सदस्यसम्भाषणम्:Benlion1998/प्रयोगपृष्ठम्
विषयः योज्यताम्मलाला युसुफजई (१२ जुलै, १९९७)[१] पाकिस्थानस्य खैबर् पख्तून्ख्वा राज्यस्य 'स्वात्' मण्डलस्य मिङ्गोराग्रामस्य शालाविद्यार्थिनी, शिक्षणकार्यकर्त्री च । तालिबान्-सङ्घटनेन 'स्वात् खाता'याः बालिकाभिः विद्यालयः न गन्तव्यः इति नियमः कृतः विद्यते । तस्य प्रदेशस्य बालिकानां शिक्षणाय, महिलाधिकारपरसङ्ग्रामाय च सा प्रसिद्धा अस्ति । २०१३ तमे वर्षे चिन्तनस्वातन्त्र्याय सखरोव्-प्रशस्तिः प्राप्ता मलालया ।[१] [२] २०१४ तमस्य वर्षस्य नोबेल्-शान्तिप्रशस्तिः भारतबालाधिकारयोद्धारेन कैलाशसत्यार्थिना सहा प्राप्ता अस्ति २००९ तमस्य आरम्भे स्वीये द्वादशे वयसि बि बि सि निमित्तं गुप्तनाम्ना तया स्वीयः अभिप्रायः सामाजिकजालपुटे प्रकाशितः । तस्मिन् सा तालिबान्-शासने स्वीयं जीवनं कथमस्ति इति वदन्ती बालिकानां शिक्षणविषये स्वीयाभिप्रायान् लिखितवती अस्ति २०१२ तमस्य वर्षस्य अक्टोबर्-मासस्य ९ दिनाङ्के शालायानतः गृहं प्रति आगमनावसरे तालिबान्-भूषुण्डीधारिणः तस्याः मारणाय तस्याः शिरसि कण्ठे च गोलास्त्रं प्रयुक्तवन्तः । [५] प्रज्ञाहीनायाः तस्याः स्थितिः विषमा आसीत् । केषाञ्जन दिनानाम् अनन्तरं अमेरिकादेशीयं चिकित्सालयं प्रति सा चिकित्सायै प्रेषिता । तस्याः मारणाय प्रयत्नं विरुद्ध्य पाकिस्तानस्य ५० यवननेतृगणेन आदेशः (फत्वा) घोषितः । किन्तु तालिबानसंस्थया पुनरुच्चरितं यत् 'अस्माभिः मलालायाः तस्य पितुः च मारणं करिष्यते' इति । यवनबालिकानां शिक्षणाधिकाराय प्रयत्तमानायाः पाकिस्तानस्य बालिका 'मलाल युसुफजई' विश्वस्य १०० चिन्तकानाम् आवल्यां षष्ठे स्थाने विद्यते । तस्याम् आवल्यां प्रथमस्थाने वर्तते मयन्मार्-देशस्य प्रजाप्रभुत्वपरान्दोलनस्य नेत्री अङ्ग सान् सू की । विदेशीयनीतिसम्बद्धपत्रिकया सज्जीकृतावल्यां पञ्चमस्थाने विद्यते अमेरिकायाः मैक्रोसाफ्ट्-संस्थास्थापकः बिल् गेट्स्, सप्तमे स्थाने विद्यते अमेरिकादेशस्य अध्यक्षः बराक् ओबामा । २०१३ तमस्य वर्षस्य जुलैमासस्य १२ दिनाङ्के मलालायाः १६ जन्मदिने, जगति सर्वैः शिक्षणप्राप्तेः आवश्यकतायाः विषये युनैटेड् नेषन्स्-मध्ये भाषणम् अकरोत् । इयं घटना 'मलालादिनम्' इति घोषितं जातम् [२]। इदं तस्याः प्रथमं सार्वजनिकभाषणम् आसीत् <। [६] तस्यां सभायां विश्वस्य विविधभागेभ्यः आगताः पञ्च शताधिकाः शिक्षणतज्ञाः आसन् । [७] भयोत्पादकैः चिन्तितं यत् ते मम लक्ष्यं महत्त्वाकांक्षाः च परिवर्तयिष्यन्ति इति किन्तु न किञ्चित् परिवर्तितम् अस्मात् ऋते - मयि विद्यमानाः दौर्बल्य-भय-असहायकताः निर्गताः । शक्तिः, बलं, विश्वासाश्च संवर्धिताः ..... अहं कस्यापि विरुद्धं नास्मि, तालिबानस्य अन्यस्य भयोत्पादकगणस्य विषये व्यक्तिगतद्वेषेन वा किमपि भाषितुम् उद्युक्ता नास्मि अहम् । प्रत्येकस्य शिशोः शिक्षणाधिकारविषये प्रतिपादनाय स्थितास्मि । तालिबानगणस्य अन्यभयोत्पादकगणस्य पुत्राणां पुत्रीणाञ्च शिक्षणविषये आसक्ता अस्मि अहम् ।
References
सदस्यः:Benlion1998/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। सदस्यः:Benlion1998/प्रयोगपृष्ठम् में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।