सदस्यसम्भाषणम्:Soundarya.hiremat/प्रयोगपृष्ठम्
विषयः योज्यताम्समूहसञ्चारस्य माध्यमानि एवं समाजः
प्रास्ताविकम्
प्राचीनकालादारभ्य अध्यदवधि बहूनां समूहसंचारमाध्यामानां विकासः संलक्ष्यते । मनुष्य-मनुष्ययोः मध्ये सततं सम्पर्कं साधयितुं समूहसञ्चारस्य साधनानामुपयोगो भवति । आधुनिककामस्य सन्दर्भे पश्यामश्चेत् अनेकैः माध्यमैः वयं कस्यापि क्षेत्रस्य, विषयस्य, स्थलस्य,कार्यस्य वा सूचनां क्षणेनैव प्राप्तुं शक्नुमः । समूहसञ्चारस्य माध्यमैः मनुष्य अध्यतनीययुगेन सह सामञ्जस्यं स्थापयितुं समर्थोऽभवत् । इत्थं समूहसञ्चारस्य माध्यमानां समाजेन सह घनिष्ठसम्बन्धः वर्तते । मनुष्यस्य सम्पूर्णविकासेऽपि एतेषां माध्यमानां विशिष्टं योगदानं वर्तते । 'संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्' इति वेदवचनं समूहसञ्चारमाध्यमैः सार्थकं भवति । अध्य मानवः एतषां यथोचितमुपयोगं कृत्वा निजसमस्याभिः मुक्तो भवितुं शक्नोति । अध्य कस्यापि देशस्य कामपि वार्तां वयम् एतैः माध्यमैः ग्नातुं शक्नुमः । इत्थं वक्तुं शक्नुमः यत् समूहसञचारमाध्यमानि अस्माकं दैनिकजीवनस्य मूलभूतावश्यकतारूपेण सन्ति ।
सञ्चारस्यार्थः
सञ्चारशब्दस्य निष्पतिः संस्कृतभाषाया 'चर्' इति धातुः भवति । 'चर् गतिभक्षणयोः' इति धातुः पाणिनीयधातुपाठे पठितः । ' कोमुनिस्' इति लेटिनभाषायाः 'कोम्युनिकेशन' शब्धः निष्पन्नः । कोमन अर्थात् समानः यदा कश्चिज्जनः केनापि सामाजिकेन जनेन सह सम्पर्के आयाति तदा परस्परं कमपि विचारं, भावं, दृष्टिकोणं सूचनाञ्च प्रापयितुं प्रयत्नशीमलो भवति तदा सा प्रक्रिया सञ्चारशब्देन ग्नायते ।
जोर्ज ए मिलर् नामा समूहसञ्चारस्य अर्थं करोति समूहसञ्चारस्य तात्पर्यं सूचनानां एकस्थानात् अपरत्र प्रापणमेव । चार्ल्स राइटमतेन सञ्चारस्य प्रक्रिया त्रिभिर्प्रकारैः ग्नायते-प्रथमं मनुष्याणां स्वभावेन पध्दत्या च द्वितीयं मानवानां वर्गेण व्यवहारेण च तृतीयं च ये अन्यैः जनैः सह अपरिचिताः भवन्ति तेषां जनानां स्वभावेन । सञ्चारमाध्यमैः अध्य सम्पूर्णं विश्वं लघुग्राम इव संलक्ष्यते । देशस्य विदेशेन सह सर्वेऽपि सम्बन्धाः एतेषां माध्यमेनैव भवन्ति । एतेषां माध्यमानां 'वसुदैव कुटुम्बकम्' इति भावनायाः प्रचारः प्रसारश्च भवति । अतः सर्वथा लाभप्रदानि सञ्चारमाध्यमानि ।
सञ्चारस्य प्रक्रिया
अत्र चत्वारः पदार्थाः भवन्ति - १- प्रषकः
२- सन्देशः
३- माध्यमम्
४- प्राप्तकर्ता ।
पारस्परिकसञ्चारः - अस्मिन् माध्यमे द्वौ अथवा ततोऽधिकाः जनाः आदान-प्रदान यत् माध्यमं प्रयुञ्जन्ति सः पारस्परिकसञ्चारः अभिधीयते । पारस्परिकसञ्चाराः समक्षं स्थितानां जनानां कृते अथवा पार्श्वक्षेत्रीयजनानां कृते शक्यो भवति ।
