सदस्यसम्भाषणम्:Dhiyasavla2040468/प्रयोगपृष्ठम्
विषयः योज्यताम्भारतम् (India ): भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे आर्यावर्ते स्थितं गणराज्यम् वर्तते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धो जनतत्न्त्रयुत: देश: एष: । एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः,क्रैस्तधर्मः इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्ट्इण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति । भारतस्य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इत|
बाणभट्टः (Banabhatta ): महाकविः बाणभट्टः गद्यकाव्यजगतः चक्रवर्ती । पद्यं वद्यं गद्यं हृद्यम् इति उक्तिः बाणस्य गद्यप्रबन्धारचनादनन्तरमेव लोकोक्तितामशिश्रियत् इति भाति । कविराजः इति नामा गद्यकविरेकः वदति यत्-सुबन्धुर्बाणभट्टश्चकविराज इति त्रयः इति श्लेषार्थचमत्कारे वयं त्रय एव गद्यकवयः इति साधयति ।शोणानद्याः पश्चिमे तीरे स्थितः प्रीतिकूटम् नाम अग्रहारः (ब्राह्मणानां निवासस्थानम्) बाणस्य जन्मभूमिः आसीत् । वात्स्यायनवंशजः "चिन्तामणिः" बाणस्य पिता । राजदेवी बाणस्य माता । बाणस्य भट्ट इति उपनाम आसीत् ।शैशवे एव बाणस्य मातृवियोगः अभवत् । ततः पिता एव बालस्य रक्षणपोषणभारम् ऊढवान् । समुचिते वयसि विधिवत् उपनयनादिसंस्कारान् विधाय शिक्षणं च प्रादात् । बाणस्य चतुर्दशे वयसि पितापि दिवंगतः । शिक्षको रक्षकश्च पिता यदा मृतः तदा खिन्नः बाणः स्वस्य यौवनारम्भे किंकर्तव्यतामूढः स्वगामं गृहं प्रियान् मित्राणि च त्यक्त्वा एकाकी सन् नाना देशान् बभ्राम । एवं भ्रमता बाणेन शूद्रस्त्रीसञ्जातौ चन्द्रसेनमातृषेणौ, भाषाकविः ईशानः, वारबाणवीसबाणनामानौ विद्वांसौ, वर्णकविः वेणीभारतः जाङ्गलिकः(विषवैद्यः) मयूरः, भिषक्पुत्रः मन्दारकः इत्यादयः बाणस्य नूतनाः सुहृदः समभवन् । एवं च बहुकालं यावत् देशाटनं कृत्वा पुनः स्वग्रामं प्रीतिकूटम् प्रत्याजगाम । इष्टगोष्ठीषु कालयापनं कुर्वन् आसीत् । बाणस्य स्वग्रामागमनं पाण्डित्यं च कर्णाकर्णिकया श्रुत्वा श्रीहर्षसार्वभौमस्य मातुलः चित्रभानोः मित्रं च कृष्णः श्रीहर्षं सम्प्रार्थ्य बाणम् हर्षस्य आस्थानपण्डितमण्डल्यां प्रवेशयामास । ततः किञ्चित्कालानन्तरं बाणः हर्षस्य आप्तमित्रम् अभवत् । बाणः स्वस्य आश्रयदातुः हर्षस्य जीवनचरितम् हर्षचरितम् नामकं ग्रन्थं गद्यरूपेण न्यबध्नात् । भूषणभट्टः बाणभ
सदस्यः:Dhiyasavla2040468/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। सदस्यः:Dhiyasavla2040468/प्रयोगपृष्ठम् में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।