सदस्यसम्भाषणम्:Pravasini Mohapatra

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND १०:३९, २६ फरवरी २०१९ (UTC)

व्याकरणस्य प्रयोजनम् भर्तृहरिदिशा[सम्पादयतु]

श्रीमन्महोपाध्यायभर्तृहरिकृतं वाक्यपदीयानुसारं

"व्याकरणस्य प्रयोजनम्"

आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः । प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः ।।

प्रप्तरुपविभागाया यो वाचः परमो रसः । यत्तत् पुण्यतमं ज्योतिस्तस्य मार्गोऽयमाञ्जसः ।।

अर्थप्रवृत्तितत्वानां शब्दा एव निबन्धनम् । तत्वाऽवबोधः शब्दानां नास्ति व्याकरणादृते ।।

तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्। पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते।।

यथार्थजातयः सर्वाः शब्दाकृतिनिबन्धनाः। तथैव लोके विद्यानामेषा विद्या पारायणम्।।

इदमाद्यं पदस्थानं सिद्धिसोपानपर्वाणाम् । इयं सा मोक्षमाणानामजिह्ना राजपद्धतिः ।।

अत्रातीतविपर्यासः केवलामनुपश्यति । छन्दस्यः छन्दसां योनिमात्मा छन्दोमयीं तनुम् ।।

प्रत्यस्तमितभेदाया यद् वाचो रूपमुत्तमम् । यदस्मिन्नेव तमसि ज्योतिः शुद्धं प्रवर्तते ।।

वैकृतं समातिक्रान्ता मूर्तिव्यापारदर्शनम् । व्यतीत्यालोकतमसी प्रकाशं यमुपासते ।।

यत्र वाचो निमित्तानि चिह्नानीवाक्षरस्मृतेः । शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ।।

अथर्वणामङ्गिरसां साम्नामृग्यजुषस्य च । यस्मिन्नुच्चावचा वर्णाः पृथक्स्थितिपरिग्रहाः ।।

यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते । तद् व्यकरणमागम्य परं ब्रह्माधिगम्यते ।। ( वाक्यपदीयम्, तत्रत्यं ब्रह्मकाण्डाख्यं प्रथमं काण्डम् )

किशोरावस्था[सम्पादयतु]

किशोर अवस्था (Adolescence) – किशोरावस्था जीवनस्य वसन्तकालोऽस्ति। अंस्यामवस्थायां व्यक्तिः न तु बालकः भवति न च प्रौढः। व्यक्तेः विकासाय विभिन्नावस्थासु किशोरावस्था अत्यधिकमहत्त्वपूर्णा अवस्था मन्यते। किशोरावस्थायाः प्रमुखविशेषताः (Characteristics of Adolescence) - a) किशोरावस्थायां मानसिकविकासोऽधिकमात्रायां भवति। बुद्धेः विकासः अस्यामवस्थायां चरमबिन्दोः उपरि आगच्छति। किशोरे चिन्तनं, तर्कः निर्णयशक्तिश्च वर्धते। b) किशोरावस्थायां परिवर्तनं शैशवास्थावत् तीव्रगत्या भवति। शारीरिक परिवर्तनस्य फलस्वरूपेण किशोरस्य शारीरिकदीर्घतायां भारे च वृद्धिः भवति। तथा च अस्थीनां दृढ़ीकरणम् आरभ्यते। c) किशोरावस्थायां कल्पनायाः प्रधानता भवति। सः दिवास्वप्नस्य संसारे विचरति। दिवास्वप्नखधारेण किशोरः कवितां, कथां, लेखादीन् लेखनाय प्रेरितो भवति। d) अस्यामवस्थायां संवेगानां प्रभावः तस्य व्यवहारस्योपरि द्रष्टुं शक्यते। सुखदुःखसंवेगहेतोः आनन्देन प्रेरितः दुःखेन निराशः च भवति। e) किशोरेषु वीरपूजायाः भावना तथा आदर्शभावना विकसिता भवति। ये आदर्शपुरुषाणामनुकरणं कुर्वन्ति, ते सर्वं स्वादर्शपुरुषवत् कर्त्तुं यतते। f) किशोरे स्वाभिमानस्य भावनायाः विकासो भवति । ते पित्रोः अध्यपकस्य च नियन्त्रणं न इच्छन्ति । g) उत्तरकिशोरावस्थायां चिंतानां प्रवलप्रभावो भवति। किशोरः मुख्यतः सुन्दरतायाः, अध्ययनस्य, विवाहस्य, भविष्यस्य व्यवहारस्य च विषये अधिकाः चिंतिंताः भवन्ति। h) आयुषि वृद्धिना सह रुचिषु अपि परिवर्तनं भवति। स्ट्रोंगानुसारं, १५ वर्षस्य आयुः पर्यन्तं किशोराणां रुचयः परिवर्तिताः भवन्ति, किन्तु तदनन्तरं तेषु स्थरता आगच्छति। i) किशोरावस्थायां सामूहिकतायाः भावनायामपि वृद्धिः भवति। किशोराः यस्य समूहस्य सदस्याः भवन्ति, तं ते स्वपरिवारात् अपि अधिकं महत्वपूर्णं मन्यन्ते। j) किशोरावस्थायां बालके सामाजिकचेतना अतिविकासिता भवति । तस्मिन् स्नेहस्य, सहकिरितायाः, विश्वासादिगुणानां विकासो भवति । k) किशोरावस्थायां बालके आत्मनिर्भरस्य भावस्य विकसितत्वात् भाविव्यवसायस्य चयनाय चिंतिंतः भवति। l) किशोरावस्थायाः महत्वपूर्णलक्षणं यौनिकविकासोऽस्ति । अतः बालके स्वप्रेम, समलिंगीयकामुकता, विषमलिंगीकामुकता आदिभावनायाः विकासो भवति।