सदस्यसम्भाषणम्:Sreenivas Kumar kavali
विषयः योज्यताम्ऋग्वेदः (Rigveda ):
ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्तदेवतासूक्तच्छन्दः सूक्तहोऽर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणां समूहो नामच्छन्दः सूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः (इति प्रथमो भेदः) अष्टौ अष्टकानि, चतुष्षाष्टिरध्यायाः, सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वितीयो भेदमार्गः) । मन्त्राश्च सर्वे दशसहस्त्रचतुः शतसप्तषष्ठिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् (१०५८०) मन्त्रान् आह । अत्र भेदे कालभेदेन मन्त्रवृध्दिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या -१५३८२६, अक्षरसंख्या -४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दस्सु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्र्ष्टारो ऋषयः गृत्समदविश्व्वामित्रवामदेवात्रिभद्वाजवसिष्ठादयः सन्ति । ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि सोमविषयकमन्त्राणां सङ्कलनं कृतम् । पवमानः – सोमः । पूर्वोक्ताः सप्तापि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तमण्डलपर्यन्तगताभिः ऋग्भिः सम्बध्दाः, दशमण्डले मन्त्रा नानर्षिसम्बध्दाः । दशमे मण्डले न केवलं देवतास्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते । द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीति साम्प्रतिका आलोचकाः कथयन्ति । चतुर्षु वेदेषु प्रथमगणनीयः अयम् ऋग्वेदः । ऋचां भूयस्त्वात् ऋग्वेद इति व्यपदेशः । ऋच्यते स्तूयते अनया इति ऋक् । स्तुतिपरकाणां मन्त्राणां समूह एव अत्र वेदे सामान्यतः दृश्यते । सर्ववेदानामिव अस्यापि संहिता –ब्राह्मण –आर ण्यक-उपनिषद्भागाः सन्त्येव । तदधिकृत्य अनन्तरं सूच्यते ॥
संस्कृतवाङ्मयम् (Sanskrit's ):
संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥ संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥ भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥ संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥
Sreenivas Kumar kavali के साथ चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। Sreenivas Kumar kavali के साथ जुड़ने और सहयोग करना शुरू करने के लिए एक नई चर्चा शुरू करें। यहाँ पर आप जो भी लिखेंगे, वह हर कोई देख पाएगा।