सदस्यसम्भाषणम्:Sm.lekhana/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नवरत्नानि[सम्पादयतु]

[[चित्रम्:|thumb

Gems P4061909

|right|200px|]]

वराहमिहिरेण बृहत्संहितायां बहोःकामात् पूर्वमेव द्वाविंशतिरत्नानि प्रतिपादितानि।

     वज्रेन्द्रनीलमरकतकर्केतरपरागरुधिराख्याः।
     वैढूर्यपुलकविमलकराजमणिस्फटिकशशिकान्ताः॥
     सौगन्धिकगोमेधिकशङ्कमहानीलपुष्प परागाख्याः।
     ब्रह्यमणिज्योतिरससस्यकमुक्ताप्रवालानि॥

१- पद्मरागः[सम्पादयतु]

[[चित्रम्:

Calcite-Corundum-dtn25b

|thumb|right|200px|]]

भौतिकलक्षणम् पद्मरागः अन्यत् नाम् माणिक्यम् इति। पद्मरागस्य उत्पत्तेर्लक्षणमाहः-

    सौगन्धिककुरुविन्दस्फतिकेभ्यः पद्मरागसम्भुतिः।
    सौगन्धिकजा भ्रमराञ्जनाब्जम्बूरसध्युतयः॥
   
    कुरुविन्द्भवाः शबला मन्दद्युतयश्च धातुभिर्विद्दाः।
    स्फतिकभवा द्युतिमन्तो नानावर्णा विशुद्दाश्च॥

अत्र भट्टोत्पलस्य व्याख्या-

    सौगन्धिककुरुविन्दौ धातुविशेषौ। स्फटिकः स्फटिकोपलः। एभ्यः पद्मरागाणां सम्भुतिरुत्पत्तिः। तत्र च ये भ्रमरद्युतयो द्विरेफसमकान्तयः। अञ्जनद्युतयः। अब्जवर्णा उत्पलवर्णा वा तत्तुल्यकान्तयः। जम्बूरसद्युतयः जम्बुर्व्र्क्षविशेषः। तद्रससमकान्तयो लोहितवर्णाः। ते सौगन्धिकजाः॥
    ये तु शबलाः शुक्लक्रष्णव्यामिश्राः। मन्दध्युयुतयोऽल्प कान्तयः। धातुभिम्रत्तिकादिभिव्रिद्दाः सकलङ्कास्तत्संयोगाज्जातास्ते कुरुविन्दभवाः कुरुविन्दजाताः। ये च द्युतिमन्तः प्रभावन्तो नानावर्णा विचित्रा विशुद्दा निर्मलास्ते स्फटिकभवाः स्फटिकसम्भूताः॥ 

अधुना पद्मरागस्य गुणाः

     स्निग्धः प्रभानुलेपि स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः।
     अन्तः प्रभोऽतिरागौ मणिरत्नगुणाः समस्तानाम्॥

अथ प्रभावः

     यस्तं बिभ्र्ति मनुजाधिपतिर्न तस्य
     दोषा भवन्ति विषरोगक्र्ताः कदाचित्।
     राष्ट्रे च नित्यमभिवर्षति तस्य देवः
     शत्रूंश्च नाशयति तस्य मणेः प्रभावात्॥

प्रकृतो लभ्यमानः पद्मरागः षोडा विभस्तः इति रत्नप्रीक्षाख्यगन्थे विवृतः।

२- मौक्तिकम्[सम्पादयतु]

[[चित्रम्:

Pearl-variety hg

|thumb|right|200px|]]

  मौक्तिकम् चन्द्रस्य प्रीतिकरम्। मैक्तिकस्य आकारः। मौक्तिकानि स्वच्छश्वेतवर्णेन प्रकाशन्ते। वराहमिहिरस्य बृहत्संहितायां मौक्तिकस्य उत्पतिः इत्थं वर्णितम् अस्ति।
     द्विपभुजगशुक्तिशङ्काभ्र्वेणुतिमिसूकरप्रसूतानि।
     मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति॥

प्रकृति लभ्यमानानि मौक्तिकानि अष्टधा विभक्तानि इति संहिताविवृतौ मुक्तकलक्षणं नाम अशीतितमे अध्याये विवृतम्।

 १ गजमुक्तफालम्, २ नागजमुक्ताफलम्, ३ मुक्तफलमुक्तम्, ४ शङ्खमुक्तम्, ५ मेघसम्भुतमुक्ताफ्लम्, ६ वेणु मुक्तम्, ७ तिमिजस्य मुक्ताफलम्, ८ वराहजस्य मुक्ताफलम्॥


३- प्रवालः[सम्पादयतु]

[[चित्रम्:

Coral reef at palmyra

|thumb|right|200px|]]

