सदस्यसम्भाषणम्:Charan P Shetti/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

छतरपुरात् सागरम् गन्तव्यमासीत् । यात्रापत्रम् ग्रुहीत्वा मध्यप्रदेश- राज्यपरिवहन​- निगमस्य बसयाने अहमुपविश्टः । मईमास आसीत् । अहो सन्तापो निदाघकालस्य । हिमशीतलम् पेयम् पायम् पायमपि घर्मपरि- क्लिश्टा नववारिसम्पातक्लिन्ना भूरिव मदिया तनुरन्तरन्तरदह्हात । स्वेदस्य धारा वदनात् च्योतन्ति स्म । अन्तरङि्गका स्वेदेन क्लिन्ना प्रुष्टेन वक्शस च सन्सक्ता अभवत् । कञ्चुकोअपि उभयोः पाक्श्र्वयोः सुदूरम् स्वेदाञ्चितः । मुहुर्मुहुः करकर्पतटेन मुखम् गलम् च प्रोछन् हस्ते धारितया पत्रिकया कयाचन व्यजनम् चालयन्निव किन्चुदुच्छ्वसितुमिच्छामि स्म । इतः प्रयाते मयि कोअपि मम आसनम् अधिकूर्यादिति भिया यानादुत्तीर्य बहिर्गत्वा जनसम्मर्दात् नआपाच्च मुक्तिमपि प्राप्तुमक्शमः । अतितराम् काटिन्येन कथन्चिद् यानस्य प्रुष्ठतमे भागे आसनमिदं मया असादितम् । अग्रतो मे अधुनाअपि चत्वारः पन्च्षा वा जना आसनप्राप्तिकाम्यय स्थिताः । ते आसनस्थितान् जनान्- किन्चित् किन्चिदपसर्प्न्तु भवन्तो येन अस्माकमपि भवेदिति साग्रहमरुन्धन्ति स्म । अहम् मणिबन्धघटिकायम् समयम् दर्शम् दर्शम् कदानु कलु यानम् प्रतिश्टेनत इति व्याकुलः प्रतीक्शे । मत्पाश्र्व उपविश्टो महाभागस्तावता कालेन द्विस्त्रिर्मं किं वदति घटिकेति प्रुश्ट्वा अनन्तरम् शासकियबसयानानाम् गमने आगमने च अनियमिततामधिक्रुत्य प्रवचनम् करोति स्म । अहम् गवाक्शाद् वदनम् निस्सर्य अद्राक्शम्- यानचालकः सम्मुखस्थे जलपानग्रुहे स्थिथश्चायम् पिबति स्म । प्रुनस्च मणिबन्धघटिकायाम - वालोकयम् - द्विवादनम् जातमासीत् । अवस्थानके अधिभित्थि लिखितायाम् राज्यपरिवहनसमय सारण्याम् छतरपुरनगरात् भोपालयायिनोअस्य बसयानस्य गमनकाल् उल्लिखित आसीत् साधैकवादनम् । घटिकायाः कण्टकम् कश्टेनैव अग्रे सरति स्म । मम मनसि अमर्षः असूया च साटोपम् वर्धते स्म ।

सञ्चिका:Radhavallabh tripathi


https://upload.wikimedia.org/wikipedia/commons/0/04/Radhavallabh_tripathi.jpg