सदस्यसम्भाषणम्:Soundarya.hiremat/प्रयोगपृष्ठम्
समूहसञ्चारस्य माध्यमानि एवं समाजः
प्रास्ताविकम्
प्राचीनकालादारभ्य अध्यदवधि बहूनां समूहसंचारमाध्यामानां विकासः संलक्ष्यते । मनुष्य-मनुष्ययोः मध्ये सततं सम्पर्कं साधयितुं समूहसञ्चारस्य साधनानामुपयोगो भवति । आधुनिककामस्य सन्दर्भे पश्यामश्चेत् अनेकैः माध्यमैः वयं कस्यापि क्षेत्रस्य, विषयस्य, स्थलस्य,कार्यस्य वा सूचनां क्षणेनैव प्राप्तुं शक्नुमः । समूहसञ्चारस्य माध्यमैः मनुष्य अध्यतनीययुगेन सह सामञ्जस्यं स्थापयितुं समर्थोऽभवत् । इत्थं समूहसञ्चारस्य माध्यमानां समाजेन सह घनिष्ठसम्बन्धः वर्तते । मनुष्यस्य सम्पूर्णविकासेऽपि एतेषां माध्यमानां विशिष्टं योगदानं वर्तते । 'संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्' इति वेदवचनं समूहसञ्चारमाध्यमैः सार्थकं भवति । अध्य मानवः एतषां यथोचितमुपयोगं कृत्वा निजसमस्याभिः मुक्तो भवितुं शक्नोति । अध्य कस्यापि देशस्य कामपि वार्तां वयम् एतैः माध्यमैः ग्नातुं शक्नुमः । इत्थं वक्तुं शक्नुमः यत् समूहसञचारमाध्यमानि अस्माकं दैनिकजीवनस्य मूलभूतावश्यकतारूपेण सन्ति ।
सञ्चारस्यार्थः
सञ्चारशब्दस्य निष्पतिः संस्कृतभाषाया 'चर्' इति धातुः भवति । 'चर् गतिभक्षणयोः' इति धातुः पाणिनीयधातुपाठे पठितः । ' कोमुनिस्' इति लेटिनभाषायाः 'कोम्युनिकेशन' शब्धः निष्पन्नः । कोमन अर्थात् समानः यदा कश्चिज्जनः केनापि सामाजिकेन जनेन सह सम्पर्के आयाति तदा परस्परं कमपि विचारं, भावं, दृष्टिकोणं सूचनाञ्च प्रापयितुं प्रयत्नशीमलो भवति तदा सा प्रक्रिया सञ्चारशब्देन ग्नायते ।
जोर्ज ए मिलर् नामा समूहसञ्चारस्य अर्थं करोति समूहसञ्चारस्य तात्पर्यं सूचनानां एकस्थानात् अपरत्र प्रापणमेव । चार्ल्स राइटमतेन सञ्चारस्य प्रक्रिया त्रिभिर्प्रकारैः ग्नायते-प्रथमं मनुष्याणां स्वभावेन पध्दत्या च द्वितीयं मानवानां वर्गेण व्यवहारेण च तृतीयं च ये अन्यैः जनैः सह अपरिचिताः भवन्ति तेषां जनानां स्वभावेन । सञ्चारमाध्यमैः अध्य सम्पूर्णं विश्वं लघुग्राम इव संलक्ष्यते । देशस्य विदेशेन सह सर्वेऽपि सम्बन्धाः एतेषां माध्यमेनैव भवन्ति । एतेषां माध्यमानां 'वसुदैव कुटुम्बकम्' इति भावनायाः प्रचारः प्रसारश्च भवति । अतः सर्वथा लाभप्रदानि सञ्चारमाध्यमानि ।
सञ्चारस्य प्रक्रिया
अत्र चत्वारः पदार्थाः भवन्ति - १- प्रषकः २- सन्देशः ३- माध्यमम् ४- प्राप्तकर्ता ।
पारस्परिकसञ्चारः - अस्मिन् माध्यमे द्वौ अथवा ततोऽधिकाः जनाः आदान-प्रदान यत् माध्यमं प्रयुञ्जन्ति सः पारस्परिकसञ्चारः अभिधीयते । पारस्परिकसञ्चाराः समक्षं स्थितानां जनानां कृते अथवा पार्श्वक्षेत्रीयजनानां कृते शक्यो भवति ।
समूहसञ्चारः - समक्षस्थितजनान् यथा वयं वार्तालोपेन सरलतया निजभवान् प्रकटयामः तथा दूरस्थितान् जनान् न् बोधयितुं शक्नुमः । अस्मद्दूरस्थितानां जनानां कृते अथवा भौगोलिकान्तरदृष्ट्या विध्यमानानां जनानां कृते समूहसञ्चारसाधनानामुपयोगो क्रियते । समूहसञ्चारस्य माध्यमेषु आकाशवाणी ( रेडियो ), दूरदर्शनं ( टेलिविजन ), कार्यक्रमः, चलचित्रम्, वर्तमानपत्रम्, सामयिकम् समविश्यते । रीवर्स पीटरसन एवं जॉनसन समूहसञ्चारस्य वैशिष्ट्यं विग्नापयत: यत् - "जनसञ्चारसाधनानि सर्वेषां जनानां