सदस्यसम्भाषणम्:Minnumariya985/प्रयोगपृष्ठम्
विषयः योज्यताम्बाणभट्ट


महाकविः बाणभट्टः गद्यकाव्यजगतः चक्रवर्ती । पद्यं वद्यं गद्यं हृद्यम् इति उक्तिः बाणस्य गद्यप्रबन्धारचनादनन्तरमेव लोकोक्तितामशिश्रियत् इति भाति । कविराजः इति नामा गद्यकविरेकः वदति यत्-सुबन्धुर्बाणभट्टश्चकविराज इति त्रयः इति श्लेषार्थचमत्कारे वयं त्रय एव गद्यकवयः इति साधयति ।शोणानद्याः पश्चिमे तीरे स्थितः प्रीतिकूटम् नाम अग्रहारः (ब्राह्मणानां निवासस्थानम्) बाणस्य जन्मभूमिः आसीत् । वात्स्यायनवंशजः "चिन्तामणिः" बाणस्य पिता । राजदेवी बाणस्य माता । बाणस्य भट्ट इति उपनाम आसीत् ।शैशवे एव बाणस्य मातृवियोगः अभवत् । ततः पिता एव बालस्य रक्षणपोषणभारम् ऊढवान् । समुचिते वयसि विधिवत् उपनयनादिसंस्कारान् विधाय शिक्षणं च प्रादात् । बाणस्य चतुर्दशे वयसि पितापि दिवंगतः । शिक्षको रक्षकश्च पिता यदा मृतः तदा खिन्नः बाणः स्वस्य यौवनारम्भे किंकर्तव्यतामूढः स्वगामं गृहं प्रियान् मित्राणि च त्यक्त्वा एकाकी सन् नाना देशान् बभ्राम । एवं भ्रमता बाणेन शूद्रस्त्रीसञ्जातौ चन्द्रसेनमातृषेणौ, भाषाकविः ईशानः, वारबाणवीसबाणनामानौ विद्वांसौ, वर्णकविः वेणीभारतः जाङ्गलिकः(विषवैद्यः) मयूरः, भिषक्पुत्रः मन्दारकः इत्यादयः बाणस्य नूतनाः सुहृदः समभवन् । एवं च बहुकालं यावत् देशाटनं कृत्वा पुनः स्वग्रामं प्रीतिकूटम् प्रत्याजगाम । इष्टगोष्ठीषु कालयापनं कुर्वन् आसीत् । बाणस्य स्वग्रामागमनं पाण्डित्यं च कर्णाकर्णिकया श्रुत्वा श्रीहर्षसार्वभौमस्य मातुलः चित्रभानोः मित्रं च कृष्णः श्रीहर्षं सम्प्रार्थ्य बाणम् हर्षस्य आस्थानपण्डितमण्डल्यां प्रवेशयामास । ततः किञ्चित्कालानन्तरं बाणः हर्षस्य आप्तमित्रम् अभवत् । बाणः स्वस्य आश्रयदातुः हर्षस्य जीवनचरितम् हर्षचरितम् नामकं ग्रन्थं गद्यरूपेण न्यबध्नात् । भूषणभट्टः बाणभट्टस्य पुत्रः । कादम्बरीतिगद्यकाव्यस्य उत्तरार्धं भूषणभट्टः अलिखदिति जनश्रुतिः अस्ति । तत्रभवता महाकविना गद्यचक्रवर्तिना कादंबरी इति अभूतपूर्वम् गद्यकाव्यम् विरचितम् । संस्कृतकाव्यरसिकः को वा नजानाति बाणभट्टस्य शुभनाम? । ’बाणोच्छिष्टम् जगत् सर्वम्’ इति प्रशस्तिपरा उक्तिरेव सूचयति बाणकवेः प्रतिभासामग्र्यम् । य: प्रतिभया प्रसिद्ध्या सहृदयप्रियतया च सर्वान् संस्कृतकावीन् अतिशेते, काव्यतत्वस्य विमर्शकैः पण्डितैः औचित्यविचारचर्चासंसदि लब्धयशाः स बाण एव नान्यः । बाणभट्टस्य जन्मभूमिः शोणानद्याः पश्चिमे दिशि विद्यमानः प्रीतिकूटम् नाम अग्रहारः, यस्य पार्श्वे यष्टिगृहं नाम ग्रामः, ततः किञ्चिद्दूरे राज्ञः श्रीहर्षवर्धन(द्वितीयशिलादित्य)स्य राज्यम् ’श्रीकण्ठदेश’ आसीत् । वात्स्यायनवंशचिन्तामणिः चित्रभानुः एतस्य पिता । अस्य मातुः नाम राजदेवी इति । बाणस्य बाल्य् एव मातृवियोगः अजायत । पिता चित्रभानुरेव कुशलमतेः पुत्रस्य रक्षण-पोषणभारम् अवहत् । सत्काले विध्युक्तरीत्या उपनयनादिसंस्कारान्, समुचितां शिक्षां च ददौ । किन्तु अस्य चतुर्दशे वर्षे पिता दिवंगतः ।
Get more Sanskrit Essays. Download now. http://play.google.com/store/apps/details?id=prasad.elexpras.sanskritessays, www.freepressjournal.in/mind-matters/banabhatta-the-great-sanskrit-poet/537107https://www.britannica.com/biography/Bana-Indian-writer
सदस्यः:Minnumariya985/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। सदस्यः:Minnumariya985/प्रयोगपृष्ठम् में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।