वैज्ञानिकानाम् विविधदार्शनिकानामिति अद्यतना वयं नूनमेव विस्मरणं कृतवन्तः | अतो हेतोः सर्वदैव अभावग्रस्तान् स्वान् मन्यमानाः सदैव दुखमोहसंजाले निमग्ना भूत्वा यदासीत् प्राप्तं तदपि लब्धुं नैव क्षमाः | अस्तु ! प्रकृतमनुसरामः| ज्ञानविज्ञानपरिपूरितानि सनातनशास्त्राणि संत्यद्यापि | एतेषामद्ध्ययनाद्ध्यापनमेवापि कर्तुं पारयामश्चेत् तदपि बहु भवेत् | व्यावहारिकसाफल्यं नाम किमिति चिन्तयामश्चेत् निश्चप्रचमेव सिद्धान्ततत्वज्ञानम् अन्तरा न कथमपि कौशल्यमवाप्नुमः | कारणादेतस्मात् प्राथम्येन वयं स्वकीयक्षमताम् अवजानीमः , एतदनन्तरं वैदुष्यलब्द्ध्यै प्रयासं कुर्मः | वैदुष्यं नाम तदुच्यते येन वयं जागतिकसमग्रविषयवस्तूनां संज्ञानपूर्वकं सिद्धान्तव्यवहारयोरुभयोरपि सन्दर्भे कुशला भवेम | एतदर्थं सर्वतः पूर्वं तत्वप्रतिपादकानां सनातनज्ञानविज्ञानस्रोतोभूतानां महतां ग्रन्थानां सम्यक् अद्ध्यवसायमाचरामः | ततः परं मानवीयहितसाधनाय संनद्धा भवेम | ज्ञानावाप्तये अस्माकं कृते सर्वमपि तादृशं साधनमद्यापि विद्यते ! परन्तु -

                      यद्विना सांप्रतं नूनमस्माकं निष्फलो जनिः | 
                    अयि भोः ! मानवी मेधे ! क्व गतं तव वैभवम् ||                      
                                                                                                      
                    इत्यलं वीथिपरिभ्रमणेन                                                                                                                                                                       



                                                व्याकरणाचार्य अर्जुन गर्तौला (व्याकरणदर्शनविषये शोधरतः) 
                                                         राष्ट्रियसंस्कृतसंस्थानम् लखनऊ परिसरः  
                                                                   लखनऊ उत्तरप्रदेश
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Arjun_Gartaula&oldid=176218" इत्यस्माद् प्रतिप्राप्तम्