सदस्यसम्भाषणम्:Premsai 7007
विषयः योज्यताम् पञ्चतन्त्रम् - इत्यस्मात् पुनर् निर्दिष्टम्
लेखक - विष्णुशर्मा
कथामुखम्
ओं नमः श्रीशारदागणपतिगुरुभ्यः । महाकविभ्यो नमः । ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिद्रः कुबेरः चन्द्रादित्यौ सरस्वत्यदधियुगनगा वायुरुर्वीभुजङ्गाः । सिढा नद्यो श्विनौ श्रीर् दितिर् अदितिसुता मातरश् चंडिकाद्या वेदास्तीर्थानि यक्षा गणवसुमुनयः पन्तु नित्यं ग्रहाश्च ॥ मनवे वाचस्पतये शुक्राय पराशराय ससुताय। चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥०.१॥ सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम्। तन्त्रैः पञ्चभिरैतच्चकार सुममोहरं शास्त्रम् ॥०.२॥ तद् यथानुश्रूयते। अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र सकलार्थिसार्थकल्पद्रुमः प्रवरङक्पमुकुटमणिम् अजरीचयचर्चितचरणयुगलः सकलकल्पपारंगतेऽमरशक्तिर्नाम राजा बभूव। तस्य त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो बभूवुः। अथ राजा तान् शास्त्रविमुखान् आलोक्य सचिवान् आहूय प्रोवाच । भोः ज्ञातम् एतद् भवद्भिर्यः ममैते त्रयोऽपि पुत्राः शास्त्रविमुखा विवेकहीनाश्च। तदेतान् पश्यतो मे महदपि राज्यं न सौख्यम् आवहति । अथवा साध्विदम् उच्यते अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम्। यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत्। वरं गर्भस्रवो वरं मृतेषु नैवाभिगमनम् वरं जातः प्रोतो वरमपि च कंयैव जनिता। वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिः न चाविदग्धान् रूपद्रविणगुणयुक्तोऽपि तनयः। किं तया क्रियते धेन्वा या न सूते न दुग्धदा। कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान्। तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपायो नुष्ठीयताम् । अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति। ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति। तत्रैकः प्रोवाचदेव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्मशास्त्राणि आदीनि अर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि। एवञ्च ततो दर्मार्थकामशास्त्राणि ज्ञायन्ते। ततः प्रतिबोधनं भवति। अथ तन्मध्यतः सुमतिर्नाम सचिवः प्राह । अशाश्वतो यं जीवितव्यविषयः। प्रभूतकालज्ञेयानि शब्दशास्त्राणि। तत् सङ्क्षेपमात्रं शास्त्रं किञ्चितेतेषां प्रबोधनार्थं चिन्त्यतामिति। उक्तं च यतः अनन्तपारं किल शब्दशास्त्रम् स्वल्पं तथायुर्वहवश्च विघ्नाः। सारं ततो ग्राह्यमपास्य फल्गु हंसैर्ययथा क्षीरमिवाम्बुध्यात्। तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमः छात्रसंसदि लब्धकीर्तिः। तस्मै समर्पयतु एतान्। स नूनं द्राक् प्रबुद्धान् करिष्यति इति। स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच । भोः भगवन् मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग् यथानंयषड्दर्शनान् विदधासि तथा कुरु। तदाहं त्वां शासनशतेन योजयिष्यामि। अथ विष्णुशर्मा तं राजानमाहदेव श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि। पुनरेतान् तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि। अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मन्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्व्यतिम् आजगाम। विष्णुशर्मणापि तान् आदाय तदर्थं मित्रभॆदमित्रप्राप्तिकाकोलूकीयलब्धप्रणाशापरीक्षितकारकाणि चेति पञ्चन्त्राणि रचयित्वा पाठिताः ते राजपुत्राः। तेपि तानधीत्य मासषट्केन यथोक्ताः संवृत्ताः। ततः प्रभृत्येतत् पञ्चतन्त्रं नाम नीतिशास्त्रं बालबोधनार्थं भूतले प्रवृत्तम्। किं बहुना अधीते य इदं नित्यं नीतिशास्त्रं श्रुणोति च। न पराभवमवाप्नोति शक्रादपि कदाचन। इति कथामुखम्।
Start a discussion with Premsai 7007
Talk pages are where people discuss how to make content on विकिपीडिया the best that it can be. Start a new discussion to connect and collaborate with Premsai 7007. What you say here will be public for others to see.