सदस्यसम्भाषणम्:Bhavana.cbz/समूहमध्यमेषु आगतपरिवर्तनानि

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

समूहमाध्यमानुपयोगेन अस्माकं देशे बहूनि परिवर्तनानि जातानि द्रुश्यन्ते। समूहमध्यमैः साम्स्क्रुतिक-राजकीय-आर्थिक-धार्मिक-सामाजिकक्षेत्रेशु परिवर्तनानि अधिकमात्रानि जातानि सन्ति। माध्यम तन्त्रज्नानं अस्मिन् समाजे प्रमुखं अस्ति। जनाः मध्यमेन संवादम् कुर्वन्ति। रेडियो-दिनपत्रिकं-दूरदर्शनम् च मध्यम उदाहरणानि सन्ति। त्व्ट्टिट्टर-फेस्बुक्-वाट्साप्-इन्स्टाग्राम् च अधुना प्रसिद्ध्ं माध्यमं प्रकरणम् भवति। समूहमध्यमेषु आगतपरिवर्तनानि

   समूहमध्यमानामुपयोगेन अस्माकं देशे बहूनि परिवर्तनानि जातानि द्रुश्यन्ते। समूहमध्यमैः साम्स्क्रुतिक-राजकीय-आर्थिक-धार्मिक-सामाजिकक्षेत्रेषु परिवर्तनानि अधिकमात्रायां जातानि सन्ति।

प्रारम्भे सन्चारमध्यमरूपेण आकाशवाणी-दूरदर्शन-वर्तमानपत्राणां प्रयोगः क्रियते स्म परन्तु शनैः शनैः सङणकयन्त्रस्य, अन्तर्जालस्य अन्वेषां च उपकरणानं संशोधनेन विश्वं एकं लघुपरिवार इव द्रुश्यते। समूहमध्यमैः अस्माकं देशे बहूनि परिवर्तनानि जातानि सन्ति तेषामधः विवरणं दीयते- (1) भौतिकवास्तुनां प्रचार-प्रसारः- समूहमाध्यमेषु दर्शितविग्नापनैः वर्तमानकाले जनाः परिचिताः भूत्वा भौतिकवास्तुनां क्रयणं कुर्वन्ति। इत्थं साम्प्रतकाले भौतिकवास्तुनामुत्तरोत्तरं प्रचारप्रसारः संलक्ष्यते। एतेषां वास्तुनामुपयोगेनैव मनुष्यस्य दिनचर्चायां परिवर्तनमभवत्। एतानि साधनानि सर्वेषामावष्यकतायाः पूरकाणी सन्ति। यथा-फ्रिज-वोशिंगमशीन-मिक्सर-कूलर-कम्पुटर-वाक्युम्क्लीनर-वोटर प्यूरिफिकेटन इत्यादिभिः साधनैः परिचिताः भूत्वा जनाः अवश्यकथानुरूपं प्रयोगं कुर्वन्ति। न केवलं नगरस्थाः जनाः परन्तुः ग्रामीणा अपि एतेषां उपयोगं कुर्वन्ति। उत्पादनकेन्द्रस्य आकर्षकप्रलोभनैः आकर्षिताः भूत्वा जनाः कदाचित् अनावश्यकवस्तुनामपि क्रयणं कुर्वन्ति। अधिकाधिकक्रयणमोहेन जनाः ॠणिनोपि भवन्ति। (2) शिक्षणक्षेत्रे परिवर्तनम्स- मूहसन्चारमाध्यमैः शिक्षणक्क्षेत्रेपि अतीव परिवर्तनानि अनीतानि सन्ति। आकाशवाण्यां दूरदर्शने च शिक्षणमहत्वं विज्नापयन्तः बहवः कार्यक्रमाः प्रदर्श्यन्ते। येन समाजे शिक्षणस्य महत्वं वर्द्धेत जनेषु च शिक्षणस्य प्रचार-प्रसारो भवेत्। निर्धनतयाः कारणेन जनाः पुष्पसद्रुशं बालं बाल्यकलादेव कार्यं कारयन्ति। एतानि माध्यमानि बालेभ्यः शिक्षणदानाय प्रेरयन्ति। छात्राः मध्यमेन ज्नानं प्राप्नोति।अनेन सहैव सूचयन्ति यत् एतत् कार्यं न्यायिकापराधः अस्ति। ये बालान् कार्यं कारयन्ति तेषां पितरौ अपि दन्डनीयौ भवतः। एताद्रुशं ज्नानं समूहसन्चारमाध्यमानि वितरन्ति।

    दूरदर्शने विश्वविद्यालयानुदान आयोगस्य (U.G.C.) इन्दिरागान्धिराष्ट्रीयमुक्तिविश्वविद्यालयस्य (IGNOU) तथा अखिलभारतीय शैक्षणीय सम्शोधनं एवं प्रशिक्षण केन्द्रस्य (N.C.E.R.T) शैक्षणिककार्यक्रमैः नित्यं बहवः छात्राः शिक्षणं प्राप्नुवन्ति। 

