सदस्यसम्भाषणम्:Saisaranya99/प्रयोगपृष्ठम्
विषयः योज्यताम्मुख्यमंत्री श्री नरेन्द्र मोदी
उत्तरगुजरातस्य महेसाणाजनपदस्य वडनगरनामक: कश्चन लघुग्राम:, यत्र १९५० (1950) तमे वर्षे सप्टेम्बरमासस्य सप्तदशदिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्। संस्कृते: प्रभावात् औदार्यं, परोपकार:, सामाजिकसेवामूल्यानि च बाल्यादेव वर्धितानि। १९५०-६० (1950-60) तमवर्षेषु भारत-पाकिस्तानयो: युद्धावसरे लघुवयसि अपि स्थानान्तरणावसरे सैनिकानां सेवां स्वेच्छया कृतवान्। १९६७ तमे वर्षे गुजरातस्य जलाप्लावेन पीडितानां सेवां कृतवान्। सङ्घटनात्मककार्येषु सामथ्र्यकारणत: मनोविज्ञाने च नैपुण्यकारणात् स: अखिलभारतीयविद्यार्थिपरषद: छात्रनेतत्वेन चित:। तत: तेन गुजराते विभिन्नेषु सामाजिक - राजकीय - आन्दोलनेषु महत्त्वपूर्णा भूमिका ऊढा।
किशोरावस्थाया: आरभ्य एव तेन बह्व्य: समस्या: बहूनि कष्टानि च सम्मुखीकृतानि, परं स्वव्यक्तित्वस्य सम्पूर्णशक्त्या: साहसेन च सर्वाण्यपि आहवानानि अवसररूपेण परिवर्तितानि। विशिष्य यदा उच्चशिक्षणं प्राप्तुं तेन महाविद्यालय विश्वविद्यालये च प्रवेश: प्राप्त: तदा तस्य मार्ग: सङ्घर्षै: कष्टदायकपरिश्रमै: च आवृत: आसीत् परं जीवनसङ्घर्षे स: सर्वदा एक: योद्धा आसीत्, सत्यनिष् सैनि: च आसीत्। एकवारं पदं पुर: स्थापयित्वा न कदापि पृष्ठत: अवलोकितम्। तेन न कदापि पराजय: अङ्गीकृत:। एवं दृढश्चियेनैव स: राजनीतिशास्त्रम् अधिकृत्यं अनुस्नातध्ययनं समापयितुं समर्थो जात:। येन भारतस्य सामाजिक: सांस्कृतिक: विकास: च सर्वदा इष्ट: (लक्षित:) तादृशस्य राष्ट्रीयस्वयंसेवकसङ्घस्य सङ्घटनस्य कार्येण कार्यम् आरब्धम्। अनेन कार्येण एव नि:स्वार्थता सामाजिकम् उत्तरदायित्वं समर्पणंराष्ट्रवाद: च इत्येतेषां भावना: आत्मसात् कृता:।
आर्. एस्. एस्. मध्ये स्व-कार्यकालावसरे श्री नरेन्द्रमोदीवर्य: १९७४ (1974) तमे वर्षे भ्रष्टाचारविरुद्धे आन्दोलने आपातकाले यदा भारतीय नागरिकाणां मूलाधिकाराणां हननं जायमानम् आसीत् तदा तादृशेषु अवसरेषु तेन महत्त्वपूर्णा: भूमिका: निरूढा:
मोदीजी अस्मिन् समये भूगर्भवासं कृत्वा गप्ततया केन्द्रसर्वकारस्य दुष्टनीतिनां विरुद्धं शक्तिपूर्वकं युद्धं कृत्वा प्रजशासनस्य (लोकशासनस्य) भावनां जीवितां रक्षितवान्।
१९८७ (1987) तमे वर्षे भारतीयजनतापक्षे स्वात्मानं योजयित्वा राजनीते: मुख्यधारायां प्रविष्ट:। वर्षस्य अन्ते गुजरातस्य महामन्त्रिपदे स: नियुक्त:। तावता अत्यन्तं कुशलसङ्घटकत्वेन ख्याति: अपि प्राप्ता।
वस्तुत: तेन पक्षस्य कार्यकर्तृन् सक्रियान् कर्तुम् आह्वानरूपं कार्यं स्वीकृतम्। तस्मदेव कारणात् पक्षेण जकीयलाभा: अपि प्राप्ता:। १९९० तमे वर्षे (1990) एप्रिल् मासे केन्द्रीयशासने मिश्रसर्वकारस्य रचना अभूत्। कतिचन मासानाम् अनन्तरम् एव इदं राजनैतिक सम्मिश्रणं नष्टम् अभवत्। परं २/३ बहुमतं प्राप्य भारतीयजनतापक्ष: गुजराते सत्तारूढ: जात:। तदा आरभ्य गुजरातस्य शासनसूत्रं भारतीयजनतापक्षस्य हस्ते अस्ति।
१९८८ त: १९९५ पर्यन्तं य: काल: अतीत: तस्मिन्नेव काले श्रीनरेन्द्रमोदी वर्यस्य परिचय: कुशल: रणनीतिज्ञ: इति रूपेण उद्भूत:। येन च गुजराते भारतीयजनतापक्ष: शासनकर्तृ - पक्षत्वेन सफलतापूर्वकं परिचायित:। अस्मिन्नेव काले अत्यन्तं महत्वपूर्णयो: द्वयो: कार्यक्रमयो: आयोजनस्य उत्तरदायित्वं मोदीमहोदयाय दत्तम्। तत्र प्रथमम् आसीत् श्रीमत: लालकृष्ण - अडवाणीमहाशयस्य सोमनाथात् आरभ्य अयोध्यां यावत् आयोजिता रथयात्रा। तद्वदेव भारतस्य दक्षिण भागात् कन्याकुमारीत: कश्मीरं यावत् एका यात्रा। १९९८ (1998) तमे वर्षे देहल्यां शासनं परिवत्र्य भाजपस्य उदयार्थं श्रेयो यदि देय: तर्हि तदेताभ्यां कार्यक्रमाभ्याम्, यस्य उत्तरदायित्वं मुख्यत्वेन मोदीवर्येण ऊढम्।
सदस्यः:Saisaranya99/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। सदस्यः:Saisaranya99/प्रयोगपृष्ठम् में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।