रत्नपरीक्षाख्येस्मिन् ग्रन्थे प्रवालः ब्र्ह्य, क्षत्रिय, वैश्य, शूद्र रूपेण चतुर्धा विभक्तः। प्रवालधारणेन मनश्शन्तिः, कुतुम्बे एकतासम्प्त् वृद्दिः जायते। प्रवालं भस्मीकृत्य स्वीकरणेन अजीर्णव्याधिनिवारणं भवति। प्रवालस्य इतरनामानि १ विदृमः, २ लतामणिः, ३ रत्नाङ्गम्, ४ अङ्गारकमणिः, ५ भीमरत्नम् इत्यादीनि।

४- मरकतम्[सम्पादयतु]

[[चित्रम्:

Beryl-27323

|thumb|right|200px|]]

हरीतवर्णे प्रकाशमानम् इदं रत्नम् बुधस्य प्रीतिकरम् इति आमनन्ति। बृहत् संहितायां मरकतस्य लक्षणम् एवं व्याख्यायते।

      शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम्।
      सुरपितृकार्येऽमरकतमतिवशुभदं नृणां विहितम्॥

मरकतस्य भारणेन ऐश्वर्याभिवृद्दिः, शान्तिः, प्रतिष्टा, एधन्ते। मरकत धारणेन विषप्रयोगोपि विफलायते इति एतस्य औषधलाभः वत, पैत्यादि रोगाः नश्यन्ते, गर्भिणीस्त्रीणां विषयेऽपिमरक बहु उपयोगकरम् इति विश्वासः॥

५- पुष्यरागः[सम्पादयतु]

[[चित्रम्:

117kgTopazFromBrazil NaturhistorischesMuseum Nov14-10

|thumb|right|200px|]]

सुविशालप्रकृत्यां वर्तमानाः सर्वेवर्णाः पुष्यरागे अन्तर्भवन्ति इदं रत्नं गुरुग्रह प्रीतिकरं इति संस्थूयते। अयं तु पुष्यरागः बृहत्संहिताय एवं वर्णितः।

      ईषत्पीतं पविच्छायं स्वच्छं कल्पमनोहरम्।
      पुष्यरागमिति ख्यातं रत्नं रत्नपरीक्षकैः॥

अधुना एतेषां गुणानाह

      स्निग्धः प्रभानुलेपी स्वच्छोर्चिष्मान् गुरुः सुसंस्थानः।
      अन्तः प्रभोऽतिरागो मण्रन्तगुणाः समस्तानाम्॥

एतस्य धारणेन काशरोगः, अस्तीनां बलहीनता इत्यादि रोगाः दूरीकृताः भवेयुः। पुष्यरागेण पुत्रसन्तानमपि लभ्यते इति जनानां विश्वासः। मेधाशक्तिः, धनलाभः, विद्यालाभश्च सञ्जायते।

६- वज्रम्[सम्पादयतु]

[[चित्रम्:

CZ brilliant

|thumb|right|200px|]]

नवरत्नेषु वज्रस्य नम सर्वजनाविदितमेव। इदं वज्रं वेणा नम नद्याः तीरे विशुद्दं दोषरहितम् उपलभ्यते इति वराहमिहीरस्य वचनानि।

      वेणातटे विशुद्दं शिरिषकुसुमप्रभंच कौशलकम्।
      सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम्॥

शिरीषकुसुमसंकाशं कोसलदेश सम्भूतं प्रकाशते। सौराष्ट्रे उपलभ्यमानं वज्रम् ऍषत् लोहितं भूत्वा प्रकाशते इति बृहत्संहितायां सुष्टुपपादितम्॥

      ईषत्ताम्रं हिमवति मतङ्ग्जं वल्लपुष्पसङ्काशम्।
      आपीतं च कलिङे श्यामं पौण्डेषु सन्भूतम्॥

शुक्रग्रहस्य प्रितिकरम् इदं वज्रं नपुं-स्त्री-पुंरूपेण त्रिधा विभज्यते। उत्तरोत्तरस्य आधिक्यं तु स्वीकरणीयम्॥ यद्दज्रं षड्भिः कोणैर्योक्तं तत् ऐन्द्रम् इत्युच्यते। एवं वज्रस्य दैवत्व विषयेपि प्रमाणानि उपलभ्यन्ते। यथा-

      ऐन्द्रं षडश्रि शुक्लं याम्यं सर्पास्यरूपमसितं च।
      कदलीकाण्ड्निकाशं वैष्णमिति सर्वसंस्थानम्॥
      वारुणमबलागुह्योपमं भवेत् कर्णिकारपुष्पनिभम्।
      श्रृङ्गाटकसंस्थानं व्याग्ग्राक्षिनिभं च हौतभुजम्॥
      वायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम्।
      स्तोतः खनिः प्रकीर्णकमित्याकरसम्भवस्त्रिविधः॥