समूहसञ्चारः - समक्षस्थितजनान् यथा वयं वार्तालोपेन सरलतया निजभवान् प्रकटयामः तथा दूरस्थितान् जनान् न् बोधयितुं शक्नुमः । अस्मद्दूरस्थितानां जनानां कृते अथवा भौगोलिकान्तरदृष्ट्या विध्यमानानां जनानां कृते समूहसञ्चारसाधनानामुपयोगो क्रियते । समूहसञ्चारस्य माध्यमेषु आकाशवाणी ( रेडियो ), दूरदर्शनं ( टेलिविजन ), कार्यक्रमः, चलचित्रम्, वर्तमानपत्रम्, सामयिकम् समविश्यते । रीवर्स पीटरसन एवं जॉनसन समूहसञ्चारस्य वैशिष्ट्यं विग्नापयत: यत् - "जनसञ्चारसाधनानि सर्वेषां जनानां कृते भवन्ति न तु कस्यचिद् विशिष्टवर्जगस्य कृते । जनसञ्चारः स्वसन्देशान् मुद्रितसाधनैः श्रव्यसाधनैर्वा प्रकट्यति ।" समूहस्ञ्चारमाध्यमानि वयं नम्नरेखाचित्रेण ग्नातुं शक्नुमः । समूहसञ्चारमाध्यमानि दर्शकान् श्रोतृन् च प्रभावयति । सङ्कणकयन्त्रम् ( कोम्प्युटर ), दूरदर्शनम्, चित्रध्वनिसङ्जग्राहकयन्त्रम् ( विडीयो रेकोर्डर ) एत्यादीनि माध्यमानि सञ्चारस्य प्रभावोत्पादकानि साधनानि सन्ति । दर्शकाः मुग्धाः भूत्वा सरलतया सन्देशम् एतैः माध्यमैः प्राप्नुवन्ति ।
सञ्चारस्य माध्यमानि
प्राचीनकामलादेव सञ्चारसाधनानामुपयोगः भवन्ति स्म । परन्तु गच्छता कालेना सास्यां व्यवस्थायां विकासः दृश्यते । अध्यतनीये काले विश्वं एतावत्विस्तृतं वर्तते यत् परस्परसम्पर्कसाधनाय मनुष्यः अनेकानि माध्यमानि आविष्करोति । येन सरलतया मनुष्यः सूचनायाः आदान-प्रदानं कर्तुमं शक्नोति ।यान्त्रिकेऽस्मिन्युगे विकासं प्राप्य आधुनिकसञ्चारसाधनानि अन्तरिक्षेऽपि विशिष्टां गतिं प्राप्नुवन्ति । एतेषां सञ्चारमाध्यमानां साहाय्येन अन्तरिक्षे स्थित्वा अपि जनः पृथ्वीस्थानीयैः जनैः सह सततं सम्पर्कं साधयति सूचनानाञ्च आदान- प्रदानं करोति । मनुष्यः बहुत्कार्याण्यपि सञ्चारमाध्यमैः सारल्येन कर्तुं प्रभवति । जनसञ्चारस्य प्रमुखमुद्देश्यं वर्तते - जनान् कस्यापि निश्चितलक्ष्यस्य प्राप्तये प्रेरणम् । उदाहरणरुपेण ग्रामीणक्षेत्रे एत्मल्ल्क्ष्यं परिवाराय स्वास्थ्यस्य कृते, अल्पव्ययेन पौष्टिकाहारस्य कृते, कुटुम्बस्य आयवृद्धेः कृते, कृषेः उत्पादनवृद्धेः क्र्ते भवितुं शक्नोति ।परन्तु एतादृशविचाराणां स्थापनाय केवलं पारस्परिकसञ्चारमेव न पार्याप्तम्, तदर्थमन्यमाध्यमान्यपि अपेक्ष्यन्तेः यतः इत्थं उच्चारितः शब्दः अधिकः स्पष्टः भवति । एकाधिकैः माध्यमैः प्रकटितः विचारः प्रभावकारी, स्थायी एवं उपयोगी भवति ।
लोकसञ्चारस्य माध्यमानि
लोकसञ्चारमाध्यमानि एतादृशाणि माध्यमानि सन्ति येषामुपयोगं ग्रामीणाः अशिक्षिताः वा जाना अपि कर्तुं शक्नुवन्ति । आधुनिकसञ्चारमाध्यमानां संशोधनात्पूर्वम् एतानि माध्यमानि अत्यधिकमात्रायां विकसितानि अभवन् । एतैः माध्यमैः सामान्योऽपि जनः मनोरञ्जनेन सह ग्नानं प्राप्नोति स्म । एतेषु माध्यमेषु स्थानिकभाषायाः , वशभूषायाः आवश्यकपरिस्थितीनां च उपयोगः क्रियते स्म । एतानि लोकसञ्चारमाध्यमानि धार्मिकविषयमाधारीकृत्य भवन्ति अथवा लोककथाधातरेण भवन्ति । एतेषु माध्यमेषु कष्ठपुत्तलिकायाः क्रीडा, लोकनाट्यस्य, लोकगीतस्य, रामलीला, भाईनाटकानां समावेशो भवन्ति । अशिक्षितजना अपि ग्नानाभावात् उत्पन्नसमस्यानां समाधानम् एतेषां माध्यमेन सरमतया प्राप्नुवन्ति । एतेषां लोकसञ्चारमाध्यमानाम् उपयोगः आधुनिकसमये सर्वकारेण स्वैच्छिकसंस्थाभिश्च क्रियते । इत्थम् एतेषां लोकसञ्चारमाध्यमानां महदुपयोगित्वं वर्तते ।
सदस्यः:Soundarya.hiremat/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। सदस्यः:Soundarya.hiremat/प्रयोगपृष्ठम् में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।