सदस्यसम्भाषणम्:Sreenivas Kumar kavali

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                          ऋग्वेदः (Rigveda ):

ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्तदेवतासूक्तच्छन्दः सूक्तहोऽर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणां समूहो नामच्छन्दः सूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः (इति प्रथमो भेदः) अष्टौ अष्टकानि, चतुष्षाष्टिरध्यायाः, सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वितीयो भेदमार्गः) । मन्त्राश्च सर्वे दशसहस्त्रचतुः शतसप्तषष्ठिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् (१०५८०) मन्त्रान् आह । अत्र भेदे कालभेदेन मन्त्रवृध्दिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या -१५३८२६, अक्षरसंख्या -४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दस्सु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्र्ष्टारो ऋषयः गृत्समदविश्व्वामित्रवामदेवात्रिभद्वाजवसिष्ठादयः सन्ति । ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि सोमविषयकमन्त्राणां सङ्कलनं कृतम् । पवमानः – सोमः । पूर्वोक्ताः सप्तापि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तमण्डलपर्यन्तगताभिः ऋग्भिः सम्बध्दाः, दशमण्डले मन्त्रा नानर्षिसम्बध्दाः । दशमे मण्डले न केवलं देवतास्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते । द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीति साम्प्रतिका आलोचकाः कथयन्ति । चतुर्षु वेदेषु प्रथमगणनीयः अयम् ऋग्वेदः । ऋचां भूयस्त्वात् ऋग्वेद इति व्यपदेशः । ऋच्यते स्तूयते अनया इति ऋक् । स्तुतिपरकाणां मन्त्राणां समूह एव अत्र वेदे सामान्यतः दृश्यते । सर्ववेदानामिव अस्यापि संहिता –ब्राह्मण –आर ण्यक-उपनिषद्भागाः सन्त्येव । तदधिकृत्य अनन्तरं सूच्यते ॥


                                   संस्कृतवाङ्मयम्  (Sanskrit's ):

संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥ संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥ भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥ संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