सन्दर्भेस्मिन् शुभवज्रस्य लक्षणम् एवं प्रस्तुयते।

      सर्वद्रव्याभेद्यं लग्ग्वम्भसि तरति रश्मिवत् स्निग्धम्।
      तडिदनलशक्तचापौपमं च वज्रं हितयोक्तम्॥

यद्दज्रं सर्वद्रव्याभेद्यं न केनचित् शस्त्रादिनापि भिद्यते, लग्गुगौरववर्जितम् जले निमज्जति, रश्मिवत् किरणाः विद्यन्ते तद्दज्रं शुभकरं श्रेयसे भवति।

७- नीलः[सम्पादयतु]

[[चित्रम्:

Black Star of Queensland Star Sapphire2

|thumb|right|200px|]]

शनिभगवतः प्रीतिपात्रम् इदं महानीलं सर्वशुभङ्करम्, एतस्य धारणेन राजयोगः सिद्ध्यति इति विश्वासः। रत्नशास्त्रे त्रिविधानि नीलरत्नानि कथितानि।

      १ इन्द्रनीलम्- केशा इव अत्यन्त नील्वर्णसहितम्।
      २ महनीलम्- भूमौ यदि स्थापयामः तर्हि परितः सर्वत्र नीलमयं भासते।
      ३ नीलमणि- विष्णुकान्तपुष्पवत् प्रकाशते॥

रत्नपरिक्षाख्ये अस्मिन् ग्रन्थे नीलमणिमुद्दिश्य अधोनिर्दिश्टाः श्लोकाः प्रोक्ताः।

      ब्राह्यणा क्षत्रिया वैश्याः शूद्राश्कैव चतुर्विधाः।
      स्त्रि पुंनपुंसकाश्चैव त्रिधा ते रत्ननिर्णयात्॥
      वज्रादयोऽपि ये केचित्तेजोवन्तो बृहत्त्राः।
      वृत्तास्ते पुरुषाग्नेया भिन्दुरिखादिवर्जिताः॥
      रेखभिन्दुसमायुक्ताः खण्डशस्तास्त्रियः स्मृताः।
      सुतेजसः सत्त्ववन्तो भाशणे तानि योजयेत्॥
      त्रासः काकपदं रेखा सौक्ष्म्यं स्फुटितबिन्दवः।
      मालिन्यमिति यस्य स्यस्तत्क्लिबं स्यात्कनिश्टकम्॥
      पुंलिङ्ह्ं सुमहारन्नं यस्य गेहेऽस्ति सर्वदा।
      तस्य भाग्यवतो भूयात् पुरुषार्थचतुष्टयम्॥
      स्त्रीलिङ्ग्रत्नं मुनयो यस्य कोशेऽस्ति नित्यशः।
      स्त्रिर्त्नंश्च लभेत्तस्य पुत्रपौत्रादिकं फलम्॥

८- गोमेधिकम्[सम्पादयतु]

[[चित्रम्:

NSRW Stones Precious

|thumb|right|200px|]]

राहुग्रहस्य प्रीतिकरम् इदं गोमेधिकं गोमुत्रवर्णे परिदृश्यते। अत एव एतस्य गोमेधिकम् इति नाम् सर्थकं भवति। इदं रत्नं हिमालयपर्वतप्रान्तेषु सुर्यकान्तगोमेधिकम्, चद्र्कान्त गोमेधिकम् इति द्विप्रकारेण उपलभ्यते। सूर्यस्य पुरतः अग्निज्वाला इव परिदृश्यमानं सूर्यकान्तगोमेधिकम् इति। चन्द्रकान्तिवेलायां हिमवत्शौत्यं प्रदर्शयति चेत् तत् चन्द्रकान्तगोमेधिकम् इति गौमेधिकस्य लक्षणद्वयम्। एतस्य रत्नस्य विषये अस्मिन् ग्रन्थे एवं श्रुयते चर्चिताः । यथा

     मधुबिन्दुसमं वापि गोमूत्रोग्गसमप्रभम्।
     गोमेधिकं तदाख्यातं रत्नसोममहिभुजा॥

९- वैडुर्यम् (मरकतम्)[सम्पादयतु]

[[चित्रम्:

Victoria Stone Cat's Eye

|thumb|right|200px|]]

केतुग्रहस्य प्रीतिकरमिदं मरकतं शुकपक्षवर्णसदृशम्। कदलीसदृशं शिरीषकुसुम- तुल्यवर्णं भवति। वैडूर्यस्य लक्षणं वराहमिहिरेण् इत्थं निर्दिष्टम्

     शुकवंशपत्रकदशिरिषकुसुमप्रभं गुणोपेतम्।
     सुरपितृकर्ये मरकतमतीव शुभदं नृणां विहितम्॥

अस्य रत्नस्य इतरनामानि - १ केतुप्रियं, २ मरकतं, ३ केतुरत्नं, ४ क्यट ऐयि स्टोन्, इत्यदीनि नामानि सुप्रथितानि॥