(3) आरोग्यक्षेत्रे परिवर्तनम्- आकाशवाण्यां, दूरदर्शने एवं मुद्रितमाध्यमेषु प्रसारितैः आरोग्यविषयककार्यक्रमैः विग्नापनैश्च जनाः एतद्विषयक्कं सम्पूर्णं ज्नानमधिगछति आरोग्यविषये जना जाग्रुताः भूत्वा स्वजीवनं निरामयं कुर्वन्ति। भोजनविषये पोषणविषये चिकित्साविशये च वैग्नानिकमर्गदर्शनम् एतैः माध्यमैह् प्राप्यते येन आरोग्यस्तरेपि वृद्धिः लक्ष्यते। येषां प्रश्नानां पृष्टे जनाः लज्जामनुभवन्ति तेषामुत्तराणि सन्चारमाध्यमैः सरलतया प्राप्नुवन्ति। (4) आर्थिकक्षेत्रे परिवर्तनम्- आर्थिकदृष्ट्या समीक्षिते सति ज्नायते यत् समूहसन्चारमाध्यमानां आर्थिकक्षेत्रे महद्योगदानं वर्तते। आर्थिकक्षेत्रे राष्ट्रस्य विकासाय एतानि साधनानि अतीव सहायकानि सध्यन्ति। कृषिः- अस्माकं देशः कृषिप्रधानदेशोस्ति। अस्माकं देशस्य अधिकांशजनाः क्ऱुषिमादारिकृत्य जीवन्तः सन्ति। अतः नूनमवश्यकता अस्ति यत् सन्चारमाध्यमानां समुचितप्रयोगेन उत्पादने वृद्धिः स्यात्। कृषेः आधुनिकपद्धतीनां रासायनिकोर्वरकस्य,संशोधितबीजानां कृषकः व्यवहारे प्रयोगं कृत्वा समृद्धः भवेत्तदर्थं विविधानां कार्यक्रमाणां आकाशवाण्यां दूरदर्शने च आयोजनम्। उद्योगः- समूहमध्यमैः प्रदत्तसूचनाभिः उद्योगविषयकं विविधं ज्नानं जनाः प्राप्नुवन्ति। उद्योगक्षेत्रे योग्यजनाः कार्यक्रमैः भविष्यत्काले तद्द्ययोगानां कीदृशी उपयोगितां भविश्यति? इति ज्नातुं प्रभवन्ति। अनेन सहैव छात्राः अपि स्वशिक्षणे तस्योगयोगित्वं माध्यमैः प्राप्य आजीविकां प्राप्नुवन्ति। उद्योगाय कियत् स्थलं, कियत् धनं, कियन्तश्च जनाह् अपेक्ष्यन्ते इत्याकलनं एताऐः माध्यमैः सारल्येन भवितुं शक्यते। आजीविकाः विभिन्नेषु वर्तमानपत्रेषु अपि चान्येषु मुद्रितमाध्यमेषु प्रातिदिनं सर्वकारियाजीविकायाः स्वैच्छिकाजीविकायाश्च विषये विज्नापनानि सूचनाश्च प्रकाश्यन्ते येन शिक्षितः जनः तत् पटित्वा स्वशैक्षणिकयोग्यतानुरूपं आजीविकप्राप्तये आवेदनं करोति, लेखितपरिक्षा-साक्षात्कारप्रक्रियानन्तरन्च आजीविका प्राप्नोति। वर्तमानकाले अन्तर्जालमाध्यमेन, दूरभाषसन्देशमाध्यमेनापि आजीविकविषयकसूचनाः प्राप्तुं शक्यन्ते। (5) सामाजिकक्षेत्रे परिवर्तनम्- समूहसन्चारमाध्यमैः सामाजिकक्षेत्रे अपि महति क्रान्ति दृश्यते। समाजे बहूनि परिवर्तनानि एतैः माध्यमैः जातानि सन्ति। समाजसुधारकैः कौमुदी-डंडीयो-इन्डियन् सोश्यल रिफार्मर्र्सद्ऱुशानि बहूनि समाजनिर्माणविषयकपत्राणि प्रकाशितानि येन् बालविवाह् विधावाविवाहनिषेध-अस्प्रुश्यता-दहेजप्रता-मुखाच्छादनप्रथादीनां कुरीतीनां निवारणविचारणां प्रसरोभवत्। यंग इन्डिया एवं हरिजनपत्रेषु महात्मा गान्धिनः समाजशुद्धिविषयलेखैः जनजागृतिः जताः। (6) कलाक्षेत्रे परिवर्तनम्- आकाशवाण्यां दूरदर्शने च कलाधारिताः अनेके कार्यक्रमाः प्रसार्यन्ते। येन कलाजगतः कलाकारविषयकं विविधं ज्नानं प्राप्यते। जनानां हस्तकला-लोकगीत-चित्रकला-लोकवाद्यदिषु बहूषु कलासु रुचिः जायते। सर्वकारः अपि पाराम्परिकलोककलायाः संरक्षणाय प्रोत्साहनं प्रयच्छति। जनाः समूहसन्चारमाध्यमैरेव कलाशिक्षणाय प्रेरिताः भवन्ति।