सदस्यसम्भाषणम्:Keerthi.k 2030408/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अमिताभ बच्चन:

अमिताभ बच्चन: (१९४२ - ) प्रमुखः हिन्दी-अभिनेता अस्ति । १९४२तमे वर्षे अक्टोबर् ११ दिनाङ्के अमिताभ-हरिवंश-बच्चनस्य जननम् । एषः ‘बिग् बि’ तथा ‘षहेन् षा’ इत्यपि कथ्यते । १९७०तमस्य दशके आरम्भे “आङ्ग्रि यङ्ग् म्यान्” मानसचित्रेण सह अमिताभः बच्चनः बालिवुड् चलनचित्रे आरम्भिकतया जनप्रियतां गतः । पश्चात् सः भारतीयचलनचित्रस्य इतिहासे अत्यन्तं प्रमुखेषु जनेष्वन्यतमः जातः । बच्चनः स्वीये चलच्चित्रवृत्तिजीवने त्रिस्रः राष्ट्रिय-चलनचित्रप्रशस्तीः द्वादश फिलंफेर् प्रशस्तीः च आसादितवान् । न केवलं तावत् इतराः अनेकाः अपि प्रमुखाः प्रशस्तीः तेन अर्जिताः । अत्युत्तमनट इति क्षेत्रे “फिलंफेर्-प्रशस्ति” निमित्तम् अत्यधिकवारम् अयमेव नामकरणं प्राप्तवान् इति अभिलेखे अङ्कनम् अस्य नाम्नि एव अस्ति । बच्चनेन न केवलं नटनक्षेत्रे कार्यं कृतम् अपि तु पृष्ठभूमिका-गायकत्वेन चित्रनिर्मापकत्वेन ‘टि.वि’निरूपकत्वेन अपि कार्यं कृतम् । अमिताभः १९८४तः १९८७तमवर्षपर्यन्तं यावत् भारतस्य संसत्-सदस्यः अपि आसीत् । नटीं जयाबादुरि इत्येतां सः वृतवान् अस्ति । एतयोः दम्पत्योः श्वेतानन्दा अभिषेक-वच्चनः इति द्वौ पुत्रौ । नटः अभिषेकः नटीम् ऐश्वर्या रै इत्येताम् ऊढवान् अस्ति ।

Refernce-

सञ्चिका:Big b.jpg
Super Star


सञ्चिका:Big B with other Indian Actors.jpg
Big B with other Indian Actors