कृते भवन्ति न तु कस्यचिद् विशिष्टवर्जगस्य कृते । जनसञ्चारः स्वसन्देशान् मुद्रितसाधनैः श्रव्यसाधनैर्वा प्रकट्यति ।" समूहस्ञ्चारमाध्यमानि वयं नम्नरेखाचित्रेण ग्नातुं शक्नुमः । समूहसञ्चारमाध्यमानि दर्शकान् श्रोतृन् च प्रभावयति । सङ्कणकयन्त्रम् ( कोम्प्युटर ), दूरदर्शनम्, चित्रध्वनिसङ्जग्राहकयन्त्रम् ( विडीयो रेकोर्डर ) एत्यादीनि माध्यमानि सञ्चारस्य प्रभावोत्पादकानि साधनानि सन्ति । दर्शकाः मुग्धाः भूत्वा सरलतया सन्देशम् एतैः माध्यमैः प्राप्नुवन्ति ।
सञ्चारस्य माध्यमानि
प्राचीनकामलादेव सञ्चारसाधनानामुपयोगः भवन्ति स्म । परन्तु गच्छता कालेना सास्यां व्यवस्थायां विकासः दृश्यते । अध्यतनीये काले विश्वं एतावत्विस्तृतं वर्तते यत् परस्परसम्पर्कसाधनाय मनुष्यः अनेकानि माध्यमानि आविष्करोति । येन सरलतया मनुष्यः सूचनायाः आदान-प्रदानं कर्तुमं शक्नोति ।यान्त्रिकेऽस्मिन्युगे विकासं प्राप्य आधुनिकसञ्चारसाधनानि अन्तरिक्षेऽपि विशिष्टां गतिं प्राप्नुवन्ति । एतेषां सञ्चारमाध्यमानां साहाय्येन अन्तरिक्षे स्थित्वा अपि जनः पृथ्वीस्थानीयैः जनैः सह सततं सम्पर्कं साधयति सूचनानाञ्च आदान- प्रदानं करोति । मनुष्यः बहुत्कार्याण्यपि सञ्चारमाध्यमैः सारल्येन कर्तुं प्रभवति । जनसञ्चारस्य प्रमुखमुद्देश्यं वर्तते - जनान् कस्यापि निश्चितलक्ष्यस्य प्राप्तये प्रेरणम् । उदाहरणरुपेण ग्रामीणक्षेत्रे एत्मल्ल्क्ष्यं परिवाराय स्वास्थ्यस्य कृते, अल्पव्ययेन पौष्टिकाहारस्य कृते, कुटुम्बस्य आयवृद्धेः कृते, कृषेः उत्पादनवृद्धेः क्र्ते भवितुं शक्नोति ।परन्तु एतादृशविचाराणां स्थापनाय केवलं पारस्परिकसञ्चारमेव न पार्याप्तम्, तदर्थमन्यमाध्यमान्यपि अपेक्ष्यन्तेः यतः इत्थं उच्चारितः शब्दः अधिकः स्पष्टः भवति । एकाधिकैः माध्यमैः प्रकटितः विचारः प्रभावकारी, स्थायी एवं उपयोगी भवति ।
लोकसञ्चारस्य माध्यमानि
लोकसञ्चारमाध्यमानि एतादृशाणि माध्यमानि सन्ति येषामुपयोगं ग्रामीणाः अशिक्षिताः वा जाना अपि कर्तुं शक्नुवन्ति । आधुनिकसञ्चारमाध्यमानां संशोधनात्पूर्वम् एतानि माध्यमानि अत्यधिकमात्रायां विकसितानि अभवन् । एतैः माध्यमैः सामान्योऽपि जनः मनोरञ्जनेन सह ग्नानं प्राप्नोति स्म । एतेषु माध्यमेषु स्थानिकभाषायाः , वशभूषायाः आवश्यकपरिस्थितीनां च उपयोगः क्रियते स्म । एतानि लोकसञ्चारमाध्यमानि धार्मिकविषयमाधारीकृत्य भवन्ति अथवा लोककथाधातरेण भवन्ति । एतेषु माध्यमेषु कष्ठपुत्तलिकायाः क्रीडा, लोकनाट्यस्य, लोकगीतस्य, रामलीला, भाईनाटकानां समावेशो भवन्ति । अशिक्षितजना अपि ग्नानाभावात् उत्पन्नसमस्यानां समाधानम् एतेषां माध्यमेन सरमतया प्राप्नुवन्ति । एतेषां लोकसञ्चारमाध्यमानाम् उपयोगः आधुनिकसमये सर्वकारेण स्वैच्छिकसंस्थाभिश्च क्रियते । इत्थम् एतेषां लोकसञ्चारमाध्यमानां महदुपयोगित्वं वर्तते ।
Start a discussion about सदस्यः:Soundarya.hiremat/प्रयोगपृष्ठम्
विकिपीडिया की सामग्री को यथासम्भव रूप से सर्वश्रेष्ठ बनाने के लिए लोगों द्वारा जहाँ पर चर्चा की जाती है उन्हें वार्ता पृष्ठ कहा जाता है। सदस्यः:Soundarya.hiremat/प्रयोगपृष्ठम् में सुधार कैसे करें, इसपर अन्यों के साथ चर्चा आरम्भ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।